________________
व्यवहारसूत्रे भाष्यम् – 'अट्ठवासपरियाए, अष्टवर्षपर्यायः तत्राऽष्टौ वर्षाणि पर्यायः प्रव्रज्यापर्यायो यस्य सोऽष्टवर्षपर्यायः 'समणे णिग्गंथे' श्रमणो निम्रन्थः 'आयारकुसले, आचारकुशलः, इत्यादिपदानां तृतीयसूत्रे व्याख्या कृता तत्रतोऽत्रसेया । नवरम् 'जहन्नेणं ठाणसमवायधरे जघन्येन स्थानाङ्गसमवायाङ्गघ्रः स्थानाङ्गसूत्रस्य समवायाङ्गसूत्रस्य च सूत्रार्थघारको भवेत् सः 'कप्पइ' कल्पते 'आयरियत्ताए' आचार्यतया 'उवज्झायत्ताए' उपाध्यायतया 'गणावच्छेयगत्ताए' गणावच्छेदकतया 'उदिसित्तए' उद्देष्टुं, संस्थापयितुम् आचारकुशलादिगुणगणोपेतोऽष्टवर्षपर्यायः श्रमणो निम्रन्थः आचार्यपदे उपाध्यायपदे गणावच्छेदकपदे च. संस्थापयितुं योग्यो भवति । अत्र गणावच्छेदकेति चरमपदग्रहणेन प्रवर्तकादीनि मध्यस्थानि पदान्यपि- ग्रहीतः व्यानि तेनायाति पूर्वोक्तगुणयुक्तः श्रमण आचार्यादीनि सर्वाणि पदानि गृहीतुं योग्यो भवतीति भावः ।। सू०७ ।।
पूर्वोक्तगुणरहितस्तु आचार्यादिपदे समुपस्थापयितुं न- योग्य इति प्रदर्शयति-'सच्चेवणं' इत्यादि ।
सूत्रम्-सच्चेव णं अट्ठवासपरियाए समणे शिनगंथे नो आयारकुसले नोसंजमकुसले नो पश्यणकुसले नो पन्नत्तिकुसले. नो संगहकुसले नो उपग्गहकुसले खयायारे भिन्नायारे सवलायारे संकिलिट्ठायारे अप्पसुए. अप्पागमे; नो कप्पई आयरियत्ताए उवज्झायत्ताए गणावच्छेयगत्ताए उ िसित्तए । सू०८ ॥
छाया- स एव अथ खलु अष्टवर्षपर्यायः श्रमणो निग्रंन्थो नो आचारकुशलो नो.संयमकुशलो नो प्रवचनकुशलो नो प्रज्ञप्तिकुशलो, नो संग्रहकुशलो. नो उपग्रहकुशलो क्षताचारो भिन्नाचारः शवलाचारः संक्लिष्टाचारचितोऽल्पश्नुतोऽल्पागमः न कल्पते आचार्यतया उपाध्यायतया गणावच्छेदकतयोद्देष्टुम् ।। सू० ८ ॥
भाष्यम्-'सच्चेव णं' अथ स एव खलु 'अहवासपरियाए' अष्टवर्षपर्यायः अष्ट वर्षाणि पर्यायः प्रव्रज्यापर्यायो यस्य सोऽष्टवर्षपर्यायः 'समणे णिग्गंथे' श्रमणो निम्रन्थः, शेषपदानि निषेधपरकत्वेन पूर्ववद् व्याख्येयानि त्रिवर्षपर्याय-पञ्चवर्षपर्याया-ऽष्टवर्षपर्याययुक्तस्य श्रमणनिम्रन्थस्य आचारप्रकल्पादिधरस्य उपाध्यायादिपदस्थापनेऽयं निषेधपरको निष्कर्षों बोध्यः
अत्रोपाध्यायाचार्यादयो युगानुरूपा आचारपकल्पदशाकल्पव्यवहारघरादयः, तपोनियमस्वाघ्यायादिपु उद्युक्ता द्रव्यक्षेत्रकालभावोचितयतनापरायणाः तत्तत्पदयोग्या ज्ञातव्याः, तथाहि-त्रिवर्षपर्या यस्यएकमेवोपाध्यायलक्षणं स्थानमनुज्ञातं न तु द्वितीयमाचार्यत्वलक्षणं स्थानम् , यतोऽसौ अल्पपर्यायतया प्रमूतखेदसहिष्णुत्वाभावादाचार्यपदयोग्यताया अभावेन नाचार्यपदयोग्यो- भवितुमर्हतीति । पञ्चवर्षपर्यायस्य द्वे स्थाने अनुनाते, तथाहि उपाध्यायत्वमाचार्यत्वं चेति, तस्य बहुतरवर्षपर्याय