________________
२३८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
प्राचीननैयायिकानामर्धजरतीयमपि निरस्तम् , उभयत्रापि योगक्षेमतौल्यादिति दिक् ।
ऋजुत्रः-ऋजुसूत्रनयः, खे-आकाशे, स्वस्यावगाहनकृत्सु प्रदेशेषु वसतिं ब्रूते-येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्तेष्वेवायं तद्वासमभ्युपैति, संस्तारके तद्वसत्यभ्युपगमे तु गृहकोणादावपि तदुपगमप्रसङ्गः, संस्तारकावच्छिन्नव्योमप्रदेशेषु संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तेष्वपि तद्वसतिभणनमुपपद्यते इति स्वावगाहनपर्यन्तानुधावनम् , संस्तारक-गृहकोणादौ देवदत्तवसतिव्यवहारस्तु प्रत्यासत्तिदोषोद्धान्तिमूलक एवेत्येतदभिप्रायः ।। ७१ ॥ तत्रापि विशेषमाह
तेष्वप्यभीष्टसमये न पुनः समयान्तरे ।
चलोपकरणत्वेनान्यान्यक्षेत्रावगाहनात् ।। ७२ ॥ नयामृत-तेष्वपीति । तेष्वपि-स्वावगाढेष्वाकाशप्रदेशेष्वपि, अभीष्टसमये-विवक्षितवर्तमान. काले, वसतिः, न पुनः समयान्तरे-भिन्नकाले, अतीतानागतयोः कालयोरेतन्मतेऽसत्त्वात् , तथा चलोपकरणत्वेन-वीर्यसंयोगसद्व्यतया करणचापल्येन, प्रतिसमयमन्यान्यक्षेत्रस्य -अपरापराकाशप्रदेशास्वीकारादित्यनेन देशावच्छेदेन देशवृत्तित्वस्य व्यवच्छेदः, तेन यावत्सु देशेषु कर्मणां सद्भावे देशिनि व्याप्यवृत्तिकर्मस्वीकारेऽपि न क्षतिः। अर्धजरतीयं यथा गोरर्धभागो नवीनोऽर्धभागश्च वृद्ध इत्येतदसम्भवदुक्तिकं तथा वृक्षे संयोगोऽव्याप्यवृत्तिर्न तु कमेंत्यप्यसम्भवदुक्तिकमित्यभिमानमात्रम्, इत्थमप्यभ्युपगत निरस्तमित्यर्थः । उभयत्रापि संयोगे कर्मणि च । योगक्षेमतौल्यादिति-यादृशप्रतीत्या संयोगस्याव्याप्यत्तित्वमुपपाद्यते तादृशप्रतीत्या कर्मणोऽप्यव्याप्यवृत्तित्वमुपपादयितुं शक्यमेव, एकत्र तथा प्रतीतिर्भवति, अन्यत्र न भवतीत्याग्रहविजम्भितमेव, देशदेशिनोरभेद एव, देशदेशिभावस्य कल्पितत्वादिति कर्मण इव संयोगस्यापि व्याप्यवृत्तित्वमेवास्थ्यमित्येवं युक्तिप्रपञ्चसाम्यादित्यर्थः ।
उत्सराई विवृणोति-ऋजुसूत्र इति। फलितार्थमाह- येष्विति । तेष्वेव देवदत्ताव गाढाकाशप्रदेशेष्वेव, अयम् ऋजुसूत्रनयः, तद्वासं देवदत्तावासम् , ते स्वीकरोति, स्वावगाढाकाशप्रदेशेष्वेव देवदत्तो वसति संस्तारकोपरीत्येवम् ऋजुसूत्रनयोऽभ्युपगच्छतीत्यर्थः । सङ्ग्रहाभ्युपगम दूषयति-संस्तारक इति । तद्वसत्यभ्युपगमे देवदत्तवासाभ्युपगमे। तदुपगमप्रसङ्गः देवदत्तवसत्यभ्युपगमप्रसङ्ग । तेष्वपि संस्तारकावच्छिन्नव्योम प्रदेशेष्वपि । तद्वसति. भणनं देवदत्तवसतिवचनं देवदत्तः सस्तारकावच्छिन्नव्योमप्रदेशेषु वसतीत्येवरूपम् । नन्वेवं देवदत्तः संस्तारकोपरि वसति गृहकोणे वसतीत्यादिव्यवहारोऽपि भवति स कथमुपपद्यत इत्यत आह-संस्तारक-गृहकोणादाविति-आदि पदाद् गृह-पाटलीपुत्रादिपरिप्रहः । “प्रत्यासत्तिदोषोद्धान्ति" इत्यस्य स्थाने "प्रत्यासत्तिदोषाद् भ्रान्ति" इति पाठः सम्यग् , देवदत्तावगाडाकाश प्रदेशप्रत्यासत्तिः सन्निकृष्ट तालक्षणा संस्तारके, तत्प्रत्यासत्तिर्गृहकोणे तत्प्रत्यासत्ति है, तत्प्रत्यासत्तिः पाटलीपुत्रादावित्येवं प्रत्यासत्तिपरम्परालक्षणो यो दोषस्तस्मात् , संस्तारकादौ या देवदत्तनिवास भ्रान्तिस्तन्मूलक एवतन्निबन्धन एव संस्तारक-गृह-कोशादौ देवदत्तवसतिव्यवहार इति ऋजुसूत्रनयाभिप्राय इत्यर्थः ॥ ७ ॥
द्विसप्ततितमं पद्यमवतारयति-तत्रापीति-स्वावगाढाकाशप्रदेशेष्वपीत्यर्थः । विवृणोति-तेष्वपीति । तेष्वपीति मूलस्य विवरण-स्वावगाढेष्वाकाशप्रदेशेष्वपीति। अभीष्टसमये इति मूलस्य विवरणं-विवक्षितवर्तमानकाल इति । वसतिरिति प्रकरणप्राप्तम् । समयान्तरे इति मूलस्य विवरणं-भिन्नकाले इति । कथं न समयान्तरे वसतिरित्याकालायामाह- अतीता-नागतयोरिति । एतन्मते ऋजुसूत्रनयमते । समयान्तरे वसत्यभाव एव हेतोरुपदर्शकमुत्तरार्द्ध व्याख्यानयति-तथेति । चलोपकरणत्वेनेति मूलस्य विवरणं-वीर्यसंयोगसव्यतया करणचापल्यनेति। “वीर्यसंयोगसदद्रव्यतया” इत्यस्य स्थाने “ वीर्यसयोगसदृश्यतया" इति पाठो युक्तः, वीर्य-वीर्यान्तरायक्षयादिकृता शक्तिः, योगा:-मन:प्रभृतयः, सह योगैर्वतत इति सयोगः सन्ति-विद्यमानानि द्रव्याणि- तथाविधपुदला यस्य जीवस्यासौ