________________
૪
व्यवहारसूत्रे
छाया - स्थविराणां स्थविरभूमि प्राप्तानाम् आचारप्रकल्पो नामाऽध्ययनं परिभ्रष्ट स्यात् कल्पते तेषां सन्निपण्णानां वा त्वग्वर्त्तयतां वा उत्तानकानां वा पार्श्वयतां (पार्श्वतः स्थितानाम् ) वा आचारप्रकल्पो नामाऽध्ययनं द्वितीयमपि तृतीयमपि प्रतिप्रष्टुं वा प्रतिसारयितुं वा ॥ सू० १८ ॥
भाष्यम् -- 'थेराणं' स्थविराणाम् 'थेरभूमिपत्ताणं' स्थविरभूमिप्राप्तानाम् - आचार्यपदप्राप्तानाम्, अथवा-अतिवृद्धभावं प्राप्तानाम्, ' आयारपकप्पे नाम अज्झयणे' आचारप्रकल्पः-आचाराङ्गनिशीथादिसूत्रं नामाऽध्ययनम् 'परिभट्ठे सिया' परिभ्रष्टं - विनष्टं विस्मृतमित्यर्थः स्यात् - भवेत् 'कप्पइ तेर्सि' कल्पते युज्यते तेषां विस्मृताध्ययनानाम् 'संनिसण्णाण वा'–सन्निषण्णानां वा-निपद्यागतानां समुपविष्टानामित्यर्थः 'संतुयद्वाण वा' त्वग्वर्त्तनेन स्थितानां सुप्तानामित्यर्थः ' उत्ताणयाण वा' उत्तानकानां वा - हृदयभागमूर्ध्वकृत्य शयनं कुर्वताम् 'पासल्लियाण वा' पार्श्ववतां वामादिपार्श्वतः स्थितानाम् आश्रयमादायोपविष्टानां वा 'आयरपकप्पे नामं अज्झयणे' -अ " - आचार प्रकल्पना मकमध्ययनम् ' दोच्चापि तच्चपि' द्वितीयमपि वारं तृतीयमपि वारम् अपिशब्दात् चतुर्थीदिवारमपि 'पडिपुच्छित्तए वा' प्रतिप्रष्टुं वा तद्विपयां पृच्छां कर्तुम् 'पडिसारेत्तए वा' प्रतिसारयितुं वा संस्मत्तुं ग्रहीतुं वा कल्पते इति पूर्वेण - संवन्धः ॥ सू० १८ ॥
पूर्वं निर्ग्रन्थनिर्ग्रन्थीनां विस्मृताचार प्रकल्पाध्ययनस्य पठनमाश्रित्य कथितम्, साम्प्रतं निर्यन्थनिर्ग्रन्थीनां द्वादशविधः सम्भोगो भवति तत्र कोऽपि दोष आपतितो भवेत्तदा तस्याऽऽलोचना “कर्त्तव्येत्यालोचनाविधि प्रदर्शयति- 'जे णिग्गंथा णिग्गंधीओ य' इत्यादि ।
सूत्रम् - जे णिग्गंथा णिग्गंथीओ य संभोइया सिया, नो व्हें कप्पइ अन्नमन्नस्स अंतिए आलोएत्तए, अस्थि या एत्थ केइ आलोयणारिहा कप्पर से तेर्सि अंतिए आलोएत्तए, नत्थि या एत्थ केइ आलोयणारिहा एवं हूं कप्पर अन्नमन्नस्स अंतिए आलोएतए ॥ सू० १९ ॥
छाया - ये निर्ग्रन्था निर्ग्रन्ध्यश्च सांभोगिकाः स्यु नो खलु कल्पते अन्योऽन्यस्याऽन्तिके आलोचयितुम्, सन्ति चात्र केचित् आलोचनार्हाः कल्पते तस्य तेषामन्तिके आलोचयितुम्, न सन्ति वा केचिदत्र भालोचनाहः एवं खलु कल्पते अन्योऽन्यस्याs. न्तिके आलोचयितुम् ॥ सू० १९ ॥
भाष्यम् – 'जे णिग्गंधा' ये निर्ग्रन्थाः 'णिगंथीओ य' निर्ग्रन्ध्यश्च 'संभोइया सिया’-साम्भोगिकाः स्युः, तत्र 'संभोगः उपध्यादिवस्तूनां परस्परमादानप्रदानम्, सच ओघतो