________________
१०८
व्यवहासूत्रे
रायाओ वा दुरायाओ वा वत्थए जं तत्थ परं एगरायाओ वा दुरायाओ वा वसइ से संतरा छेए वा परिहारे वा ॥ सू०११॥
छाया--प्रामाऽनुग्राम द्रवन् भिक्षुर्य पुरतः कृत्वा विहरति स आहत्य विष्वग्भवेत्, अस्ति चात्राऽन्यः कश्चित् उपसंपदाहः उपसंपत्तव्यः, नास्ति कश्चित् उपसंपदाईः तस्य आत्मनः कल्पोऽसमाप्त. कल्पते तस्यैफरात्रिक्या प्रतिमया यां या खलु दिशमन्ये साधर्मिका विहरन्ति तां तां खलु दिशसुपलातुम्, नो तस्य कल्पते तम विहारप्रत्ययं वस्तुम, कल्पते तस्य तत्र कारणप्रत्ययं वस्तुम्, तस्मिश्च कारणे निष्ठिते परो वदेत् यस आर्य ! एकरात्रं वा द्विरात्रं वा एवं तस्य कल्पते एकरात्र वा द्विरात्र वा वस्तुम्, नो तस्य कल्पते परमेफरात्राद्वा विरात्राद्वा वस्तुम्, यत्तत्र परमेकरात्राद्वा द्विरात्राद्वा वसति तस्य सान्तरात् छेदो वा परिहारो वा ।। सू०११ ॥
भाष्यम्-'गामाणुगाम' इत्यादि । 'गामाणुगाम' प्रामानुग्रामम् एकस्माद् ग्रामाद् गामान्तरम् 'दूइज्जमाणे' द्रवन् गच्छन् एतावता ऋतुबद्धः कालः प्रदर्शितः । 'भिक्ख' भिक्षुः श्रमणः 'जं पुरओ कट्टु विहरई' यं पुरतः कृत्वा पुरस्कृत्य यमाचार्यमुपाध्यायं वा पुरतः कृत्वा यन्निश्रयेत्यर्थः विहरति 'से आ६च्च विसंभेज्जा' स आचार्य उपाध्यायो वा गच्छनायकः आहत्य कदाचिद् आयुर्दलिकपरिक्षयात् विश्वग्भवेत् शरीरात्पृथग् भवेत् कालगतो मृतो भवेदित्यर्थः तदा 'अस्थि या इत्थ अन्ने केइ उपसंपज्जणारिहे' अस्ति चाऽत्र समुदायेऽन्यः कश्चित् भाचार्य उपाध्यायो गणी गणधरः प्रवर्तकः स्थविरो वा उपसंपदाऽर्हः उपसंपद्योग्यः पदवीयोग्य इत्यर्थः तदा 'से उवसंपज्जियव्वे' स एवोपसंपत्तव्यः आचार्यादित्वेन स्थापयित्वा तन्निश्रायां स्थातव्यमित्यर्थः । 'नत्थि या इत्थ अन्ने केइ उवसंपणारिहे' यदि नास्ति चात्र कश्चिदन्य आचार्यादिः, गणी प्रवर्तकादिर्वा समुदाये उपसंपदाहः आचाराङ्गनिशीथादेर्शाता तदा 'अप्पणो कप्पाए असमत्ते' आत्मनः स्वकीयस्य कल्पः आचारकल्पः असमाप्तः आचारकल्पः पूर्णो न पठितो भवेत्तदा तदने पठनस्यावश्यकता वर्तते एवं सति 'कप्पइ से एगराइयाए पडिमाए' कल्पते तस्य एकरात्रिक्या प्रतिमया एकरात्राभिग्रहेण 'अत्रतः प्रस्थितोऽहं गन्तव्यस्थानादर्वाग् अपान्तराले एकरात्रादधिकं न स्थास्यामि' इत्यभिग्रहमादायेत्यर्थः 'जणं जंणं दिसं' यां यां खल दिशं-यस्या यस्यां दिशि यत्र यत्र प्रदेशे 'अन्ने साहम्मिया विहरंति' अन्ये केचित् साधर्मिकाः समानधर्माणो विहरंति 'तं णं तं णं दिसं उवलित्तए' ता तां खलु दिशं-तस्या तस्या दिशि उपलातुम् गन्तुमित्यर्थः किन्तु 'नो से कप्पइ तत्थ विहारवत्तियं वत्थए' नो तस्य भिक्षुकस्य कल्पते अपान्तराले विहारप्रत्ययं निवासनिमित्तकं आहारोपकरणादिलोभात्तत्रावस्थानकारणकं वस्तुं वासं कर्तुम् । 'कप्पइ से तत्थ कारणवत्तियं वत्थए' कल्पते तत्यान्तराले कारणप्रत्ययं कारणमासाद्य ग्लानादेवैयावृत्त्यादिकारणमालभ्य एकद्विरात्रादधिकमपि