________________
व्यवहारसूत्रे
पग्गसि वा सयंसि पलासगंसि कमढगंसि वा सयंसि खुन्वगंसि वा सयंसि पार्णिसि वा उद्धटु उद्धटु भोत्तए वा पायए वा एस कप्पे पारिहारियस्स अपारिहारियओ त्ति वेसि ॥ ० २७ ॥
ઉદ
ववहारस्स बीओ उद्देसो समत्तो ॥ २॥
छाया - परिहारकल्पस्थितो भिक्षुः स्थविराणां प्रतिग्रहेण बहिः स्थविराणां वैयावृत्याय गच्छेत् स्थविराश्व वदेयुः परिगृहाण आर्य ! त्वमपि अत्र भोक्ष्यसे वा पास्यसि वा, एवं तस्य कल्पते प्रतिग्रहीतुम्, तत्र नो कल्पते पारिहारिकेणाsपारिहारिकस्य प्रतिग्रहे अशनं वा पानं वा स्वाद्यं वा स्वाद्यं वा भोक्तुं वा पातुं वा, कल्पते तस्य स्वकीये प्रतिम स्वकीये पलाशके कमढके वा स्वकीये खुव्वके वा स्वकीये पाणौ वा उद्धृत्त्योद्धृत्य भोक्तुं वा पातुं वा एष कल्पः पारिहारिकस्याऽपारिहारिकतः, इति ब्रवीमि ॥ सू० २७ ॥ व्यवहारस्य द्वितीय उद्देशः समाप्तः ॥ २ ॥
भाष्यम् – 'परिहार कप्पट्टिए भिक्खू' परिहारकल्पस्थितो भिक्षुः 'थेराणं' स्थविराणां 'पडिग्गहेणं' प्रतिग्रहेण पात्रेण 'बहिया' बहिर्वसतेर्बहिर्भागे 'थेराणं वेयावडियाए' स्थविराणां वैयावृत्त्याय स्थविरार्थी भिक्षानयनाय 'गच्छेज्जा' गच्छेत् यदा गन्तुं प्रस्थितो भवेत् तदा 'थेरा य वएज्जा' "नूनं सर्वगृहेषु भिक्षायाः सममेककालमेव वर्त्तते ततोऽयं पारिहारिकोsस्मयोग्यां भिक्षां प्रथममादाय पश्चादयमात्मयोग्यां भिक्षामानेतुं नगरे प्रविष्टो न किमपि भोज्यनातं लप्स्यते" इति विचिन्त्य स्थविरा: पारिहारिकं वदेयुः कथयेयुः 'अज्जो' हे आर्य ! 'अत्थ' अत्र अस्मिन्नेव मदीये प्रतिग्रहे 'पडिग्गाहेहि' प्रतिगृहाण त्वदर्थमपि भिक्षां, ततः 'तुमपि एत्थ भोक्खसि वा पाइसि वा' त्वमप्यत्र मदीयपात्रे समानीतमशनादि भोक्ष्यसि वा पास्यसि वा 'एव से कप्पइ पडिग्गाहित्तए' एवं स्थविरैरुक्ते सति 'से' तस्य भिक्षार्थं गतस्य पारिहारिकस्य कल्पते प्रतिग्रहीतुम् स्थविरपात्रे स्वनिमित्तमपि भिक्षां ग्रहीतुम् । भिक्षाऽऽनयनानन्तर भोजनविधिमाह — 'तत्थ णो कप्पर' इत्यादि, 'तत्थ णो कप्पइ' तत्र समानीताशनादौ नो कल्पते 'पारिहारिएण अपारिहारियस्स' पारिहारिकेणाऽपारिहारिकस्य 'पडिग्गइंसि' प्रतिग्रहे पात्रे 'असणं वा पाणं वा खाइमं वा साइमं वा भोत्तए वा पायए वा' अशनं वा पानं वा स्वाद्यं वा स्वाद्य वा भोक्तुं वा पातुं वा । तर्हि कथं कल्पते ' तत्राह - ' कप्पर ' इत्यादि, 'कप्पर से सयंसि पडिग्गइंसि' किन्तु कल्पते 'से' तस्य पारिहारिकस्य स्वकीये प्रतिम पात्रे 'सयंसि पलासगंसि कमढगंसि वा' स्वकीये पलाशके शुष्कपलाशपत्रनिर्मिते कमढके द्रोणकाभिघपात्रविशेपे वा 'सरांसि खुव्वगंसि वा' स्वकीये खुब्बगे संपुटितकरतलरूपे खोबा इति प्रसिद्धे वा 'सयंसि पार्णिसि वा' स्वकीये पाणौ वा 'उद्धट्टु उद्धटु' उद्धृत्योद्धृत्य स्वपाणिना