________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
२५३
---------
शुद्धपर्यायविशिष्टं द्रव्यं विषयी क्रियते' इति, अयं च न्यायः सङ्ग्रहर्जुसूत्रयोरपि विषयविशेषे सम्भवतीति नाव्यापकत्वम् , स्वसजातीयेन वा शुद्धिप्रयुक्तविषयविशेषपर्यवसान सम्भावनाऽपीति न कश्चिद् दोषः, इत्थं चैतदवश्यमभ्युपगन्तव्यम् , उक्तापेक्षां विना “ दवठ्ठिओ त्ति[ए]को" [ सम्मति० काण्ड० गाथा
] इत्यादिना द्वयोरप्युभयरूपानेकानुप्रवेशपाठसिद्धस्य तत्र भजनाकृतविशेषस्यानुपपत्तेरिति दिक् । पयोगेनेति-सहनयो विशेष न गृह्णाति किन्तु सामान्यमेव, नैगमनयपरम्परायां योऽन्यो नैगमः यत्पश्चात् सङ्गह. प्रवृत्तिः सोऽपि यदि विशेषं न गृहीयान्न तर्हि तस्त्र सामान्यग्राहि सङ्ग्रहनयाद् विशेषः स्यात् , एवं च सङ्ग्रह एव तस्य प्रवेशो भवेदिति न नैगमत्यान्यप्रभेदः स स्यादतः स विशेषं गृह्णातीत्यभ्युपेयमिति विशेषोपयोगस्वरूपेणेत्यर्थः । अत एवं तेन पाश्चात्यनयाद विशेषमनभवता वैशिष्ट्यमाकलयतेत्यर्थः । अन्त्यनैगमेन विशेषग्राहित्वाद् विशुद्धेन नैगमस्यान्त्यप्रभेदेन अस्य विषयीक्रियते' इत्यने नान्वयः । किं विषयीक्रियत इत्यपेक्षायामाह- पर्यायविशिष्टं द्रव्यमिति- इत्थं च पर्यायविशिष्टद्रव्यग्राहित्त्वे द्रव्यविशेषणतया पर्यायग्राहित्वान्नैगमस्थ भावनिक्षेपसहत्वमायातमित्याशयः। सङ्ग्रहादीनामप्युक्तदिशा भावनिक्षेपसहत्वमित्याह- अयं च न्याय इति- पाश्चात्यनयाद् विशेषोपयोगेन वैशिष्ट्यशालिना पूर्वनयेन किञ्चिद्विशेषविशिष्टद्रव्यविषयीकरणलक्षणो न्याय इत्यर्थः । ": पोरपि" अस्य स्थाने "सग्रव्यवहारयोव्यवहारर्जसत्रयोरपि" इति पाठो युक्तः । उक्तन्यायसङ्गमनं चेस्थम् - परा-ऽपरभेदेन सङ्ग्रहस्य द्वैविध्य प्रस्थकवसतिप्रदेशदृष्टान्ते सङ्ग्रहस्याभ्युपगमवैचित्र्यमित्यादितः सामान्यतोऽवगम्यत एव, यदुत-सङ्ग्रहनयस्याप्यवान्तरलक्षण्यं समस्तीति. तथा च द्रव्यार्थिकस्यापि सङ्ग्रहस्य योऽन्त्यप्रभेदो यदनन्तरं व्यवहारनयस्य प्रवृत्तिः स पाश्चात्यव्यवहारनयेन यथाभूतं द्रव्यं विषयीक्रियते तथाभूतमेव द्रव्यं यदि गृहीयान तर्हि तस्य व्यवहारनयाद् विशेषो भवदिति व्यवहारनयाविशिष्टः स व्यवहारनये प्रविशन्न सङ्ग्रहस्य प्रभेदो भवेदतो यद्विशेषविशिष्टं द्रव्य व्यवहारनयो गृह्णाति तव्यतिरिक्तविशेषविशिष्टमेव द्रव्यं गृह्णाति, द्रव्यविशेषणतया विशेषं गृह्णतोऽपि तस्य इतराविशेषणत्वलक्षणप्राधान्येन पर्यायविषयकवाभावान्न पर्यायार्थिकत्वम्, द्रव्यविशेषणतया पर्यायविषयकत्वाच्च भावनिक्षेपसहत्वमपि युज्यते, तथा व्यवहारस्य पाश्चात्यैन जुसूत्रनयेन यद्विशेष विशिष्ट द्रव्यं विषयीक्रियते तद्विशेषविशिष्टमेव द्रव्यं यदि व्यवहारान्त्यप्रभेदेन विषयीक्रियेत तर्हि तस्य ऋजुसूत्रादविशिष्टत्वेन तत्रैव प्रवेशे न व्यवहारप्रभेदत्वं स्यादतस्तद्विशेषणातिरिक्तविशेषणविशिष्टमेव द्रव्यं तेन विषयी. क्रियते. एवं चोक्तदिशा तस्यापि पर्यायार्थिकत्वाप्रसङ्गो भावनिक्षेपसहत्वं च घटतेतराम् , ऋजुसूत्रस्य तु कश्चिद् द्रव्यार्थिकत्वमभ्युपगच्छति, कश्चित् पुन: पर्यायार्थिकत्वं पूत्कुरुते, द्रव्यार्थिकत्वेऽपि तस्य किञ्चिद्विशेषविशिष्टद्रव्यमाहित्येनोपसर्जनत्या पर्यायग्राहित्वाद् भावनिक्षेपसहत्वमुपपद्यतेतराम् , इत्थं चतुर्वपि द्रव्यार्थिकेषु भावनिक्षेपाभ्युपगन्तृत्वस्य सम्भवेन न तस्याव्यापकमिति युक्तमुक्तम्- 'निक्षेपा निखिलाः परैः, इत्युपसंहरति-इति नान्यापकत्वमिति । ननु नैगमादिप्रभेदानां सर्वेषामेकजातीयानां समानविषयत्वेन विषयभेदाभावात् प्रथमनेगमादितश्वरमनैगमादिप्रभेदेऽपि विषयविशेषसम्भावनैव नास्तीति कुत उक्तदिशा भावनिक्षेपसहत्वं नैगमादोनःमित्यत आह-स्वसजातीयेन वेति-प्रथमनगमादिरविशुद्धोऽन्त्यनगमादिस्ततो विशुद्ध इत्यविशुद्धनैगमादिरेव विषयपरिशोधनव्यापृतविचारग्रेणिमारुह्योत्तरोत्तरशद्धयाधानसमर्थपूर्वपूर्वस्वजातीयेन नेगमादिना शद्धिमासाद्य तन्निबन्धनविषयविशेषावगाहनस्वभावरूपस्य विषयविशेषपर्यवसानस्य सम्भावनाऽस्त्येवान्यनगमादिप्रभेदे इत्येकजातीयत्वे समानविषयत्वे च सत्यपि निरुक्तसम्भावनया भावनिक्षेपमहत्वमपि युक्तिमार्गमञ्चतीति न दोषकणिकाऽपीत्यर्थः । इत्थं च उक्तप्रकाराश्रयणतश्च । एतत भावनिक्षेपसहत्वम्, उक्कापेक्षा विनेति-द्रव्यार्थिकस्यापि द्रव्यविशेषणतया पर्यायविषयत्वेन भावनिक्षेपस हत्यमिति भावनिक्षेपमहत्वे द्रव्यविशेषणतया पर्यायविषयत्वस्य यापेक्षा तां विनेत्यर्थः, अस्य 'भजनाकृतविशेषस्थानुपपत्तेः' इत्यत्रान्वयः । दव्याट्रिओत्ति- इयं च सम्मतिगता गाथा, अनया च गाथया इदं प्रतिपाद्यतेयदुत, केवलस्य द्रव्यस्य केवलस्य पर्यायस्य चाभावात् केवलद्रव्यग्राही द्रव्यार्थिकः केवलपर्यायग्राही पर्यायार्थिक इत्येवं शुद्धजातीयो द्रव्यार्थिकः पीयार्थिकश्च न विद्यते किन्तु द्रव्यार्थिकोऽपि पर्यायमवगाहते पर्यायार्थिकोऽपि द्रव्यमवगाहत इत्येवं समानविषयत्वे सति भजनाकृतो द्रव्यार्थिकपर्यायार्थिकयोर्विशेषः, भजना च तत्रोक्कापेक्षेवेति । द्वयोरपि द्रव्यार्थिकपर्यायाथिकनयद्वयस्यापि ॥ उमयरूपानेकानुप्रवेश" इत्यस्य स्थाने " उभयरूपानेकान्तानुप्रवेश" इति पाठो युक्तः, उभयरूपस्य -द्रव्यार्थिकत्वपर्याथार्थिकत्वोभयरूपस्यानेकान्तस्य, द्रव्यार्थिकपर्यायार्थिकनययोर्योऽनुप्रवेशस्तस्य. “दब्ध