________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२३९
नाम्, अवगाहनात्- तावदाकाशप्रदेशमात्रावगाहनायाः समयान्तरेऽभावादित्यर्थः ।। ७२ ।।
स्वस्मिन् स्ववसति प्राहस्त्रयः शब्दनयाः पुनः।
एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना ॥७३॥ नयामृत-स्वस्मिन्निति । त्रयः शब्दानया शब्द-समभिरूद्वैवम्भूताख्या नयाः, पुनः, स्वस्मिन् स्ववसतिं प्राहुः, स्वप्रदेशष्वेव स्वस्य मुख्याया वसतेः सम्भवात् , आकाशप्रदेशानामपि परद्रव्यत्वेन तत्र स्वसम्बन्धस्य विचार्यमाणस्याघटनाद, अत एव दानं हरणादिकं तत्फलमपि चैते नयाः स्वात्मनिष्ठमेव स्वीकुर्वन्तीति दिक् । एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना शब्दतोऽर्थतश्च दर्शिते त्यागममूलत्वादस्यां दृढविश्वासो विधेय इत्यैदंपर्यम् ॥ ७३ ॥ एतैर्दृष्टान्तैरयमस्मानयाच्छुद्ध इति कथं ज्ञेयमित्याह
शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धाः स्थूलगोचराः ।
फलतः शुद्धतां वाहुर्व्यवहारे न निश्चये ॥ ७४ ॥ नयामृत०-शुद्धा हीति । एतेषु नयेपूक्तदृष्टान्तरीत्या ये यतः सूक्ष्मार्थास्ते ततः शुद्धाः, ये च यतः स्थूलगोचरास्ते ततोऽशुद्धाः, सूक्ष्मत्वं स्थूलत्वं चार्थानां तादृशतादृशबुद्धिविषयत्वेनानुगमनीयम् , न तु बह्वल्पविषयभावेन, तथा सत्युत्तरोत्तरेभ्यः पूर्व पूर्वेषां सूक्ष्मार्थत्वप्राप्तेः, यत उक्तम्-" पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः १ सन्मात्रगोचरात् सङ्ग्रहान्नैगमो भावाभावभूमिकत्वात् भूमविषयः २ सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः ३
सहव्यः, वीर्थप्रधानः सयोगो वीर्यसयोगः, सचासौ सद्व्यश्चेति विग्रहः, तद्धावस्तत्ता तया । प्रतिसमयमिति पूरणम् । अन्यान्यक्षेत्रस्य इत्यस्य स्पष्टीकरणम् - अपरापराकाशप्रदेशानामिति । फलितमाह- तावदाकाशेति ॥ ७२ ॥
साम्प्रत-समभिरूढैवम्भूताख्यानां त्रयाणां शब्दनयानां वसतिनिदर्शने एकस्यैवाभ्युपगमप्रकारस्योपदर्शकं त्रिसप्तति. तमपद्य विवृणोति- स्वस्मिन्नितीति । कथं स्वस्मिन्नेव स्ववसतिमभ्युपगच्छतीत्याकाङ्कायामाह-स्वप्रदेशेग्वेवेति । तत्र आकाशप्रदेशेषु । अत एव स्वभिन्ने स्वसम्बन्धस्य विचार्यमाणस्याघटनादेव 1 “दानं हरणादिक" इत्यस्य स्थाने "दान-हरणादिकं ” इति पाठः सम्यग् । तत्फलमपि दान-हरणादिजन्यफलमपि । पते नया: शब्द-समभिरूढैव. म्भूताख्या: शब्दनयाः । उत्तरार्द्धमुल्लिरूप योजयति-एषेति । अन्यत् स्पष्टम् ॥ ७३ ॥
चतुःसप्ततितमं पद्यमवतारयति-पतैरिति- अनन्तरमभिहितः, प्रदेश-प्रस्थक-वसत्यभिरूयै रित्यर्थः । इत्याह इत्याकाक्षायामाह । विवृणोति-शुद्धा हीतीति । तादृशतादृशवुद्धिविषयत्वेनानुगमनीयमिति-- अयमस्मात् सूक्ष्मोऽर्थ इत्याकारकबुद्धिविषयत्वेन सूक्ष्मत्वम् , अयमस्मात् स्थूलोऽर्थ इत्याकारकबुद्धिविषयत्वेन स्थूलत्वं चानुगमनीयमित्यर्थः। न स्वितिबहुविषयकत्वं सूक्ष्मार्थत्वमपविषयकत्वं स्थूलार्थत्वमित्येवं सूक्ष्मार्थत्व स्थूलार्थत्वयोरनुगमनं न सम्भवतीत्यर्थः । निषेधे हेतुमाहतथा सतीति-बहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवमनुगमने सतीत्यर्थः । उत्तरोत्तरेभ्य इतिसङ्घहनयान्नैगमस्य व्यवहारनयात् सङ्गहस्य ऋजुसूत्रनयाद् व्यवहारस्य शब्दनयाद् ऋजुसूत्रस्य सूक्ष्मार्थत्त्रप्रसङ्गादित्यर्थः । उत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वं पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्याल्पविषयत्वमित्यत्र प्राचीनोक्तिसंवादमाह - यत उक्तमिति । सामान्यतः पूर्वपूर्वनयस्य बहुविषयत्वमुत्तरोत्तरनयस्याल्पविषयत्वमुपदर्शितं तदेव विशेषतो नामग्राहं दर्शयति सन्मात्रगोचरादिति- सन्मात्रेत्यत्र मात्रपदेनासतो व्यवच्छेदः । भावाभावभूमिकत्वात् सदसद्विषयकत्वात् । भूमविषयः बहुविषयः । अनल्पार्थः बहुविषयः। कालादीत्यादिपदेन लिङ्गसंख्याग्रहणम् । भिन्नार्थोपर्शिनः