________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः।
२४१
विनय-वैयावृत्त्यादिशुभवीर्योल्लासाधानेन सम्यक्त्वहेतुर्भवतीति ॥ ७५ ।।
भुतेऽन्यः कुरुते चान्यो, गुरुः शिष्यश्च यत्र न ।
देशना निश्चयस्यास्य, पुंसां मिथ्यात्वकारणम् ॥ ७६ ॥ नयामृत-मुझे इति । यत्र-कक्षीकृतक्षणिकत्वपक्षर्जुसूत्रादिनयवृत्तौ, अन्य एवं क्षणः कुरुते, अन्य एव च भुङ्क्ते, स्वरसत एव प्रतीत्योत्पद्यमानानां क्षणानामुपकार्योपकारकभावरहित्येन गुरुः शिष्यश्च यत्र नास्ति । अस्य निश्चयनयस्य, देशना पुंसां भवति प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः, तदुपजीविनां क्षणिकज्ञानवादिनां ब्रह्मवादिनां च मते सुतरामेव प्रवृत्तिमूलव्यवहारोच्छेदकत्वान्मिथ्यात्वम् , ये हि यावत् । स्थिरात्मद्रव्ये सति तत्र क्रियाया विहितक्रियायाः फलं स्वर्गादि, अक्रियाया निषिद्धक्रियायाः फलं नरकादि सम्भवति, यो यत् कर्म करोति स तत्कर्मफलं भुरे इत्यस्य घटमानत्वात् क्रियाऽक्रियाफलयोरौचित्यमित्यर्थः । निरुतनये गुरुशिष्यादिसतिमुपादयति-धर्मति-धर्म गृणात्युपदिशतीति व्युत्पत्या शिष्यं प्रति धर्मानुशासकतया धर्मोपदेशकत्वेनै कस्य गुरुभानोऽन्यस्य तु शिक्ष्यते इति शिष्य इति व्युत्पत्त्या उद्देश्यं यद् धर्मानुशासनलक्षणफलं तद्योगित्वा. दिना तद्वत्त्वादिना शिध्यभाव इत्येवं गुरुशिष्यादिसङ्गतिः सम्भवति । अतः सा व्यवहास्य देशना सम्यक्त्वहेतु. भवति । कथं सम्यक्त्वहेतुत्वं तस्या इत्याकासा निवृत्तये उक्तं विनयेत्यादि-विनय वैयावृत्त्यादि यच्छुभं तदनुकूलस्य वीर्योल्लासस्याधानेनोत्पादनेनेत्यर्थः ॥७५ ॥ __ निश्चयदेशनाया मिथ्यास्वकारणत्वस्योपपादकं षट्सप्ततितमं पद्यं विवृणोति- भुक्ते इतीति। यत्र यस्मिन् निश्चयनये । कथम्भूते इत्याकालायां तद्विवरणं-कक्षीकृतेत्यादि- कक्षीकृतः स्वीकृतः यत् सत् तत् क्षणिकम्' इत्येवं रूपः क्षणिकत्वपक्षो येन स कक्षीकृतक्षणिकत्वपक्षः, एवम्भूनो य ऋजुसूत्रादिनयस्तद्वतौ तन्मार्ग, यदा यत् कर्म यत् करोति तदैव तद् विनश्यति नोत्तरकालं तदनुवर्तत इति । अन्य एव फलभोक्तृतो भिन्न एव, क्षणस्थायित्वात् । क्षणः क्षण. स्वरूपः । कुरुते हितमहितं वा कर्म करोति, अन्य एव च कर्मकर्तुः क्षणिकाद् मिन्न एव च, भुड़े अन्यकर्तृककर्मफलं भुड़े एवं चास्मिन् नये क्रियाऽक्रियाफलौचित्यं न सम्भवति । यश्च बहुवित्तव्ययायाससाध्यं कर्म करोति स उत्तरकालभावि तत्कर्मफलमभिलपति, तदभिलाषेणैव विहितकर्मणि प्रवृत्तिर्भवति, यदि च क्षणिकोऽहं नोत्तरकाले स्थास्यामि, अत एव तत्फलभोगोऽपि मम न स्यादेव तहि किमर्थमहमेतत् कर्म कुर्यामिति जानन् न कश्चित् तत्र प्रवर्तत, एवं यथेष्टमभश्यभक्षणा-Sगम्यागमनादिकर्मकरणेऽपि तत्कर्तुमम क्षणिकस्योत्तरकालमस्थायित्वादेव कृतस्य निषिद्धस्य कर्मणोऽनिष्ट फलं न भविष्यतीति किमिति निषिद्धकर्म करणतो विरमामि यथेष्टमाचरामीति जानन् न कश्चिन्निषिद्धकर्मणो निवर्ततेत्येवं प्रवृत्तिनिवृत्तिनियमव्याहतिरेव स्यादित्याशयः । गुरुशिष्यादिसतिरपि नास्मिन्नये इत्याह-स्वरसत एवेति-स्वभावत एवेत्यर्थः । प्रतीत्योत्पद्यमानानाम् उत्तरोत रक्षणकुर्वद्रूपात्मकपूर्वपूर्वक्षणमपेक्ष्य जायमानानां क्षणानां क्षणिकानाम् , उपकार्योपकारकभावरहित्येन धर्मानुशासनफलसम्पादनेनोपकार्यः शिष्यः, धर्मानुशासकत्वेनोपकारको गुरुरित्येवं शिष्य-गुवार्य उपकार्योपकारकभावस्तद्राहित्येन, यो हि क्षणो धर्मस्वरूपाभिज्ञो भवति स धर्मस्वरूपाभिज्ञतत्क्षणकुर्वद्रूपात्मक पूर्वक्षणादेव तत्सन्ततिपतितान्न तु धर्मानुशासकगुरुक्षणाद् भिन्नसन्ततिगतादित्याशयः । एवं च कक्षीकृतक्षणिकत्वपक्ष सूत्रन यवृत्तौ यत्र गुरु शिष्यश्च नास्ति अयमस्य गुरुरयमस्य शिष्य इति न सम्भवति, यमुपदिशति स उपदेशकाल एव वर्तते न तत्रानुशासनफलम् , यस्य च तत् फलं न तमुपदिशति, एवममुं धर्मानुशासनेनानुगृहामीति यस्येच्छ स नोपदेशकाले वर्तत इति स न धर्मानुशासको यश्च धर्मानुशासको न तस्य निरुक्तेच्छेत्येवमपि न गुरुशिष्य सङ्गतिरस्मिन्नय इत्याशयः ।
उत्तरार्द्ध सङ्गमयति- अस्वेति- यत्पदेनानन्तरमेवाभिहितस्य । निश्चयस्पेति मूलमत्वैव तद्विवरणं-निश्चयनयस्येति । “प्रवृत्तिमूलव्यवहारोच्छेदनाहेतुः" इत्यस्य स्थाने “ प्रतिमूलव्यवहारोच्छेदनाद् मिथ्यात्वहेतुः" इति पाठो युक्तः । कथमेवमवधारणीयमित्याकाङ्क्षानिवृसये स्वाह- तदुपजीविनामिति-निश्चयनयोपजीविनामित्यर्थः ।