________________
२५०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
न चैवमनेकार्थनामानुशासनस्यापि निक्षेपत्वप्रसङ्गः, तत्त्वत इष्टत्वाद्, व्यवहारतस्तु सिद्धान्त-तदुप. जीव्यन्यतरतादृशवचनमेव निक्षेप उच्यते, न तु " लोकाद्" [सिद्धहेम० अ० १, पा० १, सू० ३] इति सूत्रेणोपनीमानमपीत्यदोषः, तत्र शब्दनयैः, भावो-भावनिक्षेप एवेष्टः, परैः-( अर्थनयः, निखिला:. अशेषा नामादयश्चत्वारोऽपि, इष्टाः, तथा चोक्तम्- ) " सव्वणिक्खेवे " [
]त्ति । योऽयं नामनिक्षेपः स निक्षेपलक्षणाक्रान्तो न स्यात् , तस्य नामघटत्वलक्षकशक्यतावच्छेदकावच्छिन्न एव घटपदस्यैकशक्तिप्रतिपादकत्वात् , एवं घटशब्दस्य स्थापनाघटे शक्तिरित्येवरूपस्य स्थापनानिक्षेपस्याप्ये कधर्मावछिन्न एवं शक्तिप्रतिपादकत्वान्निरुक्तलक्षणाक्रान्तत्वाभावान्निक्षेपत्वं न स्यात् , एवं द्रव्यनिक्षेपभावनिक्षेपयोरपि प्रत्येकं निरुक्तलक्षणाव्याप्तिः, तथा घटशब्दस्य नामघटे स्थापनाघटे द्रव्यघटे. भावघटे च शक्तिरित्येवस्वरूपं वचनं न नामनिक्षेपाद्यकैकरूपमथापि निरुतलक्षणाक्रान्तमिति पञ्चमोऽयं भेदो निक्षेपस्यापतेदिति चेत् ? मैवम्- घटपदस्य नामघटे शक्तिरिति वचनरूपस्य नामनिक्षेपस्यानेकशक्तिप्रतिपादकत्वस्य सद्भावात् , घटरूपात्मकस्थ यद् घारोत्तराकारोत्तरदकारोत्तरास्वरूपानुपूर्व्यवच्छिन्नं घटेति नाम तदपि नामघटस्तत्र नामघटत्वं निरुक्तानुपूर्वी रूपं, यस्य कस्यचित् पुंसो घट इति नाम क्रियते सोऽपि नामघटस्तत्र नामघटत्वं तत्पुरुषात्मावच्छेदकबालावस्थाद्याकलितानेकशरीरवृत्तिसामान्यमेव, एवं यस्य कस्यापि वस्तुनो घटेति नाम कृतं स्यात् तद्वस्तुनो नामघटत्वं तत्तदवस्थाभेदभिन्न तत्तद्वस्तुगतसामान्यमैत्रेति तपशक्यतावच्छेदकभेदेनैकस्य घटशब्दस्यानेकशक्तिप्रतिपादकत्र घटपदस्य नामघटे शक्तिरिति वचनस्य समस्तीति निक्षेपसामान्यलक्षणं तत्र समन्वयमहत्येव, एवं घटपदस्य स्थापनाघटे शक्तिरिति वचनको स्थापनानि झेपेऽपि निरुक्तनिक्षेत्रमामान्य लक्षण समन्वयश्वेत्थं - स्थापना द्विविधासद्भुतस्थापनाऽसद्भुतस्थापना च, तत्र मात्तिकसौवर्गाद्यात्मकस्य घटस्य यः पृथुयुधायाकारः स्वगतो यश्चान्यागतोऽपि तत्सुसदृश आकारः स सद्भतस्थापना, यश्चान्यादशोऽपि 'अयं घटः' इये स्थाप्यते सोऽसद्भूतस्थापना, तदुभयत्र नैक सामान्य किन्तु भिन्नमेव स्थापनाघटत्वम्, तदवच्छिन्ने स्थापनाघटे घटपदस्य शक्तिप्रतिपादकं स्थापनाघटो घटपदशक्य इति वचनमपि स्थापनानिक्षेपो निक्षेपसामान्य लक्षणाकलिन एव, द्रव्यघटोऽपि यन्मृदादिकमनुभूतघटपर्यायमनुभविष्यद्घटपर्यायं वा तत् सर्वमपि द्रव्यघट इति व्यपदिश्यते, न च तत्सर्वानुगतमेकं द्रव्यघटत्वं किन्तु विभिन्नमेवेति द्रव्यघटो घटपदवाच्य इति वचनखरूपो द्रव्यनिक्षेपोऽपि नानाद्रव्यघटत्वधर्मावच्छिन्ने एकस्य घटशब्दस्याने कशक्तिप्रतिपादकस्वाद् भवति निक्षेपसामान्यलक्षणालिशितः, भावघटोऽध्यागमतो घटोपयोगलक्षगः, नोआगमतश्च पृथुबुनोदराद्याकारवान् घट इति तदुभयसाधारणमपि भावघटत्वं नैकं किन्तु विभिन्न मिति नानाभावघटत्वधर्मावच्छिन्ने घटपदस्यानेकशक्तिप्रतिपादक भावघटो घटपदशक्य इति वचनमतस्तदात्मकस्य भावनिक्षेपस्यापि निरुतनिक्षेपसामान्यलक्षणाकान्तत्वम् , यदपि घटपदस्य नामघटे स्थापनाघटे द्रव्यघटे भावघटे च शक्तिरिति वचनं तदपि नै कम् , किन्तु घटपदस्य नामघटे शक्तिरित्याद्यनेक. वचनसमुदायरूपमिति न नामनिक्षेपादितो भिद्यते इति न पञ्चमनिक्षेपप्रसङ्ग इति बोध्यम् । अनेकार्थनामानुशासनेएकपदस्याने कशक्तिप्रतिपादके निरुक्तनिक्षेपसामान्यलक्षमस्या तिव्याप्तिमाशयेष्टापत्त्या परिहरति-न चेति । तस्वतः पर. मार्थतः। इष्टत्वात अनेकार्थनामानुशासनस्यापि निक्षेपत्वस्येष्टत्वात् तदापादनं न दोषायेत्यर्थः। जैनसिद्धान्तातिरिक्तसिद्धान्ते निक्षेपव्यवहारो नास्त्येव. किन्तु जैनसिद्धान्ते तदभिज्ञगुम्फितग्रन्थे च निक्षेपव्यवहारः समुपलभ्यते, सच नाम-स्थापना-द्रव्य-भावेष्वव वचनार्थतया पुरस्कृतेष्विति ने नानार्थनामानुशासनस्य लक्ष्यतेत्याशयनाह-व्यवहारतस्त्विति । सिद्धान्तेति-जैनसिद्धान्त-जैनसिद्धान्तोपजीव्यन्यतरात्मकं यच्छक्यतावच्छेदकभेदेनैकस्य शब्दस्यानेकशक्तिप्रदर्शकं वचनं तदेव निक्षेपः सिद्धान्ताभिज्ञैः कथ्यत इत्यर्थः । न विति- “लोकात्" इति सिद्धहेमचन्द्रशब्दानु. शासनसनेणोपनीयमानं-प्राप्यमाणमनेक र्थानुशासनमपि नैव निक्षेपः, तस्य सिद्धान्ततदुपजीव्यन्यतरानात्मकत्वादित्युक्त. लक्षणाभावान्न तस्य निक्षेपत्वप्रसङ्ग इत्यर्थः। 'उपनीमान" इत्यस्य स्थाने "उपनीयमान" इति पाठो युक्तः। तत्र निक्षेपे । शब्दनयैः साम्प्रत- समभिरूलैवम्भूनाख्यैस्त्रिभिः शब्दनयैः । निखिलनिक्षेपाभ्युपगम केऽर्थनयेऽपि भाव. निक्षेपोऽभ्युपगत इति शब्द नयैर्भाव इन्ट इति न विशेष प्रतिपत्तिकरमत उक्तम् -- भावनिक्षेप पवेति तथा चोक्तमिति । "सवनिक्खेवे" अस्य स्थाने "भा चिय सहनया सेसा इच्छति सम्बनिक्खेवे" इति पाठो युक्तः, "भावमेव शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान्” इति संस्कृतम् । द्रव्याधिकानां नेगम-सङ्ग्रह-व्यवहारर्जु