________________
॥ अथ चतुर्थोदेशकः प्रारभ्यते
व्याख्यातस्तृतीयोद्देशक', सम्प्रति चतुर्थ उद्देशः प्रारभ्यते, तत्रास्यादिसूत्रस्य तृतीयो - देशकान्तिमसूत्रेण सह कः सम्बन्धस्तत्राह भाष्यकारः - 'आयरिय०' इत्यादि ।
भाष्यम् - आयरियमाइयाणं, माइप्पभिण नो पय देना । उद्धारकाले, विहरेज्जा तेसि विहिमेत्थ ॥ १ ॥
छाया - आचार्यादीनां मायिप्रभृतीनां नो पदं दद्यात् । ऋतुबद्धादिककाले विहरेयुस्तेषां विधिमन्त्र ॥ १ ॥
व्याख्या- 'आयरियमाइयाणं' इति । पूर्वं तृतीयोद्देश कस्यान्तिमसूत्रे मायिप्रभृतीनां मायिमृषावाद्यशुचिपापजीविनाम् आचार्यादीनाम् आचार्यस्योपाध्यायस्य प्रवर्त्तकस्य स्थविरस्य गणिनो गणघरस्य गणावच्छेदकस्य चेत्यर्थः पदम् आचार्योपाध्यायादिपदं यावज्जीवं न दद्यात् इति प्रोक्तम्, ते च 'उउवाइयकाले' ऋतुबद्धादिकाले हेमन्तग्रीष्मकाले वर्षावासकाले च 'विहरेज्जा' विहरेयुः विचरेयु तदा कथं विचरेयुः 2 इति तेषां विचरणस्य विधिम् अत्र चतुर्थोद्देशकस्यादौ कथयिप्यते, इत्येष पूर्वापरोद्देशकयो. सम्वन्धः । अनेन सम्बन्धेनायातस्यास्य 'चतुर्थोद्देशकस्येदमादौ आचार्योपाध्यायादिविषयकं सूत्राष्टकमाह - 'नो कप' इत्यादि ।
सूत्रम् - नो कप्पइआयरिय उवज्झायस्स एगाणियस्स हेमंत गिम्हासु चरित्तर ॥१॥ कप्पड़े आयरियउवज्झायरस अप्पविइयस्स हेमंत गिम्हासु चरित्तए | सू० २ ॥ नो कप्पइ गणावच्छेययस्स अप्पविश्यस्स हेमंतगिम्हासु चरित्तए । सू० ३ ॥ कप्पर गणावच्छेययस्स अप्पतइयस्स हेमंतगिम्हासु चरितए || सू० ४ || नो कप्पर आयरियउवज्झायस्स अप्पविश्यस्स वासावासं वत्थए | सू० ५ ॥ कप्पइ आयरियउवज्झायस्स अप्पतइयस्स वासावासं वत्थए | सू० ६ ॥ नो कप्पड़ गणावच्छेययस्स अप्पतइयस्स वासावासं वत्थए || सू० ७ ॥ कप्पइ गणावच्छेययस्स अप्प उत्थस्स वासावासं वत्थए । सू० ८ ॥
छाया - नो कल्पते आचार्योपाध्यायस्य एकाकिनो हेमन्तग्रीष्मेषु चरितुम् ॥ सू० १ ॥ कल्पते आचार्योपाध्यायस्य आत्मद्वितीयस्य हेमन्तग्रीष्मेषु चरितुम् ॥ ० २ ॥ नो कल्पते गणावच्छेदकस्य आत्मद्वितीयस्य हेमन्तग्रीष्मेषु चरितुम् ॥ सू० ३ ॥ कल्पते गणावच्छेदकस्य आत्मतृतीयस्य हेमन्तग्रीष्मेषु चरितुम् ॥ सू० ४ ॥ नो कल्पते आचार्योपाध्यायस्य आत्मद्वितीयस्य वर्षावासं वस्तुम् ॥ सू० ५ ॥