________________
भाष्यम् उ० ४ सू० १२
काचार्यादौ कालधर्मप्राप्ते विहरणाविधिः १०९ वस्तुं वास कर्तुम् । 'तंसि च णं कारणंसि निद्वियंसि' तस्मिंश्च खलु कारणे निष्टिते समाप्ते सति यदि 'परो वएज्जा' परोऽन्यः तत्रत्यः श्रमणः सघो वा वदेत्-कथयेत्, किं वदेत्तत्राह'वसाही'-त्यादि, 'वसाहि अज्जो' वस निवासं कुरु हे आर्य ! 'एगरायं वा दुरायं वा' एकरात्रं वा द्विरात्रं वा यावद् अत्राधिकं वस, इति यदि परो वदेत् तदा 'एवं से कप्पई एगरायं वा दुरायं वा वत्थए' एवमन्येन प्रार्थनायां कृतायां तस्य श्रमणस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम्, किन्तु 'नो से कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए' नो कल्पते तस्य एकरात्राद्वा द्विरात्राद्वा परमधिकं तत्र वस्तुम्, 'जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई' यद्-यदि तत्र परमधिकमेकरात्राद्वा द्विरात्राद्वा कारणं विना वसति तदा 'से' तस्य 'संतरा छेए वा परिहारे वा' सान्तरात् स्वकृतादन्तरात् अन्तररूपापराधात् गन्तव्यस्थानप्रापणे यावदेवसिकमन्तरं भवेत् यावन्ति दिनानि गन्तव्यस्थानप्रापणे तत्र व्यवधानोकतानि तावदिवसपरिमितः छेदो वा परिहारो वा छेदनामकं वा परिहारनामकं वा प्रायश्चित्तं भवेत्तस्येति ।
अत्रायं मूत्राशयः-यन्निश्रया भिक्षुामानुग्राम विहरति तस्मिन् कालगते सति गच्छे यदि उपसम्पदाहः पदवीयोग्यः कोऽप्यन्यो भवेत्तदा तं तत्र उपसंपदायां स्थापयित्वा तन्निश्रायां स्थातव्यम् , तदनन्तरं स्वस्य पठितुमारब्धकल्पस्याग्रे पठनं कर्त्तव्यम् । यदि उपसंपदाह-पदवीयोग्योऽन्यः कोऽपि गच्छे न भवेत्, स्वकीयः कल्पश्चाऽसमाप्तो वर्ततेऽतस्तत्पूरणार्थमग्रे पठनमावश्यकं वर्तते स्वनिश्रायां कतिचित् साधवो भवेयुः, एवं सति स्वनिश्रागतान् सर्वान् साधून गृहीत्वा गमनं कर्त्तव्यम् । तत्र एकरात्रिकाभिग्रहेण गच्छेत् , यथा अत्रतो निर्गमनानन्तरं गन्तव्यस्थानादर्वाग् अपान्तराले एकरात्रादधिकं कुत्रापि न स्थास्यामीति । एवंविधाभिग्रहेण यस्यां दिशि कल्पपाठकाः साधर्मिकास्तिष्ठन्ति ता दिशं प्रति प्रस्थातव्यम्, तत्रापान्तराले गोकुलादौ दुग्धदध्यादिलाभरूपं प्रतिवन्धमकुर्वन् गच्छेत् किन्तु मार्गे आहारा दिलाभमपेक्ष्य स्थातुं न कल्पते । यदि मार्गे स्थिताना साधूना ग्लानाद्यवस्थायां वैयावृत्त्यादिकारणमुपस्थितं भवेत्तदा तस्य तत्कारणप्रत्ययमेकरात्रादधिकमपि तत्र वस्तुं कल्पते । समाप्ते च कारणे तत्रतो निर्गन्तव्यम् । यदि तत्रत्याः श्रमणाः पुनरधिकं वस्तुमाग्रहं कुर्युः तदा एकरात्र वा द्विरात्रं वा तत्र स्थातुं कल्पते । तत्राहारोपध्यादिलोभादेकद्विरात्रादधिकं वसेत् तदा तस्य भिक्षोरपान्तराले गन्तव्यस्थानप्राप्ती यावदिनावधिकमन्तरं भवेत् ताव-परिमितश्छेदः परिहारतपो वा कल्पपठनान्तरायकारणकं समापधेतेति सूत्राशयः ॥ सू०११ ॥
तदेवं ऋतुबद्ध कालसूत्र व्याख्याय सम्प्रति वर्षावासमूत्र व्याख्यातुमाह-'वासावासं' इत्यादि ।
सूत्रम् -वासावासं प्रज्जोसविओ भिक्खू य ज पुरओ कटु विहरइ से आहच्च वीसंभेज्जा अस्थि या इत्य अन्ने केइ उपसंपज्जणारिहे से उवसंपज्जियम्वे, नत्थि या