________________
२४२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
कण्ठगतचामीकरन्यायेनातथाप्तत्वभ्रमादेव मुक्त्यर्थ प्रवृत्तिमिच्छन्ति तेषां वेदान्तशास्रादिवासनया मुक्तेर. वाप्तस्वाभिमाने कुतः क्लेशमूलब्रह्मचर्याउनुभवनशीलनस्वं स्यादिति ॥ ७६ ।।
ननु सर्वत्र नायमतिप्रसङ्गो भविष्यति, तथा "बुद्धाद्वैतस्वतत्वस्य यथेष्टाचरणं यदि । शुनां तस्व. दृशां चैव को भेदोऽशुचिभक्षणे ॥ १॥" [पञ्चदशी- ] इत्यादिविचारवता शुद्धनयज्ञाननिष्ठा
स्थिरैकब्रह्मवादिनां वेदान्तिना विशिष्य मिथ्यात्वमावेदयति-ये हीति । कण्ठगतवामीकरन्यायेनेति-- चामीकरसुवर्णम् , कस्यचित् पुंसः कण्ठे सुवर्णभूषणं समस्त्येव, अथापि स दोषवशात् सुवर्णभूषणं मम कुत्रापि पतितमित्यवगच्छन् तदन्वेषणप्रवृत्तः कण्डकण्डूयनार्थ कण्ठदेशे हस्तव्याप रतस्तद्गतमेव सुवर्णभूषणमासाद्य कृतकृयो भवति, अभिलपति च सुवर्णभूषणमवाप्तं मयेति, तथा तन्मते जोत्रमात्रस्य सच्चिदानन्दब्रह्मरूपस्य सर्वदैव तद्रूपेण व्यवस्थितस्य ब्रह्मैक्यलक्षणा मुक्तिरस्त्येव, अथापि तदनाप्तस्वभ्रान्त्या तत्स्वरूपावार्थ प्रवृत्तस्य तदनातत्वभ्रममुलाविद्योच्छेदे तदवाप्तिर्भवतीत्येवमुक्तन्याय - सङ्घटना, “ नातथाप्तत्वभ्रमादेव" इत्यस्य स्थाने " नानवाप्तवभ्रमादेव" इति पाठो युक्तः । तेषां ब्रह्मवादिनाम् , वेदान्तशास्त्रवासनया “तत्त्वमसि, अहं ब्रह्मास्मि" इत्यादिवेदान्तार्थप्ररूपकशास्त्रार्थज्ञानजन्यवासनया, मुक्तेरवातस्वाभिमाने यद्यपि सकलकर्मक्षयलक्षणा परमानन्दावाप्तिलक्षणा वा मुक्तिर्माता, तथापि खयमुत्प्रेक्षिता नित्य ब्रह्मात्मत्वलक्षणा मुक्तिनित्यत्वादवाप्तव ब्रह्माभिन्नस्य स्वस्य इत्येवमवाप्तवाभिमाने सति, कुत इति-अप्राप्तेष्ट प्राप्तये प्रेक्षावन्तः क्लिष्टानुष्ठानमातिष्ठन्ति, न तु प्राप्तत्वेन ज्ञातस्येष्टस्य प्राप्तये क्लिश्यन्ति, ततः क्लेशमूलमतिप्रयत्नप्रभवं यद् ब्रह्मचर्याद्यतुभवनं तत्परिशीलनत्वं- तदभ्यसनत्वं तदेकतानस्वमिति यावत् , कुतः स्यात् ? न कुतश्चित् , तथा च प्राप्तां मुक्तिं जानन्तोऽपि ब्रह्मवादिनो यत् प्रवर्तन्ते तन्मिथ्यात्वमेवेत्याशयः ॥ ७६ ॥
सप्तसप्ततितमं पद्यमवतारयति-नन्वित्यादिना । निश्चयनयोपजीविनो वेदान्तिनः सर्वेऽपि न प्रवृत्तिमूलव्यवहारमुत्सादयन्ति येन तेषां प्रवृत्तिमूलव्यवहारोच्छेदेन मिथ्यात्वं प्रसज्येत, किन्तु शुद्धद्वितब्रह्मस्वरूप स्वात्मानं जानन्तोऽपि ते नाभस्यभक्ष मादिकं यथेमाचरन्ति, तथा सति शुनां तत्वदृशां च भेद एवं न स्यादत एतादृशविचारवद्भिस्तैर्व्यवहाराव. लम्बिनी क्रिया सुरक्षितैव भवतीत्यत्र पञ्चदशीवचनमुपोलकं अनाति-बुद्धेति- पद्यमिदं स्पष्टार्थम् । इत्यादिविचारवता इत्यादिवचनोपदर्शितविचारशालिना। शुद्धनयज्ञाननिष्ठावताऽपि शुद्धो यो निश्चयनयस्तद्रूपं यज्ज्ञानं तदभिमततत्त्वज्ञानं वा तद्विषयकनिष्टावता, यदेव निश्चयनयात्मकं निश्ववनयाभिमतं वा तत्त्वज्ञानं तदेव तथ्यमिति श्रद्धावताऽपि । यश्च मुक्त्यवाप्तये प्रवर्तते वेदान्ती सोऽपि व्यवहारं न परित्यजतीत्याह-साधकेन चेति- अस्य व्यवहारापरित्यागाद' इत्यनेनान्वयः। तत्र गीताववनोपष्टम्भमाह- आरुरुक्षोरिति । इत्यादिवचनादित्यत्रादिपदेन “योगारूढस्य तस्यैव शमः कारणमुच्यते ॥” इत्युत्तरार्द्धस्य “ यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्यते। सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥" [गीता. ] इत्युत्तरपद्यस्य योगारूढलक्षकस्योपग्रहः ।
पद्यद्वयं चेदं शङ्कराचायणावतायत्थं व्याख्यातम् - " ध्यान योगत्य फलनिरपेक्षः कर्मयोगो रहिरङ्गं साधनमिति तं संन्यासत्वेन स्तुत्वाऽधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति-आरुरुक्षोरिति- आरुरुक्षोरारोहुमिच्छतोऽनारूढस्य ध्यानयोगेऽवस्थातुमशक्तस्यैवेत्यर्थः, कस्यारुरुक्षोः ? मुनेः-कर्म फलसंन्यासिन इत्यर्थः, किमारुरुक्षोः ? योग, कर्म कारणं साधनमुच्यते योगारूढस्य पुनस्तस्यैव शम उपशमः सर्वकामेभ्यो निवृत्तिः कारणं योगारूढस्वस्य साधनमुच्यत इत्यर्थः, यावद्यावत् कर्मभ्य उपरमते तावत्तावन्निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते, तथा सति स झटिति योगारूढो भवति, तथा चोक्तं व्यासेन- “नैतादृशं ब्राह्मणस्यास्ति वित्तं यथकता समता सत्यता च। शीलं स्थितिदण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥" इति ॥ ३ ॥ अथदानी कदा योगारूढो भवतीत्युच्यते- यदेति- यदा समाधीयमानचित्तो योगी हीन्द्रियार्थेषु- इन्द्रियाणामर्थाः शब्दादयस्तेष्विन्द्रियार्थषु, कर्मसु च- नित्य-नैमित्तिक-काम्य-प्रतिषिद्धेषु प्रयोजनाभावबुद्धया नानुषज्यते- अनुष-- कर्तव्यताबुद्धिं न करोतीत्यर्थः, सर्वसंकल्पसंन्यासी- सर्वान् संकल्पानिहामुत्रार्थकामहेतून् संन्यसितुं शीलमस्येति स सर्वसंकल्पसंन्यासी, योगारूढः- प्राप्तयोग इत्येतत् तदा- तस्मिन् काल उच्यते, सर्वसंकल्पसंन्यासीति वचनात् सर्वान् कामान् सर्वाणि च कर्माणि संन्यसेदित्यर्थः, संकल्पमूला हि सर्वे कामाः, "संकल्पमूलः कामो वै यज्ञाः संकल्पसम्भवाः" "काम ! जानामि ते मूलं संकल्पात् त्वं हि जायसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि"