________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
२४३
.
.
....
वतापि व्यवहारापरित्यागात्, साधकेन च "आरुरुक्षोर्मुनेयोगं कर्म कारणमुच्यते” [गीता-अ० ६, श्लो० ३] इत्यादिवचनादेव समाधिसाधनत्वेन व्यवहारापरित्यागादित्याशङ्कयाह
परिणामे नयाः सूक्ष्मा, हिता नापरिणामिके।
नवाऽतिपरिणामे च, चक्रिणो भोजनं यथा ॥ ७७॥ नयामृत०-परिणाम इति । सूक्ष्मा:-सूक्ष्मार्था नयाः, परिणामे-ऐदंपर्यार्थश्रद्धायाम् , हिताः, न पुनरपरिणामिके-उत्सर्गकरुचौ पुरुष, नवातिपरिणामके-अपवादेकरुची, स्तोकाश्च परिणामका बवश्व [ ] इत्यादिस्मृतेः, सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भवति, " स यथाकामो भवति तत्कतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते" [ ] इत्यादिश्रुतिभ्यः “ यद्यद्धि कुरुते कर्म तत्तत् कामस्य चेष्टितम् " [
] इत्यादिस्मृतिभ्यश्च, न्यायाच्च- नहि सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुमपि शक्तः, तस्मात् सर्वसंकल्पसंन्यासीति वचनात् सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान् ।" इति ।
व्याख्यातं चेदं शाङ्करभाष्यं सतपेण भाष्योत्कर्षदीपिकाकृता, तच्चेदं - " किं प्रशस्तत्वाधाव जीवं कर्मयोग एवानुछेय इत्याशङ्कायां ध्यानयोगाधिकारसंपत्तिपर्यन्तमवधिमभिप्रेत्य कर्मयोगस्य ध्यानयोगसाधनत्व प्रदर्शनेनोत्तरमाह- आरुरुक्षोरितियोग ध्यानयोगमारुरुक्षोरारोदुमिच्छोनियोगेऽवस्थातुमसमर्थस्य, यत्तु योग ज्ञानयोगमिति तन्न-ध्यानयोगस्यैव प्रकान्तत्वात् , कस्यारुरुक्षोः मुनेः कमेफलसंन्यासिन इत्यर्थः, यत्त मुनेनिदिध्यासनाख्यज्ञानयोगवतः श्रवण मननक्रमेण योग मारुरुक्षोरिति, तन्न- निदिध्यासनवतः पुनः श्रमण-मनन कमस्थानपेक्षणात्. तयोनिदिध्यासनार्थत्वात्. कर्मफलाभिसन्धि. रहितं कारणं साधनमुच्यते, तस्यैव पूर्व कर्मिणः पश्चाद् योगारूढस्य प्राप्तध्यानयोगस्य उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढताया आत्मसाक्षात्कारनिर्विकल्पसमाधिपर्यन्तायाः साधनमुच्यते, एतेन योगमन्तःकरणशुद्धिरूपं वैराग्यम् , आरु. रुक्षोर्न त्वारूढस्य मुनेर्भविष्यतः कर्मफलतृष्णात्यागिनः कर्म कारणं योगारोहणे साधनमनुष्छेयमुच्यते, योगारूढस्य योग पूर्वोक्तं प्राप्तवतस्तु तस्यैव शमः सर्वकर्मसंन्यास एव कारणमनुष्ठेयतया ज्ञानपरिपाक साधनमुच्यत इति प्रत्युक्तम् , ध्यानयोगस्यैवास्मिन्नध्याये वर्णनीयत्वेन तत्पक्षे श्लोकस्य सम्यगुपपत्या वर्णनीयार्थ श्रौतं विहायाश्रीतार्थवर्गनस्यानुचितत्वात. " योगसूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यदीरितम् । षष्ठ आरभ्यतेऽध्यायस्तव्याख्यानाय विस्तरात् ॥” तत्र सर्वकर्मत्यागेन योगं विधास्यस्त्याज्यत्वेन हीनत्वमाशङ्कय कर्मयोग द्वाभ्यां स्तुतवानिति स्वपूर्वग्रन्थादप्यस्मिन् तृतीय श्लोके ध्यानयोगवर्णन. स्यावश्यकत्वात् , कदा योगारूढो भवतीत्युच्यत इत्युत्तरलोकमवतार्य "योग समाधिमारूढो योगारूढ इत्युच्यते "। इति योगारूढशब्दार्थप्रदर्शनपरस्वग्रन्थतन्मूलविरोधश्च ॥३॥ कदा योगारूढो भवतीत्यपेक्षायामाह-यदेति- एतेन कीदृशोऽसौ योगारूढो यस्य शमः कारणमुच्यते इत्यत्राह-क: पुनर्योगारूढः ? इत्यत उच्यते इत्यापातनिकाद्वयमपि प्रत्युक्तम् , यदातदापदयोः प्रत्यक्षमुपलब्धर्भाष्योक्तपातनिकाया एव युक्तत्वात् , यदा यस्मिन् काले समाधीयमानचित्तो योगी इन्द्रियार्थेषु विषयेषु शब्दादिषु कर्मसु च नित्यादिषु प्रयोजनाभावबुद्धचा नानुषजते अनुषनं कर्तृत्वादिबुद्धिं न करोतीत्यर्थः, यतः सर्वान् संकल्पान् विषयविषयकमनोवृत्तिभेदान् कामान् सर्वाणि कर्माणि चेति सर्वसङ्कल्पान् इहामुत्रार्थकामहेतुन संन्यसितुं शीलमस्येति सर्वसंकल्पसंन्यासी तदा योगारूढः प्राप्तसमाधिरुच्यते ॥४॥ इति ।।
विवृणोति-परिणाम इतीति । नयस्य सर्वस्य ज्ञानरूपत्वेन सूक्ष्मत्वं कस्यचित् कस्यचिच्च स्थूलत्वमिति स्वरूपतो न सम्भवतीत्यतः सूक्ष्मा इति मूलस्य विवरण- सूक्ष्मार्था इति । परिणामे इति मूलस्य विवरणम् - ऐदम्पर्यायार्थश्रद्धायामिति- तात्पर्यविषयीभूतार्थविषयकश्रद्धायामित्यर्थः। हिता इष्टफलदायिनः । अपरिणामि श्रुतार्थतया न सतिमाति, सर्वस्य पुंसः प्रतिक्षणं परिणमनस्वभावत्वेन पारिणामिकत्वस्य परिणामवत्त्वलक्षणस्य तत्र सम्भवादतः प्रकृतोपयोगिनं तदर्थमुपदर्शयति-- उत्समैकरुचौ पुरुो इति- उत्समें सामान्यशास्त्रे एकाऽद्वितीया रुचिः श्रद्धा यस्य स उत्सर्गकरुचिस्तस्मिन् पुरुष, सूक्ष्मार्था नया हितावहा न भवन्तीत्यर्थः। अतिपरिणाम इति मूलमपि श्रृयमाणार्थपरतया न सङ्गच्छते, क्षणमपि वस्तु परिणामं नातिकामतीति परिणामातिकमलक्षणस्यार्थस्य, यो हि यस्य यदा परिणामः स तदा तस्य व्यापनभावलक्षणात्यन्तत्वसमकलित एवेति सर्वोऽपि पुरुषोऽतिपारिणामिक एवेति तयवच्छेद्यं न
अपरिणामिके इति मूलं यथा