________________
व्यवहारसूत्रे
"तिवरिसा होइ नवा, अट्ठारसिया य डहरिया होइ ।
तरुणी य जाव जुवई, चत्तालिसिया य वा तरुणी" ॥१॥ छाया-त्रिवर्षा भवति नवा, अष्टादशिकाच डहरिका भवति ।
तरुणी च यावद् युवतिः, चत्वारिंशा च वा तरुणी ॥१॥ तस्याः 'आयरपकप्पे णामं अज्झयणे' आचारप्रकल्पो नामाऽध्ययनम् आचाराङ्गनिशीथादिकम् 'परिन्भटे सिया' परिभ्रष्टं स्यात् अधीतमाचारप्रकल्पाऽध्ययनम् विस्मृतं भवेत्तदा 'सा य पुच्छियव्या' सा चाऽधीतविस्मृता संयती स्थविरेण प्रष्टव्या-'केण ते कारणेण अज्जे !' हे आर्ये ! केन खलु कारणेन ते तव, 'आयारप कप्पे नामं अन्झयणे परिभट्टे' आचारप्रकल्पो नामाsध्ययनं परिभ्रष्टम्-अधीतमाचारप्रकल्पाऽध्ययनं त्वया विस्मृतं केन कारणेन विस्मृतमिति पृच्छेदित्यर्थः । तत्र कारणमेव विविच्य पृच्छति-किमित्यादि, 'कि आवाहेणं उदाहु पमाएणं' किमावाधेन-रोगादिकारणेन उताहो-यद्वा प्रमादेन विस्मृतमिति । एवं पृष्टा सती-'सा य वएज्जा' सा च वदेत्-'नो आवाहेणं पमाएणं' नो आवाधेन रोगादिकारणेन किन्तु प्रमादेन मयाऽधीतमपि-आचारप्रकल्पाध्ययनं विस्मृतमिति, एवं कथिते सति 'जावज्जीवाए' जावज्जीव-जीवनपर्यन्तमित्यर्थः तस्या विस्मृतकल्पाऽध्ययनायाः श्रमण्याः 'तप्पत्तिय-तत्प्रत्ययं प्रमादतो विस्मरणनिमित्तम् 'नो कप्पई' नो कल्पते 'पवत्तिणीत्तं वा' प्रवर्तिनीत्वं वा 'गणावच्छेइणित्तं वा' गणावच्छेदिनीत्वं वा 'उद्दिसित्तए वा धारित्तए वा' उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा, एतादृश्याः पुनः प्रवर्तिनीपदस्याऽनुज्ञापनं न कर्त्तव्यमाचार्येण, न वा सा स्वयमेव पुनः प्रवर्तिनीत्वं गणावच्छेदिनीत्वं वा धारयितुं शक्नोतीति । 'सा य वएज्जा' अथ यदि सा संयती एवं वदेत्-हे भदन्त ! मया "आवाहेण नो पमाएणं आवाधेन रोगादिना अधीतमपि पुनविस्मृतम् , नतु प्रमादेन विस्मृतमिति ‘सा य संठवेस्सामीति संठवेज्जा' सा च संयती विस्मृतमध्ययन संस्थापयिष्यामि-पुनरपि स्मरिष्यामीति कथयित्वा संस्थापयेत्-पुनरपि संस्मरेत् , 'एवं से कप्पई' एवं प्रकारेण पुनः स्मृतेऽध्ययने सति तस्याः कल्पते 'पवत्तिणीतं वा गणावच्छेइणित्तं वा' प्रवर्तिनीत्वं वा गणावच्छेदिनीत्वं वा 'उद्दिसिचए वा धारित्तए वा' उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा । अथ कदाचित् नष्टमध्ययनम् ‘सा य संठवेस्सामीति नो संठवेज्जा' संस्थापयिष्यामीति कथयित्वा नो संस्थापयेत् न तस्य संस्मरणं कुर्यात् ‘एवं से नो कप्पइ पवत्तिणीत्तं वा गणावच्छेइणिचंवा उदिसित्तए वा धारित्तए वा' एवं तर्हि तस्याः संयत्याः नो कल्पते प्रवत्तिनीत्वं वा गणावच्छेदिनीत्वं वा उद्देष्टुमनुज्ञातुं वा स्वयं धारयितुं वा ॥ सू० १६ ॥
पूर्व नवडहरतरुणनिर्गन्थनिर्ग्रन्थीनाम् आचारप्रकल्पाऽध्ययनं प्रमादतो विस्मरणेन असंस्थापनेन च यावज्जीव पददानाऽभावः प्रतिपादितः, अस्मिन् सूत्रे तु स्थविराणां स्थविरभूमिप्रा