________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
निश्वयोद्राहः फलेग्रहिः
16
सुपरिचिदाणुभूदा मञ्चस्स वि कामभोगबंधकधा ।
22
एगत्थस्सुवलंभो णवरि ण सुलभो विभत्तस्स || [ समयप्राभृतम् ]
२४७
इत्यादिवचनात्, अत एव बुधादिविकलेनेदं कस्यचिदेवादेयं प्रवचनपरमगुह्य मितीतरशास्त्रेभ्यो विशिष्यत इति चेत् ? तर्हि तादृशं समयप्राभृतादिकं हिङ्गुमरिचविक्रयकारिणां मुग्धवणिजामधीनं कुर्वद्भिर्भवद्भिः समीचीनं प्रवचनगुह्यमाघ्रातम्, कथं च पदार्थपरिज्ञानादिव्यवहारव्युत्पत्तौ नैमिके द्रव्यसङ्ग्रहादावप्यादौ निश्चयोपन्यासेन सूचिमुखे मुशलप्रवेशनं व्यवसाय आयुष्मतो नोपहासकर: !, कथं वा लौकिकव्यवहारजनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारमुत्पादनस्यैवावसर प्राप्तत्वेन तमुल्लङ्घय
युक्तः, तस्य निर्मिते इत्यर्थः, अस्मच्छास्त्रे दिगम्बरशास्त्रे, आदौ व्यवहारनयोपन्यासात् पूर्वमेव निश्वयोड्राहः निश्वयनयोपन्यासः, फलेग्रहिः परिणामे फलप्रदः । उक्तार्थे समयप्राभृतादिवचनं प्रमाणयति- सुद० इति - 'सुतपरिचितानुभूता मत्स्यापि कामभोगबन्धकथा । एकार्थस्योपलम्भो नवरं न सुलभो विभक्तस्य ॥” इति संस्कृतम् । अत एव दिगम्बर शास्त्रस्यात्मशरीराभेद भ्रमोन्मूलनार्थं प्रवृत्तस्यादौ निश्चयोद्वाहस्य फलेग्रहित्वादेव, ' अत एवेदमितरशास्त्रेभ्यो विशिष्यते'
95
इत्यन्वयः । “वुधादिविकलेनेदं " इत्यस्य स्थाने "बुद्धयायविकलस्येदं " इति पाठो भवितुमर्हति यथाश्रुतं तु न सङ्गतिमङ्गति, इदं दिगम्बरशास्त्रम्, बुद्धयाद्यविकलस्य कस्यचिदेव प्रमातुरादेयमुपादेयम्, प्रवचनपरमगुह्यं जैनराद्धान्त गूढरहस्यावेदकम् इति एतस्मात् कारणात्, इतरशास्त्रेभ्यः दिगम्बरशास्त्रभिन्नशास्त्रभ्यो जैनराद्धान्त रहस्यानावेदकेभ्यः, विशिष्यते विशिष्टं भवति । उक्तदिगम्बराशङ्कां समाधत्ते तद्दति । तादृशं प्रवचनपरम गुह्यम्, हिंगुमरीचविक्रयकारिणामित्यनेन मुग्धा वणिजोऽत्यन्तं शास्त्ररहस्यानभिज्ञा: स्वाधीनानां शास्त्रदलानां हिङ्गु-मरीचादिपरिवेष्टनकार्ये एवोपयोगं करिष्यन्ति हिङ्गुमरीचादिक्रयकारिणश्च मुग्धा व्यवहारिणो बालविष्ठाद्यशुचिप्रमार्जनादिकर्मण्येव तेषामुपयोगं करिष्यन्ति न तु तदधीनस्य समयप्राभृतादेः प्रवचनपरमगुह्यावेदकत्वेन प्रवचनपरमगुह्यत्वं ग्रहीष्यन्तीत्यावेदितं भवति । भवद्भिः दिगम्बरैः, दिगम्बरस्य साधोः समय प्राभृतादिशास्त्रदलान्यपि स्वस्य सर्वथा निर्ग्रन्थत्ररक्षणाय परित्याज्यान्येवातस्तेषां मुग्धवणिगधीनत्वमावश्यकमेवेति । आघ्रातमित्यनेनान्याधीनस्य शास्त्रस्य सम्यगवलोकनं साभ्यासं न भवत्यत आपाततो निरीक्षणमेव न ततः प्रवचनगुह्यस्य सम्यगवसितिरित्यवेिदितम् । कथं चेत्यस्य नोपहास करः ' इत्यनेनान्वयः । पदार्थेति - अस्य पदस्यायमर्थ इत्येवं यत् पदार्थपरिज्ञानम्, आदिपदात् तज्जन्यं यद् विहितकियाद्याचरणं निषिद्धकियानाचरणं तत्प्रभृतेः परिग्रहः, तदात्मिका या व्यवहारव्युत्पत्तिः व्यवहारोपयोगिनी व्युत्पत्तिस्तत्र । " नैमिके इति स्थाने नैयमिके' " इति पाठो युक्तः, नियमकारके इति तदर्थः । द्रव्यसङ्ग्रहादौ द्रव्यसङ्ग्रहादिग्रन्थेऽपि । आदौ प्रथमतः । निश्चयोपन्यासेन निश्चयनयोपन्यासेन । " सूविमुखे " इत्यस्य स्थाने 'सूचीमुखे ' इति पाठो युक्तः, फाटितवस्त्र खण्डादेर्योजनादिकर्मनिपुणाऽयोनिष्पन्ना सूची, तस्या मुखं- सूत्रप्रवेशनार्थं छिद्रम्, तदतिसूक्ष्मं भवति, तत्रातिसूक्ष्ममेव सूत्रं प्रयत्नेन प्रविशति, तत्रातिस्थूलस्य मुशलस्य प्रवेशनं न सम्भवति, यदि कस्यचिदतिमूढमतेः सूचीमुखे मुशलप्रवेशन व्यवसायो भवेत् स निष्फलत्वात् तस्योपहासकर एव भवति, तथा प्रथमतो निश्चयनयोपन्यासेनायुष्मतः- चिरंजीविनो दिगम्बरस्य, परोपकाराध्यवसाय उपहास करः कथं नेत्यर्थः । 'मुशलप्रवेशनं व्यवसाय " इत्यस्य स्थाने " मुशलप्रवेशनव्यवसाय " इति मुशलप्रवेशने व्यवसाय" इति वा पाठो युक्तः । 'आयुष्मतः' इत्युपादानेन मूर्खश्चिरं जीवतीति वचनात् तथा व्यवसायकतुर्दिगम्बरस्य मूर्खत्वं ध्वनितम्। कथं वेत्यस्य न क्रमविरुद्धतेत्यनेनान्वयः । " व्यवहारमुत्पादनस्यैवा " इत्यस्य स्थाने " व्यवहारव्युत्पादनस्यैवा " इति पाठो युक्तः । तमुल्लङ्घय अवसरप्राप्तं लोकोत्तरव्यवहारव्युत्पादनमतिक्रम्य प्रथमं लौकिक व्यवहारव्युत्पादनं ततस्तज्वनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारव्युत्पादनं तदनन्तरं निश्चयनयव्युत्पादनमित्येवं यः क्रमस्तद्विरुद्धता प्रथमतो निश्चयनयव्युत्पादने दिगम्बरस्य स्यादेवेत्यर्थः । नन्वनेकक्षणस्याप्यभ्युपगन्ता व्यवहारः, तत्रैकक्षणस्थित्यभ्युपगन्तृत्वं समस्त्येव, न ह्येकक्षणस्थितिमन्तरेणानेकक्षणस्थितिः सम्भवति, एकक्षणस्थितिस्त्वनेकक्षणस्थितिमन्तरेणापि सम्भवति, तथा चानेक
61
Es
"