________________
૪૮
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
निश्चयव्युत्पादनस्य न क्रमविरुद्धता ?; न च व्यापकनिश्चयाभिधानोत्तरं व्यवहाराभिधानमेवात्र कमः, द्वयोरपि नयत्वेन भूमिक्रमानुरोधेनैवात्र क्रमाश्रयणात्, अन्यथा ह्यव्युत्पादितव्यवहारो दुष्प्राप्यव्युत्पत्तिकनिश्चयश्च शिष्यः फल सन्देहदोलाधिरोपणेन संसार एव भ्रामितः स्यात्, तदुक्तमन्यैरपि--
" अज्ञस्याद्धं प्रबुद्धस्य सर्व ब्रह्मेति यो वदेत् ।
महानरकजालेषु स तेन विनिपातितः ॥ १ ॥" [ महोपनिषद् ५, १०५ ] इति । न च निश्चयाधिकारी प्रबुद्ध एव (न किं त्वद्धप्रबुद्ध इति वाच्यम्, आपातनिश्चयश्रद्धाजनिते क्रियाऽऽलस्यवतोऽर्द्धप्रबुद्धत्वेऽपि संशयादित्यभिप्रायवानाह
ये सीदन्ति क्रियाभ्यासे ज्ञानमात्राभिमानिनः।।
निश्चयान्निश्चयं ते न जानन्तीति श्रुते श्रुतम् ॥ ८२ ॥ नयामृत०-य इति । ये ज्ञानमात्राभिमानिन:- ज्ञानमेवास्माकं सर्वा सामग्री सम्पादयिष्यतीति स्वेच्छाकल्पितसन्तोषवन्तः, क्रियाभ्यासे सीदन्ति ते निश्चयान्निश्चयं न जानन्ति, किन्तु शब्दाभिला.
क्षणस्थित्युपगमोप्येकक्षणस्थित्युपगमः, एकक्षणस्थित्युपगमस्तु स्वत एकक्षणस्थित्युपगम इत्येवं निश्चयनयस्य व्याप. कत्वात् प्रथमतोऽभिधानं ततो व्यवहारनयस्याभिधानमित्यैव क्रमः, तद्विरुद्धता च नास्त्येव दिगम्बरस्य प्रथमतो निश्चयाभिधाने इत्याशय प्रतिक्षिपति-न चेति। निषेधे हेतुमाह-द्वयोरपीति-निश्चयनय-व्यवहारनययोरपीत्यर्थः । भूमिक्रमानुरोधेनैव प्रथमतो ह्यनतिप्रयोजनो व्यवहारनयव्युत्पत्तिपात्रं भवितुमर्हति, ततो निश्चयन यव्युत्पादन योग्यो भवतीति प्रथमतो व्यवहारनयव्युत्पत्याधानयोग्यत्वाद् व्यवहारनयभूमिस्ततो व्युत्पादितव्यवहारोऽसौ निश्चयव्युत्पत्त्याधानयोग्यत्वान्निश्चयनयभूमिरित्येवं भूमिक्रमानुरोधेन । अन्यथा भूमिकमानाश्रयणे । हि यतः। अव्युत्पादितव्यवहारः अविज्ञातव्यवहारनयमार्गः, अस्य 'शिष्यः' इत्यनेन सम्बन्धः। यावन्न व्यवहारनये व्युत्पन्नस्तावन्निश्चयनयव्युत्पत्तिको न भवितुमर्हतीति दुधाप्यव्युत्पत्तिकनिश्चयश्चेति- दुष्प्राप्या प्राप्तुमशक्या व्युत्पत्तिर्यस्य स दुष्प्राप्यव्युत्पत्तिकः, दुष्प्राप्यव्युत्पत्तिको निश्चयो यस्य स दुष्प्राप्यव्युत्पत्तिकनिश्चयः, येन पुंसा निश्चयनयस्य व्युत्पत्तिः प्राप्तुं न शक्यते स इत्यर्थः, तथा च व्यवहारमार्गानभिज्ञो निश्चयनयमार्गानभिज्ञश्च शिष्यो निश्चयनयोपन्यासेन एतदुपन्यस्तफलं मयि भवि. ष्यति नवा निश्चयनयोपदिष्टकर्मण इदं फलं नवेत्येवं फलसन्देहलक्षणा या दोला तस्यामधिरोपणेन संसार एव भ्रामितः स्यात् , पुनर्जननं पुनमरणं पुनर्जन्मेत्येवं पुनः पुनः संसार्येव स्यान्न मुक्तिमासादयेदित्यर्थः ।
यो यदुपदेशायोग्यः स तदुपदेशतोऽनर्थमेवासादयति न तदुपदिष्ट फलमित्यत्र परवचनसंवादमाह- तदुक्त अज्ञस्येति- विशेषतो विज्ञानरहितस्येत्यर्थः, तेन सर्वथा ज्ञानरहितत्वस्य जीवमात्रेऽसंभवेऽपि न क्षतिः । 'सर्व ब्रह्म' इत्येत् प्रतिपाद्यं यथाश्रुतमपि यो न जानाति तस्योक्तवाक्येन श्रुतमात्रेण नेष्टं नवाऽनिष्टमुपजायते तथाविधरागद्वेषराहित्यादत उक्कमर्द्ध प्रबुद्धस्येति- शत्योक्तवाक्यप्रतिपाद्यं ज्ञातुं समर्थः, तदभिप्रेतार्थ नावधारयितुं प्रभुः, एतादृशोऽर्द्धप्रबुद्धो दर्शितवाक्येन सर्वस्य वस्तुनो ब्रह्मैकरूपत्वमवगत्यागम्यागमनाऽभक्ष्यभक्षणादिकं यथेष्टमनुतिष्ठेद्, अतस्तदुपदेशतः स महानरकेष्वेव पतितः स्यात् । स अज्ञोऽर्द्ध प्रबुद्धः तेन सर्व ब्रह्मत्युपदेशक । न चेत्यस्य वाध्यमित्यनेनान्वयः । “जनिते क्रिया" इत्यस्य स्थाने “जनितकिया" इति पाठो युक्तः ॥
विवृणोति-ये इतीति । ज्ञानमात्राभिमानिन इति मूलस्य विवरणं-शानमेवास्माकं सर्वो सामग्री सम्पाद. यिष्यतीति स्वेच्छाकल्पितसन्तोषवन्त इति । क्रियाभ्यासे सीदन्ति ज्ञानमात्रेणेव सम्भृतसामग्री केणानायासमेव मुकिफल भविष्यत्यस्माकमतः कष्टैकफलिका संयमाराधनादिका क्रिया नाचरितव्येति तदा वरणे क्लिश्यन्तः क्रियां नाचरन्त्येव, ते ज्ञानमात्राभिमानिनः, निश्चयात् वस्तुतः परमार्थत इति यावत्, निश्चयं निश्चयनयरहस्यम् । तत् किं प्रकारान्तरेण निश्चयं ते जानन्ति येन निश्चयादिति विशेषणमुपात्तमिति पृच्छति-किन्विति । उत्तरयति-शब्दा
रपीति।