________________
॥ अथ तृतीयोदेशकः प्रारभ्यतेव्याख्यातो द्वितीयोद्देशकः, सम्प्रति तृतीयः प्रारभ्यते, तत्र द्वितीयोद्देशकस्य चरमसूत्रेणं सहास्यतृतीयोद्देशकादिसूत्रस्य कः सम्बन्धः ? इति प्रथमं सम्बन्धप्रतिपादिकां गाथामाह भाष्यकार:-'परिहारिय०' इत्यादि ।
भाष्यम्- परिहारियथेराणं, असणाणयणे य तस्स परिभोगे। . वुत्तो विही य पुव्वं, गणस्स धारणविही एत्थ ॥१॥ छाया-पारिहारिकस्थविरयोरशनानयने च तस्य परिभोगे ।
उक्तो विधिश्च पूर्व गणस्य धारणविधिरत्र ॥१॥ व्याख्या- 'परिहारिय०' इति । 'पुव्वं' पूर्व द्वितीयोद्देशकस्य चरमसूत्रे पारिहारिकस्थविरयोः पारिहारिकत रोवहमानस्य स्थविरस्य च निमित्तमशनादीनामानयने, तस्याशनादेः परिभोगे परिभोगविषये च विधिरुतः-प्रतिपादितः । पारिहारिकः स्थविरश्च भिक्षुरेव भवतीति 'एत्थ' अत्र तृतीयोदेशकस्यादिसूत्रे तस्य भिक्षोः गणस्य धारणे विधिः कथयिष्यते, इत्येष एवं सम्बन्धः पूर्वापरोद्देशकयोर्विज्ञेयः ॥१॥
अनेन सम्बन्धेनाऽऽयातस्यास्य तृतीयोदेशकस्येदमादिसूत्रम्-'भिक्खू य' इत्यादि ।
सूत्रम्-भिक्खू य इच्छेज्जा गणं धारिचए. भगवं च से अपलिच्छण्णे एवं से नो कप्पइ गणं धारित्तए। भगवं च से पलिच्छन्ने एवं से कप्पइ गणं धारित्तए ॥ सू० १॥
छाया-भिक्षुश्च इच्छेत् गण धारयितु भगवाश्च स अपरिच्छिन्नः एवं तस्ये नो कल्पते गण धारयितुम्, भगवाँश्च स परिच्छन्नः एवं तस्य कल्पते गणं धारयितुम् ॥ सू० १॥
भाष्यम्-'भिक्खू य' इति । भिक्षुश्च कश्चित् साधुः 'इच्छेज्जा' इच्छेत् 'गणं धारित्तए' गणं साधुसमुदायं धारयितुं गणस्य गणधरत्वं कर्तुमिच्छेत् , अयं भावः-कोऽपि भिक्षुः कियतां साधूना गणं कृत्वा 'इमं साधुसमुदाय ममाधीनं कृत्वाऽन्यत्र विहरिष्यामी'-ति बुद्धया साधुसमुदायस्य गणधरत्वं कर्तुमिच्छेदिति । 'भगवं च से' गणधारणेच्छुः स अनगारो भगवान् यदि 'अपलिच्छण्णे' अपरिच्छन्नः परिच्छेदरहितो भवेत् परिवारवर्जितो भवेत् तत्र परिच्छदो द्रव्यभावभेदतो द्विविधः, द्रव्यतः परिच्छदः शिष्यपरिवारः, भावतः परिच्छदः आचाराङ्गादिच्छेदपर्यन्तं सूत्रजातम् , द्विघापि परिच्छेदरहितः, तत्र द्रव्यतः स्वप्रवाजितसाधुसमुदायरहितः, भावत आचाराङ्गादिसूत्रज्ञानरहित. स्यात् 'एवं से' एवम् एतादृशस्थितौ तस्यापरिच्छ. न्नस्य भिक्षोः 'नो कप्पई' न कल्पते 'गणं धारित्तए' गणम् अन्यदीयसाधुसमुदायरूपं गच्छं धारयितुम् तस्य द्रव्यभावतो द्विवापि गणधरणयोग्यताया अभावादिति । यदि 'भगवं