________________
व्यवहारसूत्र अथ भिक्षुकादीन् सर्वान् संगृह्य बहुवचनेन सप्तमं समुच्चयसूत्रमाह-'वहवे भिक्खुणो' इत्यादि ।
सूत्रम्-वहवे भिक्खुणो वहवे गणावच्छेयया वहवे आयरियउवज्झाया बहुस्मुया वभागमा बहुसो बहुसु अगाढागाढेसु कारणेसु माई मुसावाई असुई पावजीवी जावज्जीवाए तेसिं तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० २९ ॥
॥ ववहारकप्पे तइओ उद्देसो समत्तो ॥ ३ ॥ छाया-बहवो भिक्षुका वहवो गणावच्छेदकाः वहव आचार्योपाध्याया बहुश्रुताः वबागमाः वहुशो वहुपु आगाढागाढेपु कारणेपु मायिनो मृपावादिनः अशुचयः पापजीविनो यावज्जीवं तेषां तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद् गणावच्छेदकत्वं वा उद्देष्टु वा धारयितुं वा ॥ सू० २९॥
॥ व्यवहारकल्पे तृतीय उद्देशः समाप्त ॥३॥ भाष्यम्-'बहवे भिक्खुणो' बहवो भिक्षुकाः तथा 'वहवे गणावच्छेयया' वहवोऽनेके गणावच्छेदकाः 'वहवे आयरियउवझाया' वहवोऽनेके आचार्योपाध्यायाः । शेषं सर्वं भिक्षुकादीनां बहुत्वमधिकृत्य बहुवचनेन भिक्षुसूत्रव्याल्यावद् व्याख्या करणीया । अयं भावः-अनेके भिक्षुका ग्रणावच्छेदका आचार्योपाध्याया बहुश्रुताद्या अपि अभीक्ष्णं माया-मृषा-वादादिकं यदि कुर्युः तदा भिक्षुकादीनां सर्वेषामपि मृषावादादिजनितापराधेन जीवनपर्यन्तमेषामाचार्यादिगणावच्छेदकान्तपदव्या दानं धारण च न कल्पते इति ॥ सू० २९ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त
"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैन__धर्म-दिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायां"व्यवहारसुत्रस्य"
भाष्यरूपायां व्याख्यायां तृतीय
उद्देशकः समाप्तः ॥३॥