________________
व्यवहार
सूत्रसू -- दो साहम्मिया एगयओ विहरंति, तंजद्दा - सेहे य रायणिए य, तत्थ रायणिए पलिच्छपणे से हतराए अपलिच्छण्णे, इच्छा रायणिए सेहतरागं उचसंपज्जेज्जा, इच्छा नो उवसंपज्जेज्जा इच्छा भिक्खोववायं दलयड़ कप्पागं इच्छा नो दलय कप्पागं ||२५||
२४
"
छाया - द्वौ साधर्मिकौ पकतो विहरतः, तद्यथा - शैक्षश्च रात्निकश्च तत्र रात्निकः परिच्छन्नः शैक्षतरकोऽपरिच्छन्नः, इच्छा रात्निकः शैक्षत रकमुपसंपद्येत इच्छा नो उपसंपद्येत इच्छाभिक्षोपपातं ददाति कल्प्यकम् इच्छा नो ददाति कल्यकम् ॥ सू० २५ ॥
भाष्यम् – 'दो साहम्मिया' हौसाधर्मिकौ ' एगयओ विहरंति' एकत' सदैव विहरतः 'तंज' तथा 'सेहे य रायणिए य' शैक्षय रात्निकश्च तत्र शैक्षः लघुपर्यायः रात्निकः रत्नाघिकः पर्यायज्येष्ठः ‘तत्थ’ तत्र तयोर्द्वयोः शैक्षकरानिकयोर्मध्ये रायणिए' रानिको रत्नाधिकः पर्यायज्येष्ठः 'पलिच्छण्णे' परिच्छन्नः परिच्छदेन शिष्यपरिवारेण सहितः 'सेहतराए अपलिच्छ - ण्णे' शैक्षतरकोऽपरिच्छन्नः शिष्यपरिवारेण रहितो भवेत्, एवं सति तत्र 'इच्छा' इच्छा - रात्निकस्य इच्छा यदि भवति तदा ‘रायणिए' रात्निकः 'सेहतरागं उवसंपज्जेज्जा' शैक्षतरकमुपसंपद्येत यदि रात्निकस्येच्छा भवेत् तदा स रत्नाधिकः शैक्षतरकं स्वमर्यादायां गृहीयात् 'इच्छा' इच्छा पर्यायज्येष्ठस्य वाञ्छा तं शैक्षतरकं 'नो उवसंपज्जेज्जा' नो उपसंपद्येताऽपि । तथा 'इच्छा भिक्खोववायं दलइ कप्पागं' इच्छा भिक्षामुपपातं च ददाति कल्प्यकम् । यदि रत्नाधिकस्येच्छा भवति तदा शैक्षकाय भिक्षामशनादिचतुर्विधाहारमानीय शिष्यद्वारा आनाय्य वा कल्पनीयं ददाति, 'इच्छा नो दलयइ कप्पागं' इच्छा नो ददाति कल्प्यकम्, यदि कदाचित् रत्नाधिकस्यादातुमिच्छा तदा कल्पनीयं भिक्षादिकमानीय नापि ददाति शैक्षकाय ।
अयं भावः -- - शैक्षको यदि सपरिवारो भवेत्तदा निष्परिवारं रत्नाधिकमुपसंपद्य विहर्तुं कल्पते किन्तु रत्नाधिकः सपरिवारः शैक्षकोsपरिवारः एतादृश्यां स्थितौ रत्नाधिक इच्छानुसारं वर्त्तते, शैक्षकं स्वोपसंपादायां गृह्णीयात् नो गृह्णीयात्, पर्यायज्येष्टस्य द्रव्यक्षेत्रकालभावादिज्ञातृत्वेन ऐच्छिक प्रवृत्तित्वविधानात्, इदमुक्तं भवति - यदि स शैक्षतरकोऽल्पपर्यायः किन्तु तुल्यश्रुतः तदा स रत्नाधिकश्चिन्तयति - एतस्य भिक्षाहिण्डनव्याक्षेपेण मा सूत्रार्था नश्येयुः, ततः संघाटकं ददाति, अथवा एष मम समानगुरुकुलवासी सहाध्यायी द्रव्यपरिच्छेदेनाsपरिच्छदो मा भूयादिति सहाध्यायान्तेवासिस्नेहेन संघाटं साधुपरिवारं ददाति, आलोचनां च प्रयच्छति, यद्यल्पश्रुतस्तदा तु परिवारमुपसंपदं वा ददातीति । अथ स शैक्षतरको रत्नाधिकाद्बहुश्रुतस्तदा नियमत उपसंपत्तव्य', परिवारश्च तस्य दातव्य., रत्नाधिकस्य सूत्रार्थग्रहणकामुकत्वादिति । यदि शैक्षतरकोऽबहुश्रुतस्तदा न ददातीति 'इच्छा नो इच्छा' इत्यस्य विवेक. ॥ सू० २५ ॥