SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १३४ व्यवहारसूत्रे यां खलु दिशम् अन्याः साधर्मिण्यो विहरंति तां खलु तां खलु दिशमुपलातुम् , नो तस्याः कल्पते तत्र विहारप्रत्ययं वस्तुम् , कल्पते तस्यास्तत्र कारणप्रत्ययं वस्तुम् , तस्मिश्च कारणे निष्ठित परा वदेत् वल आफै ! एकरात्रं वा द्विरात्रं वा, एवं तस्याः कल्पते एकरात्र वा द्विरात्र वा वस्तुम् , नो तस्याः कल्पते परमेकरात्राद्वा द्विरात्राद्वा वस्तुम् , यत्तत्र परमेकरात्राद्वा द्विरावाद्वा वसति तस्याः सान्तरात् छेदो वा परिहारो वा ॥ सू० १२ ॥ भाष्यम् --'वासावासं पज्जोसविया' वर्षावास वर्षावासनिमित्तं पर्युषिता निवासार्थ स्थिता 'निग्गंथी' निर्ग्रन्थी। शेषं सर्व चतुर्थोदेशगतद्वादशसूत्रव्याख्यानवत् स्त्रीत्वनिर्देशेन व्याख्यातव्यम् ॥ सू० १२ ।। सूत्रम्--पवत्तिणी य गिलायमाणी अन्नयरं वएज्जा मए णं अज्जो ! कालगयाए समाणीए इमा समुक्कसियव्चा सा य समुक्कसणारिहा समुक्कसियन्वा, सा य नो समुक्कसणारिहा नो समुक्कसियव्वा, अस्थि या इत्य अन्ना काइ समुक्कसणारिहा समुक्कसियव्वा, नत्थि या इत्थ अन्ना काइ समुक्कसणारिहा साचेव समुक्कसियवा, ताए णं समुक्किठाए परा वएज्जा दुस्समुक्किडं ते अज्जे! निक्खिवाहि, ताए णं निक्खिवमाणीए नत्थि केइ छेए वा परिहारे वा, जाओ साहम्मणीओ अहाकप्पेणं नो उट्ठाए विहरंति सन्चासि तासिं तप्पत्तियं छेए वा परिहारे वा ।। सू० १३ ॥ छाया-प्रवर्तिनी च ग्लायन्ती अन्यतरां वदेत् मयि खलु आर्ये ! कालगतायां सत्यामियं समुत्कर्षयितव्या। सा च समुत्कर्पणाऱ्या समुत्कर्पयितव्या, सा च नो समुत्कर्षणार्थी नो समुत्कर्षयितव्या, अस्ति चाऽचाऽन्या काचित्समुत्कर्षणार्हा सा समुत्कर्षयितव्या नास्ति चात्राऽन्या काचित् समुत्कर्षणार्हा सैव समुत्कर्षयितव्या , तस्यां च खलु समुत्कष्टायां परा वदेत् दुःसमुत्कृष्टं ते आयें! निक्षिप, तस्या निक्षिप्यमाणायाः नास्ति कश्चित् छेदो घा परिहारो वा, ता यदा साधर्मिण्यो यथाकल्पेन नो उत्थाय विहरन्ति तासां सर्वासां तत्प्रत्यय छेदो वा परिहारो वा ।। सू० १३ ॥ भाष्यम् – 'पवत्तिणी य' प्रवर्तिनी च 'गिलायमाणी' ग्लायन्ती रोगादिना ग्लानिमुपगता मरणासन्ना सतीत्यर्थ. 'अन्नयरं वएज्जा' अन्यतरां संयती वा वदेत् कथयेत् । शेषं सर्वं चतुथोद्देशगताचार्योपाध्यायात्मकत्रयोदशसूत्रवदेव व्याख्येयम् नवरं केवलमत्र विशेषोऽयम्-यत्तत्र 'से य नो समुक्कसणारिहे' इत्यस्यार्थे समुद्यतविहारजिनकल्पसमुद्यतमरणं प्रत्तिपत्तुकामः, इत्युक्तम् अत्र च प्रवर्तिनीसूत्रे 'सा य नो समुक्कसणारिहा' इत्यस्य भक्तप्रत्याख्यान प्रतिपत्तुकामा यदि भवेत् इत्यर्थः कर्त्तव्यः, एतावानेवात्र भेदः, अन्यच्च तत्र पुंस्त्वेन निर्देशः अत्र तु स्त्रीत्वेन निर्देशः कर्तव्यः ॥ सू० १३ ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy