________________
२४०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
वर्तमान विषयाद् ऋजुसूत्राद् व्यवहारस्त्रिकालविषयालम्बित्वादनल्पार्थः ४ काला दिभेदेन भिन्नार्थोपदशिनः शब्दाद् ऋजुसूत्रस्त द्विपरीतवेदकत्वान्महार्थः ५ प्रतिपर्यायशब्दमर्थभेदमभीप्सितः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ६ प्रतिक्रियं विभिन्न मर्थे प्रति जानानादेवम्भूतात् समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः" [
] इति, एवं सति ऋजुसूत्रादेव्यवहारस्य बह्वर्थत्वेन सूक्ष्मार्थत्वं स्यात् ? इति बहुविचारसहत्वं सूक्ष्मार्थत्वम् , अल्पविचारसहत्वं च स्थूलार्थत्वमित्या दिकं वा यथासमयं परिभाषणीयम् , इत्थं च, निश्चयनया एवैतेषु शुद्धा व्यवहारनयाश्चाशुद्धा इति फलितम् , निश्चयत्वं च व्यवहार तदुपजीविनयान्यनयत्वं व्यवहार तदुपजीविनयान्यतरत्वमिति विवेकः, "अहवा सवणयमयं विणिच्छओ इगमयं च ववहारो" [विशेषावश्यकभाष्ये-गा०] इति भाष्योक्तं पक्षान्तरं च निश्चयस्य सप्तमझ्यादिविशेषिततयोपपादनीयम् , अयं च निश्चय-व्यवहारयोः शुद्धाऽशुद्धत्वोपन्यासः स्वरूपतः, फलतः शुद्धतां त्वभियुक्ता व्यवहारनये, न तु निश्चये ।।७४ ।। तथाहि--
क्रियाऽक्रियाफलौचित्यं, गुरु-शिष्यादिसङ्गतिः ।
यत्र सम्यक्त्वहेतुः सा, व्यवहारस्य देशना ॥ ७५ ॥ नयामृत-क्रियेति । यत्र-बाह्यत्वानुगतात्मद्रव्यवादिनि नये, क्रियाऽक्रियाफलयोरौचित्यं, धर्मानुशासकतयोद्देश्यधर्मानुशासनफलयोगित्वादिना च गुरु-शिष्यादिसङ्गतिः, सा व्यवहारस्य देशना भिन्नार्थविषयकात् । तद्विपरीतवेदकत्वात् कालादिभेदेऽप्यभिन्नार्थपिदर्शकत्वात् । महार्थः बहुविषयः। प्रतिपर्याय शब्द पर्यायशब्दमभिव्याप्य, एकप्रवृत्तिनिमित्तकत्वेन पराभिमता यावन्तः शब्दास्तेषां भेदेनेति यावत् । अर्थभेदमभीप्सतः अर्थभेदं स्वीकुर्वतः । “अभीप्सितः” इत्यस्य स्थाने “अभीप्सतः" इति पाठो युक्तः । तद्विपर्ययानुयायित्वात् पर्यायभेदेऽप्यर्थभेदाभ्युपगन्तृत्वात् । प्रभूतविषयः बहुविषयः । प्रतिक्रियमिति- व्युत्पत्तिनिमित्तक्रिया भेदेन विभिन्नमर्थमुररीकुर्वाणादेवम्भूतनयात् समभिरूढनयो व्युत्पत्तिनिमित्तक्रियाशून्यकालेऽपि व्युत्पत्तिनिमित्तक्रियोफ्लक्षितत्वेन तस्यैवार्थस्य व्यवस्थापकत्वाद् बहुविषय इत्यर्थः। तथा च बह्वर्थत्वमेव यदि सूक्ष्मार्थत्वं तदा व्यवहारनयस्य ऋजुसूत्रादिनयतो बर्थत्वेन सूक्ष्मार्थत्वं प्रसज्यत इत्युपसंहरति- एवं सतीति- एवं चायमस्मात् सूक्ष्मार्थ इति बुद्धिविशेषविषयत्वं सूक्ष्मार्थत्वम् , अयमस्मात् स्थूलार्थ इति वुद्धिविशेषविषयत्वं स्थूलार्थत्वमित्येवं युक्तम् । प्रकारान्तरमपि तत्रोपदर्शयति-बहुविचारसहत्वमिति । एवं सति यत् फलितं तदाह-इत्थं चेति । एतेषु नैगमादिसप्तनयेषु । एते निश्चय नयाः, इमे व्यवहारनया इति निश्चयत्व-व्यवहारत्वयोर्निवचनं विना न ज्ञातुं शक्या इति तयोविवेकमुपदर्श यति-निश्चयत्वं चेति। तदपजीवीति- व्यवहारोपजीवीत्यर्थः । “व्यवहार-तदपजीविनयान्यतरत्वमिति" अस्य स्थाने " व्यवहारत्वं व्यवहार-तदुपजीबिनथाऽन्यतरत्वमिति" इति पाठो युकः, अर्थस्तु व्यक्त एव । सर्वनयमयो निश्चयनयः, एकनयमयो व्यवहारनय इति भाष्योतविवेकस्य का गतिरित्याकालायामाह- अहवेति- “अथवा सर्वनयमत विनिश्चयः, एकनयमतं च व्यवहारः" इति संस्कृतम् । अयं चेति - "शुद्धा ह्येतेषु सूक्ष्मार्थाः” इत्यादिनोपदर्शितश्च । यदि स्वरूपतः शुद्धत्वाऽशुद्धत्वयोरुपन्यासोऽयं तर्हि फलतः शुद्धता व्यवहारनिश्चययोर्मध्ये कस्येत्याकाडानिवृत्तये उत्तरार्द्ध सङ्गमयति-फलत इति । “त्वभियुक्ता" इत्यस्य स्थाने “वाहुरभियुक्ता" इति पाटो युक्तः, अत्र अभियुक्ता इति पूरणम् , स्पष्टत्वान्न व्याख्यानमाइतम् ॥ ७४ ॥
पञ्चसप्ततितमपद्यमवतारयति-तथाहीति- व्यवहारस्त्र फलतः शुद्धतामुपदर्शयतीत्यर्थः। विवृणोति-क्रियेतीति । बाह्यत्वानुगत” इत्यस्य स्थाने " बाह्यतत्त्वानुगत" इति पाठो युक्तः । यत्रेति मूलस्य विवरण- बाह्यतत्वाऽनुगतात्मद्रव्यवादिनि नये इति- बाह्यतत्त्वमनुगतात्मद्रव्यं च वदितुम् - अस्तीत्येवं गदितुं शीलं यस्य स बाद्यतत्वानुगतात्मद्रव्यवादी तस्मिन्नये, यो नयो बाह्यशरीरादितत्त्वं पूर्वापरभवानुयाय्येकात्मद्रव्यं चाभ्युपगच्छति तस्मिन् नये इति