SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ४ सू० २३-२५ साधर्मिकद्वयस्यैकतो विहरणविधिः १२३ अथ यदि चरिकाप्रविष्टसूत्रद्वयवदेव चरिकानिवृत्तसूत्रद्वयमपि वर्त्तते तदा किमर्थमनयोः सूत्रयोः पृथगुपादानं क्रियते चरिकाप्रविष्टसूत्राभ्यामेव अनयोश्चरिकानिवृत्तसूत्रयोर्गतार्थत्वात् , यतो यैव चरिकाप्रविष्टानां श्रमणानां सामाचारी सैव सामाचारी चरिकानिवृत्तानां साधूनामपीति । अत्रोच्यते-केवलमुच्चारिते चरिकाप्रविष्टसूत्रद्वये, अनुच्चारिते च चरिकानिवृत्तसूत्रद्वये यथैव प्रायश्चित्तदानसामाचारी चरिकाप्रविष्टानाम् सैव सामाचारी चरिकानिवृत्तानामपीत्यर्थो न लभ्यते एतादृशार्थप्रतिपादकसूत्रपदाऽभावात् , पदेन हि पदार्थो ज्ञायते पदाऽभावे पदार्थज्ञानस्याऽसंभवात् ततःसूत्रद्वयमुच्चार्य यैव सामाचारी चरिकाप्रविष्टानां सैव सामाचारी चरिकानिवृत्तानामपीति वोधनाय चरिकानिवृत्तसूत्रद्वयं निहितम् , अन्यथा-एतत्सूत्रद्वयाभावे चरिकानिवृत्तानामन्यैव कापि सामाचारीति कल्प्येत ततः कल्पनान्तरं मा भूदित्येवमर्थं चरिकानिवृत्तसूत्रद्वयमिति ॥ सू० २३ ॥ सूत्रम्-दो साहम्मिया एगयओ विहरंति तंजहा सेहो रायणिए य, तत्थ सेहतराए पलिच्छन्ने रायणिए अपलिच्छन्ने, सेहतराएणं रायणिए उवसंपज्जियव्वे भिक्खोववायं च दलयइ कप्पागं ॥ सू० २४ ॥ छाया-- द्वौ साघमिकौ एकतो विहरतः तद्यथा-शैक्षो रात्निकश्च तत्र शैक्षतर:परिच्छन्नः रत्निकोऽपरिच्छन्नः, शैक्षतरेण रात्निक उपसंपत्तव्यः भिक्षामुपपात च दाति कल्प्य कम् ॥ सू० २४ ॥ भाष्यम्-'दो साहम्मिया' द्वौ साधर्मिको समानगुरुकुलौ सहाध्यायिनौ एकस्य गुरोरन्तेवासिनौ 'एगयओ विहरंति' एकतः सहैव द्वावपि विहरतः 'तंजहा' तद्यथा-'सेहो रायणिए य' शैक्षकः पर्यायविद्यादिमिश्च न्यून., रास्निकश्च रत्नाधिकः, 'तत्थ' तत्र तयोर्द्वयोः शैक्षरानिकयोमध्ये यः शैक्षतरः लघुपर्यायः सः पलिच्छन्ने' परिच्छन्नः द्रव्यपरिच्छदेन शिष्यादिना परिवृतः संयुक्तः तथा 'रायणिए अपलिच्छन्ने' रानिको रत्नाधिकः अपरिच्छन्नः द्रव्यपरिवारेण शिष्यरूपेणाऽपरिच्छन्नः शिष्यपरिवाररहित इत्यर्थ , तत्र 'सेहतरएणं रायणिए उवसंपज्जियव्वे सिया' शैक्षतरकेण लघुपर्यायसाधुना 'रायणिए' रात्निको रत्नाधिक उपसंपत्तव्यः स्यात् शैक्षतरको रत्नाधिकमुपसंपद्येत रत्नाधिकस्य परिवारत्वेन स्थातव्यमित्यर्थः, तथा शैक्षतरः रत्नाधिकाय 'भिक्खोववायं च दलया कल्पागं भिक्षामुपपातं ददाति कल्पाकम् शैक्षतरको रत्नाधिकस्य भिक्षाम् अशनादिचतुर्विधमाहारम् , उपपातं समोपोपवेशनं विनयादिकं च ददाति, भिक्षादिकं सर्वमपि कल्पनीयं रत्नाधिकस्य ददाति तत्समीपे दैवसिकी रात्रिकी चालोचना कर्त्तव्या सर्वमपि विनयवैयावृत्त्यादिकं रत्नाधिकस्य कुर्यादिति भावः ॥ सू० २४ ॥ ___ पूर्वसूत्रे शैक्षः परिवारसहितः रत्नाधिकश्च परिवाररहितः इति तयोर्द्वयोरेकत्र वासविधिः प्रदर्शितः, साम्प्रत तद्वैपरीत्येन तयोरेकत्र वासविधिमाह-दो साहम्मिया' इत्यादि । ।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy