________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
""
ननु नैगमादीनां नामादिचतुष्टयाभ्युपगन्तृत्वे तेषां द्रव्यार्थिकत्वव्याहतिः स्यात्, द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् पर्यायस्य प्रतिक्षेपात् द्रव्यं प्रधानतया पर्यायं च गौणतयाऽभ्युपगच्छन् द्रव्यार्थिकोऽपि भावनिक्षेपसह इति चेत् ? हन्त तर्हि त्वदुक्तरीत्या शब्दनया अपि द्रव्यनिक्षेपसहाः प्राप्ता इति " भावं चिय सद्दणया [ ] इत्यादिप्रागुक्तभाष्यवचनसंवादव्याघातः, एतेन ' द्रव्यार्थिकपर्यायार्थिक योर्द्वयोस्तुल्यवादेनोभयाभ्युपगमः, परमाद्यस्य सर्वथाऽभेदेनान्त्यस्य तु सर्वथा भेदेन, ततो नैकस्योभयविषयत्वे विषयान्तरग्रहार्थ मन्यकल्पनानुपपत्तिः, भेदा-ऽभेदोपरागेणोभयग्रहार्थमुभयकल्पनावश्यकत्वादिति द्रव्यार्थिकस्यापि पर्याय सहत्वम्' इत्यप्यपास्तम्, एवं सति पर्यायार्थिकस्य शब्दादेरपि द्रव्यसहत्वापत्तेः, अत्यन्त भेदाभेदग्राहिणोर्द्वयोः समुदितयोरपि मिध्यादृष्टित्वात्, अत्यन्ताभेदे पर्यायासहोक्तिप्रसङ्गेन गुणे द्रव्यमिति द्रव्यार्थिकनया मिलापानुपपत्तेः, अत्यन्तभेदेऽपि पर्यायार्थसूत्राणां भावनिक्षेपाभ्युपगन्तृत्वमसहमानस्य शङ्का मुपत्थापयति- नन्विति । नामादीत्यादिपदात् स्थापना द्रव्य भावानामुपग्रहः । तेषां नैगमादीनाम् । नैगमादीनां भावनिक्षेपाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकत्वनियामकं द्रव्याभ्युपगन्तृत्वमस्त्येवेति द्रव्यार्थिकत्वं कुतो व्याहतमित्यत आह- द्रव्यार्थिकेनेति । द्रव्यस्यैवेत्येवकारलभ्यमेव स्पष्टयति- पर्यायस्य प्रतिक्षेपादिति । अत्र प्रतिविधानमाशङ्कते द्रव्यमिति न द्रव्यमात्राभ्युपगन्तृत्वं द्रव्यार्थिकत्वनियामकं किन्तु प्राधान्येन द्रव्याभ्युपगन्तृत्वम्, तच्च गौणतया पर्यायाभ्युपगन्तृत्वेऽपि द्रव्यार्थिकस्य सम्भवत्येवेति भावनिक्षेपसहो भवत्येव द्रव्यार्थिक इत्यर्थः । यथा द्रव्यार्थिकस्य गौणतया पर्यायाभ्युपगन्तृत्वं तथा पर्यायार्थिकस्यापि गौणतया द्रव्याभ्युपगन्तृत्वं स्यादेव, तथा च नैगमादीनां द्रव्यार्थिकानामुक्तदिशा निक्षेपवतुष्टाभ्युपगन्तृत्वे पर्यायार्थिकानां शब्दनयानामपि निक्षेपचतुष्टयाभ्युपगन्तृत्वं स्यात् एवं भावं चिय सद्दनया" [ भावमेव शब्दनयाः ] इति भाष्यवचनसंवादव्याहतिरित्येवमुक्तविधानप्रतिक्षेपमुपदर्शयति इन्तेति । स्वदुक्तरीत्या भवदुपदर्शितप्रधान गौणभावाश्रयमनीत्या । एतेन' इत्यस्य 'अपास्तम् ' इत्यनेनान्वयः । तुल्यवादेन समानतया । उभयाभ्युपगमः द्रव्य पर्यायोभयाभ्युपगमः । यदि द्वयोरपि द्रव्य-पर्यायोभयाभ्युपगन्तृत्वं तस्य द्रव्यार्थिकत्वमपरस्य पर्यायार्थिकत्वमिति वैलक्षण्यं कथमित्यत आह- परमिति - किन्त्वित्यर्थः, आद्यस्य नैगमादिनस्य । सर्वथाऽभेदेनेति - पर्यायस्य सर्वथा द्रव्याभेद एवेति द्रव्याभ्युपगमे तदभिन्नतया पर्यायस्याप्यभ्युपगम इत्येवं सर्वथाऽभेदेन द्रव्यपर्यायो भयाभ्युपगमो नैगमादिनयस्येत्यर्थः । अन्त्यस्य तु साम्प्रतादिशब्दनयस्य पुनः । सर्वथाभेदेनेति - पर्याय: सर्वथा द्रव्याद भिन्न एवेत्येवं सर्वथा भेदेन द्रव्य पर्यायोभयाभ्युपगमः शब्दनयस्येत्यर्थः तथा चाभिन्नतया द्रव्य-पर्यायोभयावगतये नैगमादिद्रव्यार्थिकस्य भिन्नतया द्रव्यपर्यायोभयात्रगतये साम्प्रतादिपर्यायार्थिकस्य च कल्पनमुभयविषयत्वेऽपि द्वयोः सम्भवत्येवेत्याह- तत इति । नैकस्येति- ' नमः ' ' अनुपपत्तिः ' इत्यनेनान्वयः । एतेने व्यतिदिष्टमेव निरासहेतुमाह एवं सतीति- द्रव्यार्थिकस्य नैगमादेरुकदिशा पर्यायसहत्वाभ्युपगमे सतीत्यर्थः । द्रव्यपर्याययोः सर्वथाऽभेदोऽसन्नेवेत्यसतस्तस्याभ्युपगमे नैगमादेर्मिथ्यादृष्टित्वं स्यात् एवं द्रव्य-पर्याययोः सर्वथा मेदोऽप्यसन्नेवेति तदभ्युपगमे शब्दन यस्यापि पर्यायार्थिकस्य मिथ्यादृष्टित्वं स्यादित्याह - अत्यन्तेति । प्रत्येकस्य मिथ्यादृष्टित्वे समुदितयोरपि मिथ्यादृष्टित्वं नहि प्रत्येकमन्ययोर्द्वयोः समुदितयोर्नान्यत्वमित्याह- समुदितयोरवीति । एवं द्रव्यार्थिकनये द्रव्य-पर्याययोरत्यन्ताभेदे यदेव द्रव्यं तदेव गुण इत्येकार्थकयोर्द्रव्यगुणशब्दयोः पर्यायशब्दत्वाद् द्रव्यशब्दाद् द्रव्यात्मकस्य गुणस्य गुणशब्दाद् गुणात्मकस्य द्रव्यस्य प्रतीतेर्यथा 'घटः कलश: ' इति सहोतिर्न सम्भवति तथा गुणो द्रव्यमिति होर्नि स्यादित्याह - अत्यन्ताभेद इति द्रव्य पर्याययोरत्यन्ताभेदे इत्यर्थः । पर्यायार्थिकनये द्रव्यपर्याययोरत्यन्तभेदेऽपि पर्यायार्थिकेन पर्यायभिन्नं द्रव्यं गृह्यत एवेति द्रव्यग्रहणस्य पर्यायार्थिकेनैव सम्भवाद् द्रव्यप्रहार्थं द्रव्यार्थिकनयाश्रयणम किञ्चित्करं प्रसज्यत इत्याह- अत्यन्त मेदेऽपीति- द्रव्य पर्याययोरत्यन्त मेदे ऽपीत्यर्थः । अन्तर्गत्वप्रसकेः निरर्थकत्वप्रसङ्गात् । " एकस्मिन् द्रव्यपक्षे " इत्यस्य स्थाने " एतत्पक्षे " इति पाठो भवितुमर्हति द्रव्यार्थिकनयो द्रव्यपर्याययोरत्यन्ताभेदमभ्युपैति, पर्यायार्थिकनयश्च तयोरत्यन्त मेदमित्येवमभ्युपगन्तृमते इत्यर्थः । यदा च पर्यायार्थिकनयो द्रव्य पर्याययोरत्यन्त दमप्युपैति तदेकं द्रव्यमात्म स्वरूपमभ्युपगच्छत्येव, अन्यथा द्रव्याभावे तेन सह पर्यायस्य भेदाभ्युपगमस्तस्य वा पर्यायेण
-
२५१