________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलातो नयोपदेशः !
केन द्रव्यग्रहे द्रव्यार्थिकस्यान्तर्गदुत्वप्रसक्तेः, एकस्मिन् द्रव्यपक्षे पर्यायार्थिकनयमतेऽपि द्रव्यं सामायिकमित्यस्याविरोधप्रसङ्गाचैतन्मतस्य भाष्यकृतैव निरस्तत्वाच्चेति चेत् ? .
अत्रेदं पर्यालोचयामः-अविशुद्धानां नैगमभेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपरान्तृत्वान्न तत्र भावनिक्षेपानुपपत्तिः, न चैवमस्य पर्यायार्थिकत्वापत्तिः, इतराविशेषणस्वरूपप्राधान्येन पर्यायानभ्युपगमात् , शब्दादीनां पर्यायाथिकानां तु नैगमवदविशुद्ध्यभावान्न नामाद्यभ्युपगन्तृत्वमिति, नन्वेतदपि पर्यालोचनं न पर्यालोचनान्तरसहम् , स्वविषय विशुद्धिकृतापर्यायविषयताशालित्वस्य स्वविषयविशुद्धिकृतापर्यायाविषयत्वविनिर्मोकस्य वा भावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरव्यापकत्वात् तज्जातीयेऽविशुद्ध्यभावेनोपसर्जनीकृतपर्यायविषयतया तच्छोधनस्य दुःसाध्य. स्वात् , ईदृशस्य भावविषयत्वस्य सर्वानुगतत्वेन " सेसा इच्छंति सवणिक्खेवे" [
3 इत्यस्य व्याघातापातादिति चेत् ? न-भावार्थानवबोधात्, ‘अन्त्यनैगमेनेतरविशेषणतया पर्यायो विषयीक्रियते' इत्यस्य ह्ययमर्थः-पाश्चात्यनयात् विशेषोपयोगेन विशेषमनुभवताऽन्त्यनैगमेन
सह भेदाभ्युपगमः कथं समच्छेतेति पर्यायार्थिकमतेऽपि गुणप्रतिपन्नमात्मद्रव्यं सामायिक स्यादेवेति पर्यायार्थिकमते गुणः सामायिकं नात्मद्रव्यमिति न समतं स्यादित्याह . पर्यायाथिकनयमतेऽपीति । एतन्मतस्य अनन्तराभिहितमतस्य । __ अत्र उक्तप्रश्ने इदम् अनन्तराभिधीयमानमेव समाधानम् , पर्यालोवयामः सम्यग्विचारयामः, इदं समाधानमपि नवं मयैव परिभावितमतः सम्यगभ्यसनीय ग्रन्थान्तरेऽनवाप्तरित्यावेदयितुमुत्तमपुरुषादरः, अविशुद्धानामिति- पर्यायवियुतस्य द्रव्यस्याभावान शुद्धो नैगमस्तद्विषयक:, किन्तु अविशुद्धनैगमविशेषा एव केवलं द्रव्यमसदपि ग्रहीतुं प्रभविष्णव इत्यविशुद्धानां नैगमविशेषाणां कञ्चित् कालं स्थिरत्वेन द्रव्यात्मकानां नाम-स्थापना-द्रव्याणां पर्यायवियुतानामभ्युपगमे समर्थत्वेऽपि विशुद्धनैगमविशेषस्य पर्यायाकलितदव्याभ्युपगन्तुईव्यविशेषतया पर्यायाभ्युपगन्तृत्वान्न विशुद्ध नैगमभेदे भावनिक्षेपस्यानुपपत्तिरतो द्रव्यार्थिकनयस्य निक्षेपचतुष्ट याभ्युपगन्तृत्वं मुसङ्गतमित्याशयः। नन्वेवं विशुद्धनैगमभेदस्य भावनिक्षेपा. भ्युपगन्तृत्वे पर्यायाभ्युपगन्तृत्वात् पर्यायार्थि कत्वमपि स्यादित्याशय प्रतिक्षिपति-न चेति । एवं विशुद्धनैगमविशेषस्य भावनिक्षेपसहत्वाभ्युपगमे । अस्य विशुद्धनैगमविशेषस्य । निषेधे हेतुमाह-इतरेति-प्राधान्येन पर्यायविषयकत्वमेव पर्यायार्थिकत्वे तन्त्रम्, प्राधान्यं चेतरा विशेषणत्वम् , विशुद्धनैगमस्तु द्रव्यविशेषणतया पर्यायं गृह्णाति न तु द्रव्याविशेषणतयेतीतराविशेषणतालक्षणप्राधान्येन पर्यायविषकत्वस्य विशुद्धनैगमेऽभावान्न तस्य पर्यायार्थिकत्वापत्तिरित्यर्थः। शब्दादीनामितिशब्द-समभिरूडैवम्भूतानां पर्यायार्थिकनयानां ने गमवद् विशुद्धचविशुद्धिभेदाभावात् केवलस्य पर्यायस्य द्रव्याविशेषितस्यासतोऽपि समस्त्येव विषयत्वम् , तेषां तदेव विशुद्धत्वमिति नाम-स्थापना-द्रव्यात्मकद्रव्यविषयकत्वस्य तेषु सर्वथैवाभावान्न नामादिनिक्षेपाभ्युपगन्तृत्वं किन्तु केवलभावनिक्षेषभ्युपगन्तृत्वमेवेत्यर्थः । गमस्य भावनिक्षेपसहत्वम शहूते-नन्विति । एतदपि विशुद्धनैगमविशेषस्य द्रव्यविशेषणतया पर्यायविषयकत्वेन भावनिक्षेपसहत्वस्य समर्थकमपि । पालोचनमपि विचारणमपि । पर्यालो बनान्तरमेव दर्शयति- स्वविषयेति- अत्र स्वपदेन यस्मिन् नये भावनिक्षेपसहत्वमुपपादनीयं तस्य ग्रहणम् । “ विशुद्धिकतापर्याय" इत्यस्य स्थाने " विशुद्धिकृतपर्याय " इति पाठः सम्यग् । निरुक्तभावनिक्षेपसहत्वस्य सङ्ग्रहर्जुसूत्रयोरख्यापकत्वमेव व्यवस्थापयति-तजातीय इति- सहजातीये ऋजुसूत्र जातीये चेत्यर्थः । तच्छोधनस्य अविशुद्धिशोधनस्य । ईदृशस्य स्वविषयविशुद्धिकृतपर्यायविषयताशालित्वरूपस्य स्वविषयविशुद्धि प्रयुकपर्यायायाविषयत्वविनिर्मो कलात्वस्य वा । "सर्वानुगतत्वेन" इत्यस्य स्थाने " सर्वाननुगतत्वेन " इति पाठो युक्तः, सङ्घहर्जुसूत्रयोरव्यापकत्वात् सर्वाननुगतत्वम्, सेला. इति-" शेषा इच्छन्ति सर्वनिक्षेपान्" इति संस्कृतम्। समाधत्ते-नेति । स्वोत्यभिप्रेतार्थ मेवोपदर्शयति- अन्त्यनैगमेनेति । पाश्चात्यनयादिति- नैगमनयान्तरं सङ्गहनयः प्रवर्तत इति नैगमनयात् पाश्चात्यो न यः सहनय स्तस्मादित्यर्थः, अस्य विशेषम्' इत्यनेनान्वयः । विशेषो.