SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ३ सूफ ११-१२ आचार्याधनिश्रया निम्रन्थस्यावस्थाननिषेधः ८४ नो तस्य कल्पते अनाचार्योपाध्यायतया भवितुम् 'से' तस्य निग्रन्थस्य नवस्य डहरस्य तरुणस्य चाऽनाचार्योपाध्यायतया आचार्योपाध्यायविरहिततया भवितुं गणे वर्तितुं स्थातुं न कल्पते । आचायोपाध्यायरहितः सन् से गणे न वसेत् अनायकस्थितौ अनेकदोषसंभवात् तस्मात्कारणात् 'से पुत्वं आयरियं उदिसावेत्ता' स नवादिः श्रमणः पूर्व प्रथमतः आचार्य गणनायकम् उद्देश्य गणेगणनायकं स्थापयित्वा 'तओ पच्छा उवज्झायं' ततः पश्चादाचार्यस्य स्थापनाऽनन्तरम् उपाध्यायमुद्देश्य स्थापयित्वा पुनः कल्पते स्थातुमिति भावः । एवमाचार्योपाध्यायस्य विद्यमानत्तया भवितुं कल्पते । एवमाचार्यस्य वचनं श्रुत्वा शिष्यः पृच्छति-से किमाहु भंते' इति:'से किमाहु भंते' ! अथ हे भदन्त ! किं कस्मात् कारणात् भगवन्त एवमाहुः कथयन्ति यत् निर्ग्रन्थस्य नवडहरतरुणस्य आचार्यमरणे प्रथममाचार्य स्थापयित्वा तत्पश्चात् उपाध्याय स्थापयित्वा तयोनिश्रया स्थातुं कल्पते इति कथमेवम् ? तत्राऽऽचार्यः प्राह-'दुसंगहिए' इत्यादि । 'दुसंगहिए समणे णिग्गंथे' द्विसंगृहीतः श्रमणो निम्रन्थः, द्वाभ्यां संगृहीतः संरक्षित एव श्रमणो निम्रन्थः सदा भवति । श्रमणेन निर्ग्रन्थेन सदैवाचार्योपाध्याययुक्तेनैव भवितव्यम् , न तु ताभ्यां विरहितेन कदाचिदपि भाव्यमिति । काभ्यां द्वाभ्याम् ? तत्राह-'तंजहा' इति । 'तंजहा' तद्यथा"आयरिएणं उवज्झाएण य' आचार्येण उपाध्यायेन च सगृहीत एव श्रमणो निर्ग्रन्थः सदा भवतीति । ननु किमर्थमेवमुक्तम् यत् आचार्योपाध्यायरहिता नवदीक्षिता डहराः तरुणाश्च स्थातुं नार्हन्ति ? तत्राह-आचार्योपाध्यायसंरक्षणरहितानामस्वामिकानां तेषां स्वपरसमुद्भवा बहवो दोषाः समापतन्ति, तथाहि-संरक्षणरहिता बालसाधवः 'अनाथा वय-मिति कृत्वाऽन्यगणे गच्छन्ति, न शास्त्रमधीयते, प्रत्युपेक्षणादिकमपि यथासमयं न कुर्वन्ति, सयमे शिथिला भवन्ति, ययेच्छं भ्रमन्ति;गृहस्थपर्याये वा गच्छेयुः, इत्यादिस्वसमुद्भवा दोषा इति । परसमुद्भवा दोषा यथा-पार्श्वस्थादयो गृहस्थाः परतीथिका वा क्षुल्लकान् 'अस्वामिका एते' इति कृत्वा तद्गच्छाद् निष्क्रामयेयुः, ततः पार्श्वस्थास्तान पार्श्वस्थत्वे परिणमयन्ति, गृहस्थास्तान् गृहस्थपर्याये परिणमयन्ति; अन्यतीर्थिकाः अन्यतीथिकान् कुर्वन्ति, इत्यादिका बहवो दोषा नवानां विषये समुत्पद्यन्ते । तथा डंहराणामिमे दोषाः-'अनाथा वयं जाताः' इति मनस्याघातेन क्षिप्तचित्ता भवन्ति, स्तेना वा स्वपक्षे परपक्षे चोत्तिष्ठन्ति, ते तान् विपरिणमय्य हरन्ति, अन्यत्र नयन्ति, अपरिपक्ववुद्धित्वेन परीपहैः वित्नाः संयमे कम्पमाना भवेयुरन्यत्र वा स्वयं गच्छन्तीत्यादयः डहरदोषाः। तरुणानां तु दोषकलापसभवः, तारुण्यस्य तथास्वभावात् , तथाहि-न वर्ततेऽस्माकमाचार्य उपाध्यायो वा, स्वतन्त्रा वयमिति बुद्धया न संयम सुचारुतया परिपालयन्ति, गृहस्थैः सह राजकथादिकां चतुर्विधां विकथा यथेच्छं कुर्वन्ति, न यथासमयं प्रतिलेखनादिक्रियां कुर्वन्ति, आचार्यादिपदपिपासया वाऽन्यत्र गमनं व्य. १२
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy