________________
भाष्यम् उ० २ सू० २६-२३ पारिहारिकपात्रेऽपारिहारिकस्य भोजननिषेधः ७३ गच्छेत् स्वकीयसंयमयात्रानिहाय पारिहारिको भिक्षः स्वकीयपात्रमादाय भिक्षामानेतुमाचार्याज्ञया उपाश्रयाद् वहिर्गच्छेदित्यर्थः, तत्समये 'थेरा य तं वएज्जा' तं परिहारिकं भिक्षामानेतुं वहिः प्रस्थितं ममार्थमाहाराधनेतुं द्वितीयवारं पुनर्गमने कष्टसंभव., इति विचार्य स्थविराः वदेयुः मधुरवचसा संबोच्य कथयेयुः । किं कथयेयुः ? तत्राह-'पडिग्गाहेहि'इत्यादि, 'पडिग्गाहेहि अज्जो ! अईपि भोक्खामि वा पाहामि वा प्रतिगृह्णीयाः खल आर्य । मदर्थम्प्यशनादि अहमपि भोल्ये पास्यामि वा, हे आर्य ! त्वं गच्छसि भिक्षामानेतुमतोऽस्मद्योग्यमपि अशनादिकं. स्वकीय: पात्रके एव गृहीत्वा आनय, अहमपि त्वदानीतं भोक्ष्ये त्वदानीतं दुग्धादिकमपि पास्यामि, 'एवं ण से कप्पइ पंडिग्गाहितए' एवं खलु पूर्वोक्तप्रकारेण स्थविरैः कथिते सति 'से' तस्य पारिहारिकस्य कल्पते स्थविरयोग्यमन्नपानादिकमपि स्वकीये पात्रे प्रतिग्रहीतुम् । अथ भोजनविधिमाह-'तत्य णो कप्पई' तत्र तस्मिन् समानीतेऽशनादौ नो नैव कल्पते 'अपारिहारिए पारिहारियस्स पडिग्गहंसि' अपारिहारिकेण सता पारिहारिकस्य प्रतिग्रहे पात्रे 'असणं वा पाणं वा खाइमं वा साइमं वा भोत्तए वा पायए वा' अशनं वा पानं वा खाद्य वा स्वाद्यं वा भोक्तुं वा पातुं वा परिहारकस्य पात्रे अशनादिक भोक्तुमपारिहारिकस्य स्थविरस्य न कल्पते इत्यर्थः किन्तु-'कप्पई से सयंसि पडिग्गहंसि' कल्पते, तस्याऽपारिहारादिकस्य स्थविरादेः स्वकीये पात्रे काष्ठमये पात्रे 'सयंसि पलासगंसि कमढगंसि’ स्वकीये पलाशके कमढके शुष्कपलाशपत्रनिर्मिते कमढके द्रोणकाभिधपात्रविशेषे 'सयंसि खुव्वगंसि वा' स्वकीये खुव्वके संपुटितोर्द्धमुखकरतलद्वयरूपे खोवा इति प्रसिद्ध 'सयंसि पाणिसि वा' स्वकीये हस्ते वा 'उद्धटु उद्धट्टु भोत्तए वा पायए वा' उद्धृत्य उद्धृत्य अवकृष्याऽवकृष्य भोक्तं वा पातुं वा कल्पते इति 'एस कप्पे अपारिहारियस्स पारिहारियो' एषः पूर्वोक्तः, कल्प आचारः अपारिहारिकस्य परिहारतपोवर्जितस्य शुद्धस्य साधोः पारिहारिकत' पारिहारिकमधिकृत्य कथितस्तीर्थकरैरिति ॥ सू० २६ ॥
साम्प्रतमपारिहारिकाऽऽनीताशनादिभोजने पारिहारिकस्य विधिमाह-'परिहारकप्पढिए' इत्यादि ।
सूत्रम्-परिहारकप्पहिए भिक्खू थेराणं पडिग्गहेण वहिया थेराणं वेयावडियाए गच्छेज्जा थेरा य वएज्जा पंडिग्गाहेहि अज्जो ! तुमंपि एत्थ भोक्खसि वा पाहसि वो एवं से कप्पइ पडिग्गाहित्तए, तत्थ णो कप्पइ पारिहारिएणं अपारिहारियस्स पडिग्गइंसि असणं वा पाणं वा खाइमं वा साइमं वा वा पायए वा, कप्पइ से सयंसि
...
.......