________________
२३६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता ।
वसत्यद्य न सोऽत्रेति, व्यवहारौचिती ततः ॥ ६९ ॥ नयामृत-तदर्थः-वसन वसतीत्यस्यार्थः, तत्र-पाटलीपुरे, तस्य-देवदत्तस्य, तत्कालावच्छिन्ना-वर्तमानकालावच्छिन्ना, वृत्तिता-स्वत्वप्रयुक्तयथेष्टविनियोगरूपा, तथा च वसन् वसतीत्यस्य वर्तमानकालावच्छिन्नवृत्तितावान् वसतीतिक्रियारूपप्रतिपाद्य इति लक्षणयार्थः कर्त्तव्य इत्यर्थः । ततः-तदर्थकरणादेव, पाटलीपुरादेकस्मिन् दिनेऽन्यत्र गते देवदत्ते ‘अद्य सोऽत्र न वसति' इति व्यवहारस्यौचित्यम् , अन्यथा पाटलीपुरपदे तद्गृहपदेऽपि(च) तद्वासितां देवदत्तस्य(च) रूप लक्षण]. लक्षणां कालघटितामादाय स व्यवहारो न स्यादित्यर्थः ॥ ६९॥ नन्वेवमन्यत्र गतेऽप्ययं पाटलीपुरवासीति कथं व्यवहार इत्यत्राह
यत् त्वन्यत्र गतस्यापि, तद्वासित्वं निगद्यते ।
तद्वासवृत्तिभागित्वे, ज्ञेयं तत् त्वौपचारिकम् ॥ ७० ॥ नयामृत०-यविति । यत्त्वन्यत्र गतस्यापि, तद्वासिस्व-पाटलीपुरवासित्वम् , निगद्यते तन्निगदं तु, तद्बासवृत्तिभागित्वे-पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे, औपचारिक लाक्षणिकं ज्ञेयम् , अत
एकोनसप्ततितमपद्यमवतारयति-नन्वित्यादिना। तत्र वसन् वसतीति वाक्यप्रयोगकर्तरि । विवृणोति-तदर्थ इतिअत्र तच्छब्देन बसन् वसतीति वाक्यस्य परामर्श इत्यभिप्रायेण तद्विवरण- वसन् वसतीत्यस्यार्थ इति । तत्रेति मूलस्य विवरण-पाटलीपुरे इति । तस्येत्यस्य विवरण- देवदत्तस्येति । तत्कालावच्छिन्नेत्यस्य विवरण- वर्तमानकालावच्छिन्नेति । वृत्तितेत्यस्य विवरण- स्वत्वप्रयुक्तयथेष्टविनियोगरूपेति-अतिथिरप्यन्यस्य गृहं गत्वा तत्र कश्चित् काले तिष्ठति, एवमहमप्यत्र वसामीति न ब्रते, यत्काल स तत्र तिष्ठति तत्कालात्मकवर्तमानकालावच्छिन्ना आधेयतारूपा तद्हनिरूपिता वृत्तिता तु तस्य समस्त्यतो वृत्तिताया उक्तस्वरूपतया निर्वचनम् । एवं चान्यस्वामिकगृहग्रामादावन्यस्यातिथ्यादेः स्वत्वाभावात् तत्प्रयुक्तो यथेष्टविनियोगो न सम्भवति, यस्य तु देवदत्तादेस्तत्र स्वत्वं तस्य स्वत्वप्रयुक्तो यथेष्ट. विनियोग सम्भवतीति तद्रपा तस्य तत्र वृत्तिता घटनामाप्नोतीत्याशयः । तथा च उक्तदिशा प्रत्येक शब्दनिर्वचने च । वर्तमानकालावच्छिन्नवृत्तितावान् ‘वसन्' इत्यस्यार्थः, वसतीत्यस्य वसतीत्येवं यत् क्रियारूपं तत्प्रतिपाद्य इत्यर्थः । उक्कार्थः शब्दशक्तिमहिम्ना न सम्भवतीत्युक्तं- लक्षणयेति । इत्यर्थः एवंस्वरूपः पूर्वार्द्धस्यार्थः । ___उत्तरार्द्ध विवृणोति-तत इति- अस्य तदर्थकरणादेवेति विवरणम् । अद्येत्यादिमूलसङ्गमनाय 'पाटलीपुरादे कस्मिन् दिनेऽन्यत्र गते देवदत्ते' इति पूरणम् , निरुक्तव्यवहारस्य पाटलीपुरे तत्कालावच्छिन्नवृत्तित्वस्य देव. दत्तेऽभावादौचित्यं निर्वहतीति । अन्यथा वर्तमानकालावच्छिन्न स्वत्वप्रयुक्तयथेष्टविनियोगरूपवृत्तित्वस्य वसत्यर्थतयाऽनाश्र
पुरपदे पाटलीपुरात्मकस्थाने । तदगृहपदेऽपि च पाटलीपुरान्तर्गतदेवदत्तनिवासगृहात्मकस्थानेऽपि च । तद्वासितां पाटलीपुरवासितां पाटलीपुरान्तर्गतगृहवासितां वा । “देवदत्तस्य [च रूपलक्षण ] लक्षणां" इत्यस्य स्थाने "देवदत्तस्य स्वत्वलक्षणां" इति पाठो युक्तः। कालघटिताम् एत दिवस घटिताम् । व्यवहारः अद्य सोऽत्र न वसतीति व्यवहारः । न स्यात् ग्रामान्तरगतस्यापि देवदत्तस्य नामान्तरावस्थानदिवसेऽपि स्वपुरस्वगृहादौ स्वत्वमस्त्येवेति तन्निषेधव्यवहारो न भवेत् । इत्यर्थः एवंस्वरूप उत्तरार्थिः ।। ६९ ॥
सप्ततितमपद्यमवतारयति-नन्वमिति । विवृणोति-यस्वितीति । तत् त्वित्यस्य विवरण - तन्निगदं स्वितिपाटलीपुरवासित्ववचनं पुनरित्यर्थः । पाटलीति -पाटलीपुरवासनिबन्धना या वृत्तिः- स्वधनपुत्रादिस्वामित्वलक्षणा, तद्भागित्वे- तदाश्रयत्वे इत्यर्थः । औपचारिकमिति मूलस्य विवरण- लाक्षणिकम् । अत एव पाटलीपुरवासित्ववचनस्य पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे लाक्षणिकत्वादेव । उभयत्र पाटलीपुरे मामान्तरे च, यः पुरुषः पाटलीपुरे नामान्तरे