SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ व्यवहारको ता' इमं तावत् परिहारकल्पत्थितं भिक्षुम् 'अज्जो' हे आर्य ! . 'तुम' त्वम् 'एएसिं देहि वा. अणुप्पदेहि वा' एतेभ्यः पारिहारकेभ्यः देहि अशनादिचतुर्विवमाहारम्, अनुप्रदेहि वा परम्परया अन्यसकाशादापय, एवं पूर्वोक्तप्रकारेण स्थविरैः अनुज्ञाते सति 'से. कापड, दाउं वा अणुप्पदाउं वा' तस्याज्ञापितस्य साधोः कल्पते दातुं वा अनुप्रदातुं वा । यदि तद् अशनादिकं लेपमयं विकृति कादिरूपं भवेत् तदा पारिहारकस्य तद् विकृति कादिकं. स्थविराज्ञामन्तरेण. भोक्तुं न कल्पते, ततः किं कुर्यादित्याह-'कप्पइ.से लेवं अणुजाणा वित्तए' कल्पते तस्य लेपमनुज्ञा.. पयितुं, तस्य पारिहारिकस्य कल्पते लेपरूपविकृतिकादिनिमित्तमनुज्ञापयितुं तद्भोजने आज्ञां ग्रहीतुं कल्पते, तदेवाह-'अणुजाणह भंते ! लेवाए' हे भदन्त ! यूयमनुजानीथ लेपाय विकृतिकाहारकर; णाय, ‘एवं' एवंप्रकारेणानुझापने कृते सति 'से कप्पइ लेवं समासेवित्तए' तस्य पारिहारिकस्य कल्पते लेपं विकृतिकाहारं समासेवितुं भोक्तुं पारिहारिकतपो वहतो दुग्धादिगुरुकमाहारं गरिष्टत्वान्नोचित्तं भवेत् तस्मात् स्थविराज्ञामादायैव तत्सेवनमुचित्तं, स्थविराणां द्रव्यक्षेत्रादिबलाबलादिज्ञायकत्वादिति भावः ॥ सू० २५ ॥ -पूर्व पारिहारिकस्याऽशनादिदानविधिरुक्तः, साम्प्रतं पारिहारिकपात्रगृहीताऽशनादिभोजने अपारिहारिकस्य विधिमाह-'परिहारकप्पट्टिए' इत्यादि । सूत्रम्- परिहारकप्पद्विए भिक्खू सएणं पडिग्गहेणं वहिया अप्पणो वेयावडियाए गच्छेज्जा, थेरा यतं वएज्जा-पडिग्गाहेहि अज्जो ! अहंपि भोक्खामि वा पाहामि, वा, एवं णं से कप्पइ पडिग्गाहित्तए, तत्थ णो कप्पइ अपरिहारिएणं परिहारियस्स- पडिग्गहंसि असणं वा पाणं वा खाइम वा साइमं वा भोत्तए वा पायए, वा, कप्पइ से सयंसि पडिग्गइंसि सयंसि पलासगसि कमढगंसि वा सयंसि खुव्वगंसि पाणिसि वा उद्धटूटु उद्धटु वा भोत्तए वा पायए वा, एस कप्पे अपरिहारियस्स परिहारियओ ॥ सू० २६ ॥ छाया-परिहारकल्पस्थितो भिक्षुः स्वकीयेन प्रतिग्रहेण वहिरात्मनो वैयावृत्त्याय गच्छेत्, स्थविराश्च तं वदेयुःप्रतिगृह्णीयाः-आर्य ! अहमपि भोक्ष्ये वा पास्यामि वा, एवं खलु तस्य कल्पते परिग्रहीतुम्, तत्र नो कल्पते अपारिहारिकेण पारिहारिकस्य प्रतिग्रहे अशनं वा पानं वा खाद्य वा स्वाद्य वा भोक्तुं वा पातुं वा, कल्पते तस्य स्वकीये प्रतिग्रहे वा स्वकीये पलाशके कमढके वा स्वकीये खुव्वके वा पाणौ वा उद्धृत्य उद्धृत्य भोक्तुं वा पातुं वा एष कल्पोऽपारिहारिकस्य पारिहारिकतः ॥ स्० २६ ॥ भाष्यम्--'परिहारकप्पट्टिए' परिहारकल्पस्थितः 'भिक्ख' भिक्षुः 'सएण पडिरगहेणं', स्वकीयेन स्वात्मसंवन्धिना प्रतिग्रहेण पात्रेण 'वहिया' वहिः उपाश्रयाद् बहिः 'अप्पणो वेयावडियाए' आत्मनः स्वस्य वैयावृत्त्याय संयमयात्रां निर्वाहयितुमशनाद्याहाराऽऽनयनाय 'गच्छेज्जा'
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy