________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
२३५
भेदादेवोभयोपपत्तिरिति चेत् ? वर्हि तादृशतात्पर्यभेद एवोपचाराऽनुपचारप्रयोजक आस्थीयताम् । कान्यविनिर्मोकेणान्वयोपपत्तो किं शुद्धद्वारेणेति चेत् ? देशाग्रहे तद्विनिर्मोक एव कथम् ? पदशक्त्यनुपग्रहादिति चेत् ? न-स्कन्धपरस्य वृक्षपदस्यैकत्वपरिणतिरूपस्कन्धपदार्थेनैवोपग्रहात् ; भेदविनिर्मुण्ठित एव वृक्षपदार्थ आश्रीयत इति चेत् ? न-अनुभवबाधेन तथाश्रयणायोगादिति दिक् । प्रयोगे केत्याद्याकालाबाहुल्याऽबाहुल्यकृतं विशुद्ध्य शुद्धिवैचित्र्य मित्यन्ये । अतिशुद्धौ तु तौ नैगम व्ययहारनयो वसन् वसतीत्याहतुः स्म, व्युपरताकाङ्क्षाप्रयोगकर्तृत्वादनयोरतिविशुद्धत्वम् ॥ ६८ ॥
ननु वसन् वसतीति वाक्यं गच्छन् गच्छतीति(वाक्य )वनिराकाङ्क्षतयाऽप्रमाणमिति कथं तत्रातिविशुद्धत्वमित्याशङ्कायामाहतात्पर्य यच्च व्यापकत्व विशिष्टसम्बन्धेन संसर्गबोधेऽन्वयबोधे तात्पर्य तयोर्मेदादेव, उभयोपपत्तिः- वृक्षे कपिसंयोग इति वृक्षे न कपिसंयोग इति प्रयोगद्वयोपपत्तिरित्यर्थः, यत एव कृत्स्नवृक्षे कपिसंयोगस्य समवायो न विद्यते किन्तु तदेकदेश एवं तत एव वृक्षपदेन वृक्षदेश एवोपचारादाश्रित इति तत्र कपिसंयोगस्थ समवायो वृक्षे देशाभेदारोपत उपचारादिति तत्र तात्पर्यम् , निषेधे तु व्यापकत्वविशिष्ट समवायस्याभावादेवोपचारमन्तरेण तत्र तात्पर्यमित्येवं तात्पर्यभेद उपचारानुपचारयोरेव प्रयोजकः स्वीक्रियतामिति समाधत्ते-तहीति । ननु वृक्षे ऋषिसंयोग इत्यत्र वृक्षे कृत्स्नत्वं परित्यज्यैव कपिसंयोगस्यान्वयबोध इत्येतावतैवोपपत्ती निरुक्ततात्पर्यभेदोऽपि नाश्रित इति कुत उपचारप्रवेश इत्याशङ्कवे--कात्स्य विनिमोकणेति- कात्स्म्येपरित्यागेनेत्यर्थः । अन्वयोपपत्तो। वृक्ष कपिसंयोगस्यान्वयोपपत्तौ । किशुद्धद्वारेण? शुद्धसम्ब न्धेनान्वयबोधे तात्पर्यतोऽन्वयोपपादनेन । वृक्षे कपिसंयोग इत्यत्र वृक्षपदं न सम्पूर्णवृक्षपर किन्तु वृक्षकदेशपरमित्येवं प्रहे सत्येव कात्स्न्यविनिर्मोको नान्यथेति देशप्रह आवश्यकः, स च नोपचारमन्तरेणेत्युपचरित एव वृक्षे कपिसंयोग इति समाधत्ते-देशाग्रहे इति । कथमित्यत्र च्छेदः । देशाग्रहेऽपि वृक्षपदस्य सामान्यतः कात्स्यादिविशेषणविनिर्मुक्त वृक्ष शक्तिरिति शक्त्यैव कार्यविनिर्मुक्तवृक्षोपस्थितिसम्भवान्न देशग्रहस्यावश्यकतेति शङ्कते- पदशक्तयेति- "पदशक्त्यनुपग्रहाद" इत्यस्य स्थाने "पदशक्त्युपग्रहाद्" इति “पदशक्त्यनुग्रहाद्" इति वा पाठोऽत्र समुचितः, कार्यविनिर्मुक्कवृक्षे वृक्षपदस्य शक्तिबलादेव कात्स्यविनिर्मोक इति न तत्र देशग्रहापेक्षेति तदर्थः। प्रकारान्तराभावेन वृक्षपदन
क्षैकदेशाग्रहणे सर्वेषां मुल-शाखा-प्रशाखानामेकस्कन्धरूपतया या परिणतिः सैव वृक्षपदार्थस्तत्रैव वृक्षपदस्य शक्तिरिति तदुपस्थापिते तत्र कपिसंयोगस्यान्वयासम्भवादनुपचरितो वृक्षे कपिसंयोग इति प्रयोगो न सम्भवत्येवेति देशग्रहार्थमुपचार आवश्यक इति समाधत्ते-नेति ! स्कन्धपरस्य स्कन्धशक्तस्य । एकत्वपरिणतिरूपेति- वृक्षाव यवान मूलादीनामेकतया या परिणतिस्तदात्मकेत्यर्थः । ननु वृक्षपदार्थेनोपग्रहो ममापि सम्मतः किन्तु वृक्षपदार्थो न वृकदेशरूपो नवा कृल्लवृक्षरूपोऽपि तु तद्विनिर्मुक्तो वृक्ष एव केवल इत्यादशङ्कते-भेदविनिटुंठित एवेति-- कृत्स्नैकदेशलक्षणभेदरहित एवेत्यर्थः । प्रत्यक्षादिप्रमाणेन कृत्स्नवृक्षोऽनुभूयते तदैकदेशो वाऽनुभूयते, न तु भेदविनिर्लठित वृक्षमात्रमित्यसतस्तदाश्रयणा. सम्भवादिति समाधत्ते- नेति । तथाश्रयणेति-भेदविनिलुठितवृक्षपदार्थाश्रयणेत्यर्थः । लोके वसामीत्युक्ते केत्याकाङ्क्षाबाहुल्यम् , तदपेक्षया किञ्चिन्न्यूनमाकासाबाहुल्यं तिर्यग्लोके वसामोत्यत्र, तदपेक्षया न्यूना काला समुदयो जम्बूद्वीपे वसामीत्यत्र, तदपेक्षयाऽपि न्यून:-क्वेत्याकासासमुदयो भारते वसामीत्यत्र, एवमुत्तरोत्तरं न्यूनः केत्याकाङ्क्षासमुदय इत्येवं केत्याद्याकाङ्क्षाबाहुल्याबाहुल्यकृतं तथाऽभ्युयमन्तृनैगम व्यवहारभेदानां विशुद्धयशुद्धिवैचित्र्यमित्यभ्युपगच्छता मतमुपदर्शयति-प्रयोग इति । __ उत्तरार्द्धं विवृणोति अतिशुद्धी विति । ताविति मूलस्य व्याख्यान- नैगम-व्यवहारनयाविति । कथं वसन् वसतीति प्रयोगको गम व्यवहारनययोरतिशुद्धत्वमित्याकाढायामाह-व्युपरतेति-व्युपरता निवृत्ताऽऽकाला यत्र स व्यु. परताकार एवम्भूतो यः प्रयोगो निवसन् वसतीत्येवंरूपस्तरकर्तृत्वात् . अनयोः नैगम-व्यवहारनययोः, अतिविशद्धत्वं लोके वसामीति प्रयोगकर्तृनैगमाद्यपेक्षया शुद्धत्वं तिर्यग्लोके वसामीति प्रयोगकोंः , तदपेक्षया शुद्धत्वं जम्बूद्वीपे वसामीति प्रयोगकोः , एवमुत्तरोत्तरक्रमेण सर्वापक्षया विशुद्धत्वं वसन् वसतीति प्रयोगको गमव्यवहारयोरित्यर्थः ॥६॥