________________
२५४
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
ननु यद्येवं पर्यायार्थिके भावनिक्षेप एव, शेषेषु चत्वारोऽपि निक्षेपा अभिमतास्तदा मङ्गलवादे यदुक्कं भाष्यकृता-“णामाइतियं दबटिअस्स भावो अ पजवण यस्स" विशेषावश्यकभाष्यगाथा७५ ] त्ति, तत् कथं सङ्गच्छते ? तत्राह-द्रव्यार्थिके भिदां त्रये-नाम-स्थापना-द्रव्य-लक्षणे मङ्गलवादेऽभिहिते, अन्यन्मतं पुरस्कृतमिति विशेषः, स्वातन्त्र्येणापि नामादित्रयविषयत्वमेव द्रव्यार्थिकस्येति तदभिप्रायेण मतान्तरेण तत्र तथोक्तिरित्यर्थः, अत एवोक्तं तत्त्वार्थवृत्तावपि -" अत्र चाद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य, तथा सर्वार्षत्वात् , पाश्चात्यः पर्यायनयस्य तथापरिणति विज्ञानाभ्याम्” इति ॥ ३ ॥ एतन्मतावष्टम्भकमाह
द्रव्यार्थे गुणवान् जीवः, पर्यायार्थे च तद्गुणः।।
सामायिकमिति प्रोक्तं, यदिशाऽऽवश्यकादिषु ॥ ८४ ॥ नयामृत-द्रव्यार्थ इति । यदिशाऽऽत्रश्यकादिषु ग्रन्थेषु द्रव्याथिकनये गुणवान् जीवः सामायिकम, पर्यायार्थिकनये च जीवस्य गुणः सामायिकमिति प्रोक्तं तन्मतमेतदित्यर्थः, अत्र द्रव्य-पर्याय. टिओ ति" इत्यादिना यः पाठः-कथनं ततः सिद्स्य । तत्र द्रव्यार्थिके पर्यायाथिके च भजनाकृतविशेषस्योक्कापेक्षा विनाऽनुपपत्तेरित्यस्मात् कारणादेतदवश्यमभ्युपगन्तव्यमित्यर्थः।। ___उत्तरार्द्ध व्याख्यातुमवतारयति-नन्धिति । एवम् उक्तप्रकारेण । पर्यायाथिके साम्प्रतसमभिरूडैवम्भूताख्यशब्द नये। शेषेषु पर्यायार्थिकभिन्नेष्वखिलनयेषु । णामा० इति- " नामादित्रिक द्रव्यार्थि कस्य भावः पर्यवनयस्य" इति संस्कृतम् । तत्राह उक्काशङ्कायां प्रतिविधानं कथयति । भिदां त्रये इति मूलस्य विवरणं- नाम स्थापना-द्रव्यलक्षणे इति, 'अभिहिते' इति पूरणम् , 'पुरस्कृतमिति विशेषः' इत्यस्य स्थाने " पुरस्कृतमिति शेषः" इति पाठो युक्तः। "स्वातन्त्र्येणापि" इत्यस्य स्थाने "स्वातन्त्र्येण" इति पाठो युक्तः । तत्र मङ्गलवादे । तथोक्तिः "णामाइतियं दबहिस्स भावो अपजवणयस्स" इत्युक्तिः । इति एवम् । अर्थः उत्तरार्द्धार्थः मतान्तराश्रयणादेव । तत्त्वावृत्तिपाठमुल्लिखति- अत्र चेति-चतुर्पु निक्षेपेठ मध्ये चेत्यर्थः । आद्या नामादयः " नामस्थापना-द्रव्य-भावतस्तन्न्यासः" [ तत्त्वार्थ० अ० १, सू०५] इति सूत्रोक्तकमाक्षरान्नाम-स्थापना-द्रव्याख्याः । विकल्पाः निक्षेपभेदाः । द्रव्याथिकस्य नेगम-साह-व्यवहारर्जुसूत्राख्यद्रव्यार्थि कनय चतुष्टयस्याभिमताः । “तथा सर्वार्षत्वात्" इत्यस्य स्थाने “ तथा तथा सर्वार्थत्वात्" इति पाठो युतः, तथा तथा-तेन तेन रूपेण, नामस्व-स्थापनात्व-द्रव्यत्वभाववैरिति यावत् , सर्वार्थत्वात्- सर्वशब्दाभिधेयत्वात् , घट इत्युचरिते घटनाम घटाकृति-द्रव्यघट-भावघटानां सर्वेषामेवावगमादित्यर्थः । पाश्चात्यः उक्तसूत्रे सर्वतः पश्चात् पठितश्चरमो भावनिक्षेपः । पर्यायन यस्य साम्प्रतसमभिरूढवम्भूताख्यत्रिविधशब्दन यस्याभिमतः। तत्र हेतु:- तथापरिणति-विज्ञानाध्यामिति- क्षणिका एवार्थक्रियाकारित्वात् सन्त इति सर्वे पदार्थाः क्षणिका एक, पूर्वपूर्वघटादिक्षणिको भाव उत्तरोत्तरघटादिभावरूपेणैव परिणमते. नहि पूर्वापरकालानुगतं किञ्चिदपि नामादिकं समस्ति, अर्थक्रियाकारित्वलक्षणसत्त्वस्य शमिकेषु सत्त्यात्, प्रतिक्षणं भिन्नभिन्न स्वरूपा एव भावा भवन्ति, त एव चार्थक्रियाविदग्धाः, नहि जलाहरणादिकाऽर्थक्रिया नामघटादितो जायते किन्तु भावघटादेवेति उत्तरोत्तरक्षणकुद्रपात्मकपूर्वपूर्वघटाद् भावघट एव समुपजायत इति भावघटस्य भावघटात्मिका या परिणतिः कार्य तया भावघटस्यैव भाव इत्यस्य व्यवस्थितिः, तथा च घट इत्युक्ते आपामरं भावघटस्यैव प्रतीतिरुपजायते न तु नामघटादीनामिति तथाविज्ञानतो घटशब्दाद् भावघटस्य विज्ञानाद् भावघटस्वरूप एक घट इत्यर्थः ॥ ८३ ।।
चतुरशीतितमपद्यमवतारयति- एतन्मतेति-द्रव्यार्थिकस्य नामादयस्त्रयो निक्षेपाः पर्यायाधिकस्य भावनिक्षेप इत्यभ्युप. गन्तृमतेत्यर्थः । अवष्टम्भकम् उपोटूलकं समर्थकमिति यावत् । विवृणोति- द्रव्यार्थ इतीति । द्रव्यार्थ इत्यस्य विवरणं-द्रव्यार्थिकनये इति, पर्यायार्थे चेत्यस्य विवरणं- पर्यायार्थिकनये चेति । तहुण इत्यस्य विवरणं