________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
प्रेक्षावदुपकारितयैवादौ निश्चयनयोपन्यासोऽस्माकं फलवान् भविष्यतीत्याशङ्कायामाह
उन्मार्गकारणं पापा परस्थाने हि देशना ।
बालादेन न्ययोग्यं च वचो भेषजवद्धितम् ॥ ८१ ॥ नयामृत०-उन्मार्गेति । परस्थाने-स्वाधिकारिभिन्नाधिकारिणि निमित्ते, हि-निश्चितम् , देशना उन्मार्गकारणमिति हेतोः पापा, न खल्बपरिणतव्यवहारेषु मलिनवस्त्रेषु कुङ्कुमरागाधानवनिश्चयनयदेशना शोभामावहति, न च बालादेमध्ये अन्ययोग्यं वचोऽन्यस्य भेषजवद्धितं किन्त्वनर्थकारि, तस्मादादौ निश्चयोद्राहो नग्नानामनर्थावह एव, तदिदमुक्तं षोडशकप्रकरणे" बालादिभावमेवं सम्यग् विज्ञाय देहिनां गुरुणा । सद्धर्मदेशनापि हि कर्तव्या तदनुसारेण ॥ १ ॥
यद्राषितं मुनीन्द्रैः पापा खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ॥ २ ॥ हितमपि वायोरौषधमहितं तच्छ्लेष्मणो यथात्यन्तम् । सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ॥३॥ एतद्विज्ञायैवं यथाहं शुद्धभावसम्पन्नः । विधिवदिह यः प्रयुङ्क्ते करोत्यसौ नियमतो बोधिम् ॥४॥" ८१ ।।
नन्वनादिकालीनव्यवहारवासनाजनितमात्मशरीराभेदभ्रममुन्मूलयितुं प्रवृत्तेः, अस्मच्छाने आदी भिज्ञानाभिज्ञप्राणिनां हितावहः । इति एतस्मात् कारणात् । आदी प्रथमतः। "तपन्यासेन" इत्यस्य स्थाने " तदनुपन्यासेन" इति पाठो युक्तः, तस्य व्यवहारनयानुपन्यासेनेत्यर्थः । अन्यत् स्पष्टम् ॥ ८॥
एकाशीतितमपद्यमवतारयति-प्रेक्षावदुपकारितयैवेति । अस्माकं दिगम्बराणाम् । विवृणोति-- उन्मार्गेतीति । परस्थाने इत्यस्य विवरण- स्वाधिकारिभिन्नाधिकारिणि निमित्ते इति- स्वपदेनात्र देशनाया ग्रहणम् । देशना कथं पापा? मुख्यतयाऽधर्मस्य गौणतयाऽधर्मकारणस्य च पापपदबोध्यत्वादत उन्मार्गकारणत्वेनाधर्महेतुत्वात् पापपदबोध्या सेत्याशयेनाह- उन्मार्गकारणमिति । हेतोरिति- यतोऽनधिकारिणि देशना उन्मार्गकारणमेतस्मात् कारणात् पापत्यर्थः । सदृष्टान्तमनधिकारिणि निश्चयनयदेशनाया: शोभानावहत्वमावेदयति-नेति- अस्य 'आवहति' इत्यनेनान्वयः । स्खल निश्चितम्, अपरिणतव्यवहारेष्विति-अज्ञातनयरहस्येविस्यर्थः, अस्य निश्चयनयदेशनायामन्वयः । मलिनेति-अत्य न्तमलिनेषु वस्त्रेषु कुङ्कुमरागस्य- रागिद्रव्यकुङ्कुमरक्किन्न आधानं यथा शोभा नावहति तथेत्यर्थः । न चेत्यस्य हितमित्यनेन सम्बन्धः । बालादेरित्यत्रादिपदात् कुमार युव-वृद्धादेरुपग्रह भेषजवदिति- यथा कुमारादियोग्यं भेषजं न बालादेहित बालादियोग्यं च मेषजं न कुमारादेहित तथेत्यर्थः । किन्त्वनर्थकारि कुमारादियोग्यं भेषजं बालादिभ्यः प्रदत्तं तेषामनर्थकरम् । उपसंहरति-तस्मादिति । एतत्संवादकं षोडशकप्रकरणस्थपद्य चतुष्टयमुपर्दर्शयति- तदिदमुक्तमिति।
बालादीति- गुरुणा देहिनामेवं बालादिभावं सम्यग् विज्ञाय तदनुसारेण सद्धर्मदेशनाऽपि कर्तव्या हीत्यन्वयः । तदनुसारेण बालाद्यनुसारेण, बालादिषु मध्ये यस्य या सद्धर्मदेशना योग्या तस्मिन् सा देशना गुरुणा विधेयेत्यर्थः । अन्यत् स्पष्टम् ।। ____ यद्भाषितमिति- ' इति यद् भाषितम् ' इति तृतीयपद्यान्तेतिना सह भाषितमित्यस्यान्वयः, खलु निश्चितम् , परस्थाने देशना पापा, भवगहने दारुणविपाकमेतदुन्मार्गनयनम् , यथा वायोहितमप्यौषधं तच्छ्लेष्मणोऽन्त्यन्तमहितम्, एवं बालाद्यपेक्षं सद्धर्मदेशनौषधमिति भाषितं मुनीन्द्रर्यदित्यन्वयः, भवगहने संसारकानने। दारुणविपाक पर्यन्तेऽशुभफलकम् , वायोः वातव्याधिपीडितस्थ, तत् औषधम् , श्लेष्मणः कफादिव्याधिपीडितस्य, एवं तथा, अन्यदुत्तानार्थम् ॥
पतदिति- यः शुभभावनापन्न एतदेवं विज्ञाय इह विधिवद् यथार्ह प्रयुङ्क्ते असौ नियमतो बोधिं करोतीत्यन्वयः, बोधि सम्यक्त्वम् , अन्यत् स्पष्टम् ॥८॥
द्वयशीतितमपद्यमवतारयति-नन्वित्यादिना । अनादीति- अनादिकालिकी या व्यवहारवासना तया जनितमात्मा शरीरयोरमेदभ्रमं - तादात्म्यभ्रममुन्मूलयितुम्- अत्यन्तमुच्छेत्तुम् , "प्रवृत्तेः," इत्यस्य स्थाने प्रवृत्ते” इति पाठो