________________
२३४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
नयामृत०-गृहे इति-गृहपर्यन्तवसतिविषया नैगम-व्यवहारभेदा उदाहरणीयाः। नन्वा. धारता आधारस्वरूपा तत्संयोगस्वरूपा वा ? उभयथापि गृहकोण इव लोकेऽप्येकक्षेत्रतया तदविशेषात् किं विशुद्धितारतम्यम् ?, नपत्र प्रस्थकन्यायवद् गौणमुख्यकृतो विषय विशेषोऽस्तीति चेत् ? सत्यम्देवदत्तसंयोगपर्यायपरिणतगृहकोणक्षेत्रस्याखण्डक्षेत्राद् धर्मभेदादेशेन पृथक्कृतस्य यथाक्रमं गुरुगुरुतर. विषये अभेदोपचारेण विशुद्ध्यपकर्षसम्भवात् , अन्यथा लोके वसामीत्यन्वयस्यैवानुपपत्तिः, नहि कृत्स्ने लोके देवदत्तवसतिरस्ति, न च विनोपचारं कृत्स्नलोकरूढाल्लोकपदात् तद्देशोपस्थितिरस्ति; हन्तैवं वृक्षे कपिसंयोग इत्यत्राप्युपचारः स्यादिति चेत् ? कः किमाह ?, स्यादेव, कथमन्यथा वृक्षे न किमपिसंयोगः किन्तु तद्देश इत्यनुपचरितः प्रयोगः, शुद्धसम्बन्ध-व्यापकत्वविशिष्टसम्बन्धसंसर्गबोधतात्पर्य
एकवाक्यस्वरूपत्वेन युग्मात्मके पद्यद्वये सप्तषष्टितमपद्य व्याख्यायाष्टषष्टितमपद्यं विवृणोति-गृहे इतीति । पद्ये "कोणं” इत्यस्य स्थाने "कोणे" इति पाठो युक्तः, 'वसतेः कोणे' इत्यस्य गृहस्य कोणे' इत्यर्थः । सर्वेषां सप्तम्यन्तानां वसतीस्यनेन सम्बन्धः। फलितार्थमावेदयति-- गृहपर्यन्तेति- अत्र 'गृहकोणपर्यन्त' इति पाठो युक्तः । शङ्कले नन्विति । तत्संयोगरूपा आधारेण सहाधेयस्य यः संयोगस्तदात्मिका। उभयथाऽपि आधारस्वरूपत्वे तत्संयोगस्वरूपत्वेऽपि च । तदविशेषात् आधारत्वस्य सर्वत्राविशिष्टत्वात् । 'नहि' इत्यस्य ‘अस्ति' इत्यनेनान्वयः । सत्र वसतिष्टान्ते । समाधत्ते सत्यमिति । देवदत्तेति- देवदत्तेन सह यः संयोगलक्षण: पर्यायस्तदात्मना परिणतं यद् गृहकोणात्मक क्षेत्रं तस्य, अखण्डक्षेत्राद्- अधर्मास्तिकायव्याप्ताकाशात्मकलोकादिलक्षणक्षेत्राद्, धर्मभेदादेशेन - धर्मभेदाश्रयणेन, पृथक्कृतस्य- धर्मभेदाद् धर्मिभेद इति न्यायतो विभिन्नतामितस्य, यथाक्रम- देवदत्तवसतेर्मुख्यमाधारक्षेत्रं गृहकोण लक्षणं तदपेक्षया गुरु गृहम् , तत्र गृहकोणत्याभेदोपचारेण गृहस्य देवदत्तवसतेराधारक्षेत्रत्वम्, एवं गृहापेक्षया पाटलीपुरपत्तनं गुर्विति तद्गृहकोणापेक्षया गुरुतरम्, तत्र गृहकोणत्याभेदोपचारेणस्येवं क्रमेण गुरुगुरुतरविषये मुख्याधारगृहकोणाभेदोपचारेण, अर्थाद् गृहादिकं गृहकोणाभेदारोपाद् देवदतवसत्या धारक्षेत्र न तु तदनुपचाराद्, अनुपचारतस्तु गृहकोण एव तदाधार इत्येवं मुख्य गौगकृतस्यात्रापि विशुद्धयपकर्षस्य सम्भवादित्यर्थः। अन्यथा मुख्याधारस्य गृहकोणस्य गृहादारभ्य लोकपर्यन्तमभेदारोपस्यानाश्रयणे। अखण्डक्षेत्रलोकादिवाचकलोकादिक्षदाल्लोकादेरेवोपस्थितिनं तु गृहकोणस्य, लोकादेश्च कृत्स्नस्य न देवदत्तवसत्याधारत्वमिति लोके सामि तिर्यग्लोके वसामीत्यादिप्रयोगोऽन्वयानुपपत्त्या न स्यादित्याह- लोक इति- लोके वसामीत्युपलक्षणं तिर्यग्लोके वसामीत्यादेरपि । 'नदि इत्यस्य 'अस्ति' इत्यनेनान्वयः । न च' इत्यस्य 'अस्ति' इत्यनेनान्वयः। ननु कृत्स्नस्य वृक्षस्यापि न कषिसंयोगाधारत्वं किन्तु तदवयवस्य शाखाविशेषस्यैव, शाखाविशेषस्य च न कृत्न. वृक्षवाचिवृक्षपदा विनोपचारमुपस्थितिरित्यन्वयानुपपत्त्या वृक्षे कपिसंयोग इत्यत्रापि वृक्षस्य तद्देशेऽभेदारोपतो वृक्षपदस्य तद्देश उपचारः स्यादित्याशङ्कते- हन्तैवमिति । यत एव वृक्षे कपिसंयोग इत्युपचरितः प्रयोगस्तत एच वृक्षे न कपिसंयोग: किन्तु तद्देशे इत्यनुपचरितः प्रयोग उपपद्यते, अन्यथाऽखण्डवृक्षत्वरूपे कपिसंयोगस्य सद्भावे वृक्षे न कपिसंयोग इत्येव न स्यात् प्रतियोगिना सममत्यन्ताभावस्य विरोधादिति समाधत्ते - काकिमाहेति- कः प्रमाता, किं ब्रवीति, न कोऽपि वृक्षे कपिसंयोग इत्यत्र नोपचार इति ब्रवीतीत्यर्थः । स्यादेव वृक्षे कपिसंयोग इत्यत्राप्युपचारः स्यादेव । 'कथम्' इत्यस्य 'अनुपचरितः प्रयोगः' इत्यत्रान्वयः। अन्यथा वृक्षे कपिसंयोग इत्यत्रोपचाराभावे । “किर्माप संयोगः" इत्यस्य स्थाने "कपिसंयोग" इति पाठो युक्तः । ननु उपचारानाश्रयणेऽपि वृक्षे कपिसंयोग इत्यत्र शुद्धसमवायलक्षणसम्बन्धन वृक्षे कपिसंयोगबोधने निरुक्तवाक्यतात्पर्यमिति शुद्धसमवायो बृक्षे कपिसंयोगस्य वर्तते इति वृक्षे कपिसंयोग इत्यनुपचरित: प्रयोग उपपद्यते, वृक्षे न कपिसंयोग इत्यत्र वृक्षव्यापकत्वविशिष्टसमवायसम्बन्धेन वृक्षे कपिसंयोगस्य निषेधबोधने वृक्षे न कपि. संयोग इति वाक्यस्य तात्पर्यमिति वृक्षव्यापकत्वविशिष्टसमवायसम्बन्धावच्छिन्न कपिसंयोगनिष्ठप्रतियोगिताकाभावस्य वृक्ष सदाबाद वृक्षे न कपिसंयोग इत्यप्यनुपचारितः प्रयोगः, वृक्षदेशे कपिसंयोग इत्यस्यापि वृक्षदेशव्यापकत्वविशिष्टसमवायसम्बन्धेन वृक्षदेशे कपिसंयोगबोधने तात्पर्य , वृक्षदेशे कपिसंयोगस्य तद्व्यापकत्वविशिष्ट समवायसम्बन्धस्य सद्भावादनुपचरितस्तत्प्रयोग उपपद्यत इति न कुत्राप्युपचाराश्रयणकृत्यमित्याशङ्कते-शुद्धसम्बन्धेति-शुद्धसम्बन्धेन यत्संसर्गबोधे