________________
भाष्यम् उ०२ सू० २७
द्वितीयोद्देशसमाप्तिः ७५ अवकृष्यावकृष्य 'भोएत्तए वा पायत्तए वा' भोक्तुं वा पातुं वा कल्पते ॥ सम्प्रति उपसंहारमाह-'एस कप्पे' इत्यादि, 'एस कप्पे पारिहारियस्स अपारिहारियओ एषः पूर्वोक्तः कल्पः पारिहारिकस्य परिहारकल्पस्थितस्याऽपारिहारिकतः अपारिहारिकमधिकृत्य कथित इति । एतत् सूत्रद्वयं स्थविराणां पार्श्वे अन्यवैयावृत्त्यकारकाऽपारिहारिकश्रमणाभावे ज्ञातव्यमिति । 'तिवेमि' इति ब्रवीमि । सुधर्मस्वामी जम्बुस्वामिनं कथयति-यन्मया भगवतो वर्द्धमानस्वामिनो मुखात् श्रुतं तत् तव ब्रवीमि कथयामि न तु स्वमनीषिकया किञ्चिदपि कथयामि । एतावता श्रुतस्याऽप्रामाणिकता निराकृता ॥ सू० २७ ॥
इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुररानप्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालव्रतिविरचितायां "व्यवहारसूत्रस्य"
भाण्यरूपायां व्याख्यायां द्वितीय उद्देशकः समाप्तः ॥२॥