________________
व्यवहारसूत्रे कुर्वन्ति, संयमयोगे सीदतां संयमाध्वनि अप्रवर्त्तमानानामपमाभ् भवति तेनाऽधर्मश्रद्धाका भूत्वा गणादपक्रम्य स्वच्छन्दाः परिभ्रमन्ति । केचित्तरुणाः आचार्यपिपासया नास्माकमाचार्यमन्तरेणानुत्तरो ज्ञानदर्शनचारित्रलाभो भवति तस्मादवश्यमस्माभिरन्याचार्यसमीपे वर्तितव्यमित्याचार्यलाभवाञ्च्या तेऽप्यन्यत्र गच्छेयुः । केचिद्धर्मश्रद्धालवोऽपि स्मारणावारणादिकत्र्तरभावे गच्छान्तरं गच्छेयुरित्यादयस्तरुणदोषाः । तथा मध्यमाः स्थविराश्च केचिदेवं चिन्तयेयुः-यथा सर्वकालमद्यप्रभृति वयं गुरुभिः श्रावकैर्वा मानिता आसन्, सम्प्रति गुरूणामभावे नास्त्यन्यः कोऽपि अस्माकमादरसकारकारकः, श्रावकेप्वपि न मानं लप्स्यामः, इति चिन्तयित्वा स्वापमानभयादन्यत्र गच्छेयुः । यस्मादेते दोषास्तस्मात् नवडहरतरुणैः मध्यमैः स्थविरैश्च साधुभिराचार्योपाध्यायरहितैर्न स्थातव्यम्, अत एव सूत्रे प्रोक्तम्-'नो से कप्पइ अणायरियउवज्झायत्ताए होत्तए' इति ।। सू० ११ ।।
पूर्व निर्ग्रन्थमधिकृत्य नवडहरतरुणसूत्रं कथितम् , सम्प्रति निम्रन्थीमधिकृत्य तदेवाह-णिग्गंथीए णं' इत्यादि।
सूत्रम्-णिग्गंधीए णं नवडहरतरुणीए आयरियउवज्झाए वीसं भेज्जा नो से फप्पई अणायरियउवज्झायत्ताए होत्तए, कप्पइ से पुवं आयरियं उदिसावेत्ता तओ उवझायं, तओ पच्छा पवित्तिणिं, से किमाहु भंते ! तिसंगहिया समणी निग्गंधी तं जहा आयरिएणं उवज्झाएणं पवित्तिणीए य ॥ सू० १२ ॥
छाया-निग्रंन्ध्याः खलु नवडहरतरुण्याः आचार्योपाध्यायो विष्कम्मेत् नो तस्याः कल्पते अनाचार्योपाध्यायतया भवितुम्,कल्पते तस्याः पूर्वमाचार्यमुद्दिशाप्य तत उपाध्यायम्, ततः पश्चात् प्रवर्तिनीम् । अथ किमाहु भदन्त ! त्रिसंगृहीता श्रमणी निग्रंथी तद्यथामाचार्येण उपाध्यायेन प्रवर्तिन्या च ।। सू० १२ ॥
भाष्यम्-'णिग्गंधीए णं' निग्रन्थ्याः खलु 'नवडहरतरुणीए' नवडहरतरुण्याः तत्रनिर्ग्रन्थसूत्रोकस्वरूपाया नवाया डहरायास्तहण्याश्च-'आयरियउवज्झाए' आचार्योपाध्यायः आचार्यसहित उपाध्यायः-आचार्य उपाध्यायश्च 'वीसंभेज्जा' विष्कम्भेत्, विश्वग्भवेद्वा कदाचिद् म्रियेत कालगतो भवेत् तदा 'नो से कप्पई' नो तस्याः नवडहरतरुण्याः कल्पते 'अणायरियउवज्झायत्ताए होत्तए'अनाचार्योपाध्यायतया, आचार्योपाध्यायरहिततया उपलक्षणमेतत् तेन प्रवर्तिनीरहिततया चापि न कल्पते गणे स्थातुमिति । किन्तु -'कप्पइ से पुव्वं आयरियं उदिसावेत्ता' कल्पते तस्याः पूर्व प्रथमम् आचार्य गणनायकमुदिशाप्य स्थापयित्वा 'तओ उवज्झायं' तत आचार्यस्थापनानन्तरम् उपापाध्यायमुद्देशाप्य स्थापयित्वा 'तओ पच्छा पवित्तिर्णि' ततः पश्चात् आचार्योपाध्यायस्थापनात् परं प्रवर्तिनी स्थापयित्वा । ततः एतेषां स्थापनानन्तरं नवडहरतरुण्या निर्ग्रन्ध्याः गणे स्थातुं कल्पते, नाऽन्यथा । शिष्यःप्राह-से किमाहु मते' अथ कस्मात् कारणाद् भदन्त । एवं कथ्यते