SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । एवोभयत्र वासप्रयुक्तवृत्तिमत्यर्धवासित्वमपि व्यवह्रियते, बहुकालप्रतिबद्धतगतगृहकुटुम्बादिस्वामित्व एव तत्र वसधातोर्लक्षणा, ततोऽपचत्यपि पाचक इति (वत्) प्रायेण तत्रावसत्यपि तद्वासीति प्रयोगसम्भवेऽपि[ अपचतीतिवदवसति वसतीत्यध्य ] नानुपपत्तिः, नन्वित्वरकालीनवासप्रयुक्तवृत्तिभागित्वेनापि बसतीति प्रयोगप्रसङ्गः, इत्यपि युक्तमाभाति ॥ ७० ॥ सङ्ग्रहो वसतिं ब्रूते, जन्तोः संस्तारकोपरि । २३७ ऋजुसूत्रः प्रदेशेषु, स्वावगाहनकृत्सु खे ॥ ७१ ॥ नयामृत० - सङ्ग्रह इति । सङ्ग्रहः - सङ्ग्रहनयो जन्तोः संस्तारकोपरि वसतिं ब्रूते - संस्तारकारूढ एव वसतीत्यभ्युपैति, अन्यत्र हि वासार्थस्यैवाघटमानत्वात्, अत एव मूले वृक्षः कपिसंयोगीत्यत्राप्येतन्मते मूलाभिन्नो वृक्षः कपिसंयोगीत्येवार्थ:, अत एव च - 'मूलं कपिसंयोगि न वृक्ष इति प्रतीतिसाम्मुख्यम्, अत एव चोक्तप्रतीत्या संयोगस्य व्याप्यवृत्तित्वं न तु कर्मणस्तस्य देशवृत्तित्वस्वीकारात्' इति च वसति तस्मिन् पाटलीपुर - तदन्यग्रामोभयास प्रयुक्तवृत्तिमति पुरुषे, अर्धवासित्वमपि व्यवह्रियते अयं पुरुषः पाटलीपुरे अर्धवासीत्येवं व्यवहियते, अपिशब्दात् पाटलीपुरे वसतीति व्यवहियते इत्यस्य सङ्ग्रहः । अन्यत्र गते पाटलीपुरवासित्वव्यवहारस्योपपादक प्रकारान्तरमुपदर्शयति बहुकालेवि बहुकालप्रतिबद्धो वहुकालव्याप्त सम्बन्धो यस्तद्गतः - पाटलीपुत्रगतो गृहकुटुम्बादिस्तत्स्वामित्वे एव । तत्र अयं पाटलीपुरवासीति प्रयोगे, वसधातोर्लक्षणेत्यर्थः । ततः बहुकालप्रतिबद्धतद्गतगृहकुटुम्बादिस्वामित्वे वसधातोर्लक्षणातः । अपचत्यपीति- यो बहुकालं पचति तस्मिन् कदाचिदपचत्यपि यथाऽयं पाचक इति प्रयोगस्तथा बहुकालं यो यत्र वसति, गृहकुटुम्बादिरपि यस्य तत्र वर्तते तस्मिन् कदाचित् तत्रावसत्यपि तद्वास्ययमिति प्रयोगसम्भवेऽपि अपचति कदाचिदपचति पचतीतिप्रयोगवत् कदाचिदवसति वसतीति प्रयोगस्य नानुपपत्तिरित्यर्थः, पाचक इति वत् ] प्रायेण " इत्यस्य स्थाने "पाचक इति प्रयोगवत्" इति पाठो युक्तः, "[ अपचतीतिवदवसति वसतीत्यध्य ]" इत्यस्य स्थाने अपचति पचतीतिवदवसति वसतीत्यस्य " इति पाठो युक्त: 1 " नन्वित्वरकालीन इत्यस्य स्थाने " न त्वित्वरकालीन " इति पाठः सम्यग् न तु इत्यस्य ' प्रयोगप्रसङ्गः' इत्यनेनान्वयः । "भागित्वेनापि " इत्यस्य स्थाने "भागित्वेनावसत्यपि " इति पाठ: समीचीनः । इत्वरकालीनेति - स्वल्पकालीनेत्यर्थः यः खलु स्वल्पकालमेव पाटलीपुरे निवासमेत्य कस्यचिद् गृहादेस्स्वामित्वमासादितवान् बहुकालं त्वम्यत्रैव निवसति तस्मिन्नन्यत्र गते पाटलीपुरेऽवसति सति स्वल्पकालीनपाटलीपुरवा सप्रयुक्त वृत्तिभागित्वेन पाटलीपुरे वसतीति प्रयोगप्रसङ्गो न त्वित्यर्थः । इत्यपि अनन्तरोपदिष्टं पद्यानुपदिष्टप्रकारान्तरमपि । युक्तमाभाति युक्तमेवास्माकं मनसि भासते ॥ ७० ॥ 66 1 1 " वसतिनिदर्शने सङ्ग्रहर्जुसूत्रनययोरभिमतभेदोपदर्शक मे कसप्ततितमपद्यं विवृणोति-सङ्घद्द इतीति । फलितार्थमाह - संस्तार• कारूढ एवेति । अन्यत्र संस्तारकभिने । हि यतः । अत एव सङ्ग्रहनयमते यस्य यद्देशावच्छेदेन संयोगस्तस्य तद्देश एव वृत्तित्वमित्यभ्युपगमादेव । एतन्मते सङ्ग्रहनयमते । अर्थ : मूले वृक्षः कपिसंयोगीत्यस्यार्थः । अत एव यद्देशावच्छेदेन संयोग प्रतीतिः सा तद्देशाभिन्न एव संयोगप्रतीतिस्वरूपैवेत्यभ्युपगमादेव, एवमग्रेऽपि । प्रतीतिसाम्मुख्यं प्रतीत्या सहाविरोधः । अत एवेत्यस्य निरस्तमित्यनेनान्वयः । उक्तप्रतीत्या मूले वृक्षः कपिसंयोगीति प्रतीत्या । 'संयोगस्य व्याप्यवृतित्वं " इत्यस्य स्थाने “ संयोगस्याव्याप्यवृत्तित्वं " इति पाठो युक्तः, उक्तप्रतीतिर्मूलावच्छेदेन वृक्षे कपिसंयोगावगाहिनी न तु मूलाभिन्नवृक्षे कपिसंयोगावगाहिनी, अवयवावयविनोर्भेदादिति मूलस्य वृक्षवृत्तिकपिसंयोगावच्छेदकत्वं तदैव भवितुमर्हति यदि वृक्षे कपिसंयोग-तदभावौ वर्तेते, विरोधिनोर्भावयोरेकत्र वृत्त्यर्थमवच्छेदकभेदाश्रयणादिति भवत्युक्तप्रतीतिबलात् संयोगस्याव्याप्यवृत्तित्वमित्यर्थः । न तु कर्मण इति कर्मणोऽव्याप्यवृत्तित्वं नाभ्युपगम्यते इत्यर्थः यावदवयवेषु कर्मणो भव एवावयविि कर्मोपयते, तथा च मूलादावेकैकस्मिन्नवयवं कर्मभावेऽपि वृक्षो निष्कम्प एव न हि भवति मूले वृक्षः कम्पते इति प्रतीतिः किन्तु वृक्षस्य मूलं कम्पते न तु वृक्ष इत्येव प्रतीतिरुपजायते इत्याशयः । तस्य कर्मणः, देशवृत्तित्व
SR No.008445
Book TitleNayopadesha Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy