________________
૨
व्यवहारसूत्रे
ततो गुरुणाऽभ्युपगते सति पश्चात् कायसंस्पर्शम् कायस्य चरणयुगललक्षणस्य शिरसा संस्पर्श करोति गुरोश्चरणद्वयं शिरसा वन्दते इत्यर्थ, अथवा कृतिकर्मादिषु आगमने गमने च यः कायसंस्पर्शः शरीरसंघट्टादिर्जातस्तमप्यनुजानीत गमनागमने च भवदासनादीनां संघट्टादिकं नातं तस्याऽपि क्षमां ददतु इत्यर्थः ॥ सू० २१ ॥
पूर्वं चरिकाप्रविष्टस्य सूत्रद्वयेनाऽऽलोचनादिकं प्रोक्तम्, सम्प्रति चरिकानिवृत्तस्य सूत्रद्वयेनाऽऽलोचनादिकमाह-'चरियानिय भिक्खू' इत्यादि ।
सूत्रम् - चरियानियट्टे भिक्खू जाव चउरायपंचरायाओ थेरे पासेज्जा सच्चेव आलोयणा सच्चेव पडिक्कमणा सच्चेव उग्गहस्स पुन्वाणुण्णवणा चिट्ठ आहालंदमवि उग्गहे ॥ सू० २२ ॥
छाया - चरिका निवृत्तो भिक्षुः यावत् चतूरात्रपञ्चरात्रात् स्थविरान् पश्येत् सैवाssलोचना तदेव प्रतिक्रमणम् सैवाऽवग्रहस्य पूर्वाऽनुज्ञापना तिष्ठति यथालन्दमप्यवग्रहे ॥ सू० २२ ॥
भाष्यम् – 'चरियानियट्टे भिक्खू' चरिकानिवृत्तो भिक्षुः यः साधुः स्थविराज्ञां विना गत्त्वा तत्स्थानतो निवृत्त: ‘जाव चउरायपंचरायाओ' यावत् चतूरात्रपञ्चरात्रात् यावत्पदेन एकरात्रात् द्विरात्रात् त्रिरात्राद्वा परं इत्यस्य संग्रहो भवति । शेषं सर्वे चरिकाप्रविष्टविषयकविंशतितमसूत्रवदेव व्याख्येयम् ॥ सू० २२ ॥
1
अथ चरिकानिवृत्तविषयकं द्वितीयसूत्रमाह - 'चरियानिय भिक्खू' इत्यादि ।
सूत्रम् – चरियानियट्टे भिक्खू परं चउरायपंचरायाओ थेरे पासेज्जा पुणो आलोएज्जा पुणो पडिक्कमेज्जा पुणो छेयपरिहारस्स उबट्टाएज्जा भिक्खुभावस्स अट्ठाए दोच्चपि ओग्गहे अनुन्नवेयच्वे सिया, अणुजाणह भंते ! मिश्रग्गदं अहालंं धुवं नितियं नियच्छियं वेउट्टियं तओ पच्छा कायसंफासं ॥ सू० २३ ॥
छाया -चारिकानिवृत्तो भिक्षुः परं चतूरात्रपञ्चरात्रात् स्थविरान् पश्येत् पुनरालोचयेत् पुनः प्रतिक्रमेत् पुनश्छेदपरिहारस्थोपतिष्ठेत् भिक्षुभावस्यार्थाय द्वितीयमपि अवग्रहः अनुज्ञातव्यः स्यात् अनुजानीत भदन्त ! मितमवग्रहं यथालन्दं ध्रुवं नियतं नैश्चयिकं व्यावृत्तम् ततः पश्चात् कायसंस्पर्शम् ॥ सू० २३ ॥
भाष्यम्- 'चरियानियट्टे भिक्खू' चरिकानिवृत्तो भिक्षुः आज्ञामन्तरेण अन्यगणे ग्रामानुग्रामविहारे वा गत्वा ततः प्रतिनिवृत्तो भिक्षुरित्यर्थः ' परं चउरायपंचरायाओ' चतूरात्रपञ्चरात्रात् । पूर्वं परतो वा 'थेरे पासेज्जा' स्थविरान् पश्येत् । शेषं सर्वे चरिकाप्रविष्टविषयैकविंशतितमसूत्रवद् व्याख्येयम् ।