________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
पादिरूपव्यवहारमात्रादेवेति श्रुते - ओघनिर्युक्तत्याख्ये श्रुतम्, तथा च तत्पाठः - “णिच्छयमवलंबता णिच्छयओ पिच्छयं अयागता । णासंति चरणकरणं बाहिरकरणालसा के इ ॥७६२॥”
२४९
उत्तराध्ययनेऽप्युक्तम्
35
"भणिता अकरिता य बंधमुक्खपइन्निणो । वायाविरियमित्तेणं समासमिति अप्पयं ।। १६९ ॥
किञ्च, विषय-स्वरूपा ऽनुबन्धैर्धर्मस्येव निश्चयस्यापि त्रैविध्यमन्वेषणीयम्, तत्र विषयनिश्चयो निश्चयबुद्ध्या ब्रह्मैकान्तादिश्रवणम्, अनादिस्वरूपनिश्चयो जैनशास्त्रस्थ निश्चयनयग्रन्थपरिशीलनम्, अनुबन्धनिश्चयश्च प्रणिधिप्रवृत्तिविघ्न जयसिद्धिविनियोगपवित्रोत्तरतद्भाव वृद्धिहेतुर्व्यवहारक्रियाप्रवृत्तिरिति, सामर्थ्ये क्रियालसस्य निश्चयाभिमानो विशिष्टफलानावहत्वेन न ज्यायान् । न वा तदनुकूलकुवासनाधाय कं दिगम्बर दर्शनमपीति किमतिविस्तरेण ॥ ८२ ॥
दृष्टान्तप्रदर्शन पूर्व नयानां शुद्ध्यशुद्धी । अथ निक्षेपनययोजनां प्रदर्शयन्नाह - इष्टः शब्दनयैर्भावो, निक्षेपा निखिलाः परैः ।
मतं मङ्गलवादेऽन्यद्, भिदां द्रव्यार्थिके त्रये ॥ ८३ ॥
नयामृत० - इष्ट इत्यादौ । शक्यतावच्छेदकभेदेनैकस्य शब्दस्यानेकशक्तिप्रदर्शकं वचनं निक्षेप:, भिलापादीति- मात्रादेवेत्यनन्तरं निश्चयं जानन्तीत्यस्यानुकर्षः । इति एवम् | श्रुते इत्यस्य विवरणम् - ओघनिर्युत्याख्ये इति - ओघनिर्युक्ति नामके श्रुते इत्यर्थः । श्रुतं पठितम् । तत्पाठा ओघनियुक्ति गठः । णिच्छय० इति - " निश्चयमवलम्बमाना निश्चयतो निश्चयमजानन्तः । नाशयन्ति चरणकरण बाह्य करणालसाः केऽपि ॥” इति संस्कृतम् । उत्तराध्ययनपाठमुपदर्शयति- भणिता० इति - " भणन्तोऽकुर्वन्तश्च बन्धमोक्ष प्रतिज्ञावन्तः । वाग्वीर्यमात्रेण समाश्वसन्ति आत्मानम् ॥ इति संस्कृतम् । विषयेति - अयं धर्मस्य विषयः इदं धर्मस्य स्वरूपम्, अयं धर्मस्यानुबन्धः, धर्मे आचरिते इदं फलं निष्पद्यत इति यावत् इत्थं विषयस्वरूपानुबन्धैर्मरूप यथा त्रैविध्यं तथाऽयं निश्चयस्य विषयः, इदं च निश्वयस्य स्वरूपम्, अयं च निश्चयस्यानुबन्ध इत्येवं निश्चयस्यापि वैविध्यं यथा ज्ञायेत तथा प्रयत्नो विधेय इत्यर्थः, तत्र निश्चयस्य विषय-ऽस्वरूपानुबन्धेषु मध्ये निश्चयबुद्धया निश्चयनयावलम्बिवुद्धया । ब्रह्मैकान्तादिश्रवणमित्यत्र छेदोऽशुद्धः, किन्तु 'ब्रह्मैकान्तादिश्रवणमनादि ' इत्यत्र छेदः शुद्धः यदपौरुषेयत्वादनादि ब्रह्मैकान्तादिश्रवणमद्वैतवाद्यागमः स विषयनिश्चय इत्यर्थ: । जैनेति - जैनशास्त्रे स्थितो यो निश्चयनयग्रन्थस्तस्य परिशीलनमभ्यसनं स्वरूपनिश्चयः, अथवा जैनशास्त्रेऽनेकान्तवादे स्थितास्तत्रैव स्वश्रद्धां प्रगुणीकुर्वन्तो ये सूरवस्तेषां ये निश्चयनयग्रन्था निश्चयनयविषयप्रतिपादकत्वानिश्चयनयात्मक ज्ञानजनकत्वाद् वा निश्चयनयस्वरूपा ग्रन्थास्तेषां परिशीलनं स्वरूपनिश्चय इत्यर्थः । प्रणिधीति - प्रणिधिप्रवृत्तिविघ्न जयसिद्धिविनियोगतः पवित्रस्योत्तरतद्भावस्य वृद्धिहेतुर्या व्यवहारक्रियायां प्रवृत्तिः सा अनुबन्धनिश्चय इत्यर्थः । सामर्थ्य व्यवहार क्रियायां सामर्थ्य सति । क्रिवालसस्य व्यवहार क्रियायामालस्थवतः, यो व्यवहारक्रियां कर्तुं समर्थोऽप्यालस्याद् व्यवहारक्रियां न करोति तस्येति यावत् । निश्चयाभिमानो निश्चयनयाभिमानो न ज्यायान् श्रेष्ठतमः । तत्र हेतु: - विशिष्टफलानावहत्वेनेति मुक्तिफलाजन करवेनेत्यर्थः । नवेति निश्चयाभिमानानुकूलवासनाधाय दिगम्बरदर्शनमपि नैव ज्याय इत्यर्थः ॥ ८२ ॥
64
श्श्रशीतितमपद्यमवतारयति- उक्ते इति । अथ नयशुद्धयशुद्धयुपदर्शनानन्तरम् । विवृणोति - इष्ट इत्यादिनेति । इष्ट इत्यादी" इत्यस्य स्थाने " इष्ट इत्यादिना " इति पाठो युक्तः । किंलक्षणको निक्षेप इत्यपेक्षायामाह - शक्यतेतिघटशब्दस्य नामघटे स्थापनाघंटे द्रव्यघटे भावघटे च शक्तिरित्येवं यद् वचनं तत् नामघटत्वादिलक्षणशक्यतावच्छेदकभेदेनैकस्य घटशब्दस्यानेकशक्तिप्रदर्शक मिति भवति निक्षेप इति लक्षणपङ्गतिः । ननु घटशब्दस्य नामघटे शक्तिरिति
३२
ܙܐ