________________
भाष्यम् उ०३ सू० ६-८
पञ्चाष्टवर्षपर्यायस्याचार्यादिपददानविधिः ॥ जघन्येन दशकल्पव्यवहारघरः दशाश्रुतस्कन्धव्यवहारसूत्रधारकः एतादृशगुणगणविशिष्टः श्रमणो निम्रन्थः 'कप्पइ' कल्पते 'आयरियउवज्झायत्ताए उदिसित्तए' आचार्योपाध्यायतया उद्देष्टुम् आचार्योपाध्यायपदे स्थापयितुम् । यः श्रमणो निम्रन्थः पूर्वोक्ताऽऽचारकुशलादिगुणगणविशिष्टः पञ्चवर्षात्मकदीक्षापर्याययुक्तश्च भवेत् स आचार्यपदमुपाध्यायपदं वा स्वीकत्तुं योग्यो भवेदिति भावः ॥ सू० ५ ॥ _अथ पूर्वसूत्राद् वैपरीत्येनाचार्योपाध्यायपदायोग्यपरकं सूत्रमाह-'सच्चेव णं' इत्यादि ।
सूत्रम्-सच्चेव णं से पंचवासपरियाए समणे णिगंथे नो आयारकुसले नो संजमकुसले नो पदयणकुसले नो पन्नत्तिकुसले नो संगहकुसले नो उवग्गहकुसले खयायारे भिन्नायारे सवलायारे संकि लिट्ठायारे अप्पमुए अप्पागमे नो कप्पइ आयरिय उवज्झायत्ताए उदिसित्तए । सू० ६ ॥
छाया-स एव खलु अथ पञ्चवर्षपर्यायः श्रमणो निर्ग्रन्थो नो आचारकुशलो नो संयमकुशलो नो प्रवचनकुशलो नो प्रज्ञप्तिकुशलो नो संग्रहकुशलो नो उपग्रहकुशल: क्षताचारो भिन्नाचारः शवलाचारः संक्लिष्टाचारोऽल्पश्रुतोऽल्पागमो नो कल्पते आचार्योपाध्यायतयोद्देष्टुम् ।। सू० ६॥
भाष्यम्-'सच्चेव णं से' अत्र 'से' शब्दः अथार्थवाचकस्तेन 'से' अथ स एव खल 'पंचवासपरियाए' पञ्चवर्षपर्यायः पूर्ववत् पञ्चवर्षात्मककालदीक्षितः 'समणे णिग्गंथे' श्रमणो निम्रन्थ. माचारकुशलादिविशेषणविशिष्टो न भवेत्तदा तस्याचार्योपाध्यायपदं न कल्पते इति सूत्राशयः । अत्र आचारकुशलादिपदानि 'नो'-शब्दमधिकृत्य निषेधपरकत्वेन पूर्ववद् व्याख्येयानि । नवरम्, पूर्वोक्ताचारकुशलादिविकलः श्रमणो निर्ग्रन्थः 'नो कप्पड आयरियउवज्झायत्ताए उदिसित्तए' नो कल्पते आचार्योपाध्यायतया उद्देष्टुम् आचार्योपाध्यायपदे स्थापयितुम् । आचारकुशलत्वादिगुणरहितः श्रमणो निम्रन्थः आचार्यपदे उपाध्यायपदे या स्थापयितुं युक्तो न भवतीति भावः ।। सू०६ ॥
अथाष्टवर्षपर्यायमधिकृत्याचार्यादिपददानविधिमाह-'अट्ठवासपरियाए' इत्यादि ।
सूत्रम् -अट्ठवासपरियाए समणे णिग्गंथे आयारकुसले संजमकुसले पवयणकुसले पन्नत्तिकुसले संगहकुसले उवग्गहकुसले अक्खयायारे अभिन्नायारे असवलायारे बहुस्सुए वभागमे जहन्नेणं ठाणसमवायधरे कप्पइ आयरियत्ताए उवज्झायत्ताए गणवच्छेयगत्ताए उदिसित्तए ॥सू०७॥
छाया-अष्टवर्षपर्याय. श्रमणो निर्ग्रन्थः आचारकुशलः संयमकुशलः प्रवचनकुशलः प्रज्ञप्तिकुशलः संग्रहकुशलः उपग्रहकुशलोऽक्षताचारोऽभिन्नाचारः अशयलाचारः असंक्लिष्टाचारो वहुश्रुतः वागमः जघन्येन स्थानसमवायधरः कल्पते आचार्यतया उपाध्यायतया गणावच्छेदकतया उद्देष्टुम् ॥ सू० ७॥