SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे योऽर्थरूपोंऽशोऽवशिष्टो वर्त्तते तम् अवशिष्टमर्थरूपमंशं यदि सः 'अहिज्जिस्सामि' अध्येप्ये इति कथयित्वा यदि 'अहिज्जेज्जा' अधीयेत आचाराङ्गादेः शेषभागं पठेत् यदवशिष्टं तत् सर्व पश्चात् अध्येप्ये इत्युक्त्वा यदि तत्कालमेवाऽधीते अध्येतुं प्रारभेत तदा-‘एवं से कप्पइ आयरियउवज्झायत्ताए उद्दिसित्तए' एवं सति तस्य कल्पते तदिवसे आचार्योपाध्यायतया उद्देष्टुं स्थापयितुम् । यदि पुनः ‘से य अहिज्जिस्सामि त्ति नो अहिज्जेजा' तच्चावशिष्टमशम् अध्येध्ये इति कथयित्वाऽपि नो अधीयेत पठनवचनानन्तरं 'न मम तदध्ययनसामर्थं वर्तते' इति वदेत् तदा ‘एवं से नो कप्पइ आयरियउवज्झायत्ताए उद्दिसित्तए तहिवसं' एवं सति तदा तस्य नो कल्पते आचायतया वा उपाध्यायतया वा उद्देष्टुं स्थापयितुं तद्दिने तस्मिन्नेव दिवसे इति ।। सू० १०॥ पूर्वं तदिवस एवाचार्यादिपददानविधिरुक्तः, सम्प्रति कालगते आचार्योपाध्याये नवदीक्षितादिभिराचार्योपाध्यायराहित्येन न भाव्यमिति तद्विधिमाह-'निग्गंथस्स णं' इत्यादि । सूत्रम्-णिग्गंथस्स णं नव-डहर-तरुणस्स आयरियउवज्झाए विसंभेज्जा नो से कप्पइ अणायरियउवज्झायत्ताए होत्तए, कप्पइ से पुव्वं आयरियं उदिसावेत्ता तओ पच्छा उवज्झायं, से किमाहुभंते ! दुसंगहिए समणे जिग्गथे तं जहा आय'रिएण उवज्झाएण य ॥ सू० ११ ॥ छाया-निर्ग्रन्थस्य खलु नव-डहर-तरुणस्य आचार्योपाध्यायो निष्कम्भेत् । नो तस्य कल्पते अनाचार्योपाध्यायतया भवितुम्, कल्पते तस्य पूर्वमाचार्यमुद्देशाप्य तत. पश्चात् उपाध्यायम्, अथ किमाहुर्भदन्त ! द्विसंगृहीतः श्रमणो निर्ग्रन्थ. तद्यथा आचायेणोपाध्यायेन च ॥ सू०११॥ भाष्यम्--'णिग्गंथस्स ' निर्ग्रन्थस्य खलु 'नव-डहर-तरुणस्स' नव-डहर-तरुणस्य, 'तत्र नवो नवदीक्षितः, यस्य त्रीणि वर्षाणि दीक्षापर्यायस्य व्यतीतानि भवेयुः स नव उच्यते । डहरः-जन्मपर्यायेण वर्षचतुष्टयादारभ्य यावत् परिपूर्णानि पञ्चदशवर्षाणि षोडशाद् वर्षादर्वाक् स डहरकः प्रोच्यते, ततो वर्षचतुष्टयादारभ्य परिपूर्णपञ्चदशवर्षपर्यन्तजन्मदीक्षापर्यायवानित्यर्थः । तरुणः-जन्मना पर्यायेण वा पोडशवर्षादारभ्य यावत् चत्वारिंशद्वर्षाणि तावत् स 'तरुणः प्रोच्यते, इति नवडहरतरुणेति-पदत्रयस्य व्याख्या । ततः परं यावद् एकोनषष्टिवर्षाणि तावन्मध्यमः, ततः षष्ठिवर्षादारम्य तदुपरि यावज्जीवेत्तावत् स्थविरपदवाच्यो भवतीति । तादृशंस्य नेवस्य डहरस्य तरुणस्य च 'आयरियउवज्झाए' आचार्योपाध्यायः आचार्यः उपाध्यायश्चेत्यर्थः । 'वीसभेज्जा' विष्कम्भेत् 'म्रियेत नवादिश्रमणानां मध्ये प्रत्येकस्य यद्याचार्यों म्रियते तदा 'नो से कप्पइ अणायरियउवझायत्ताए होतए'
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy