________________
२४४
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः |
तदितरा इति स्वरूपतो बलवानपि निश्चयनयः स्तोकानामुपकारकत्वाद् बहूनां चापकारकस्वाञ्चक्रवर्तिभोजनमिव फलतोऽनर्थनिबन्धनमिति भावः ॥ ७७ ॥
आमे घटे यथा न्यस्तं, जलं खघटनाशकृत् ।
तथाऽपरिणते शिष्ये, रहस्यं नयगोचरम् ॥ ७८॥ नयामृत-आमे घट इति-स्पष्टम् ॥ ७८ ॥
पृथक्त्वे नाधिकारस्तन्नयानां कालिकश्रुते ।
अधिकारस्त्रिभिः प्रायो, नये व्युत्पत्तिमिच्छताम् ॥ ७९ ॥ नयामृत-पृथक्त्व इति । तत्-तस्मात् कारणाद् बहूपकारोद्देशेनैव देशनायाः प्रवृत्तेः, सूक्ष्मनयानां च बहनुपकारकत्वात् कालिकश्रुते पृथक्त्वे-अनुयोगचतुष्टयपृथक्करणे सति, नयानां सर्वेषां नयानामधिकारो नास्ति योजनायामिति शेषः, किं सर्वथैव नाधिकारो ? नेत्याह-त्रिभिः-नैगम-सङ्ग्रहव्यवहारैर्नयैः प्रायोऽधिकारो व्युत्पत्तिमिच्छतां-शिष्याणां हितमिति शेषः, तथा च पारमर्षम्
" एएहिं दिट्ठीवाए परुवणा सुत्तअत्थकहणाय ।
इह पुण अणभुवगमो अहिगारो तीहि उ भगंति ॥” [आवश्यके गा० ७६० ] । पृथक्त्वे ह्यविभागस्थैनेयः सूचनामात्रसन्निविष्टैः मूढनयिकं श्रुतमिति न तत्र सर्वनयविवेचनाधिकारः, अपृथक्त्वे तु बहूनां शिष्याणां परिणामकत्वात् तद्धितो बहुत्वेन विभागस्थैर्नयैरमूढनये सूत्रे सर्वनय. व्युत्पादनमासीदेवेति भावः । तदुक्तं--- किञ्चिद् विद्यते इति स्वरूपोपरञ्जके तस्मिन् विशेषणे सति यत्रापि पुरुषे हितावहत्वं सूक्ष्मार्थनयानां सोऽपि पुरुषोऽतिपारिणामिक एवेति निषेधार्थस्य चाघटमानत्वात् प्रकृतोपयोगिनं तदर्थमाह- अपवादैकरुचाविति- विधायक शास्त्र सामा न्यशास्त्रं तथार्थसङ्कोचकरणाय यद्विशेषशास्त्रं तदपवादशास्त्रं तदर्थे एकाऽद्वितीया रुचिः श्रद्धा यस्य सोऽपवादैकरुचिस्तस्मिन् पुरुषेऽपि, सूक्ष्मार्था नया हितावहा न भवन्तीत्यर्थः । परिणामकानां स्वल्पत्वात् तदुपकारकत्वेऽपि स्वरूपतो बलवतो निश्चयनयस्य बहूनामपरिणामकानामतिपारिणामिकानां चापकारकत्वाचक्रवर्तिभोजनस्येवानर्थहेतुत्वमिति फलतो न शुद्धत्वं तस्य किन्तु व्यवहारस्यैव फलतः शुद्धत्वमित्याह- स्तोकाश्चेति । तदितराः" इत्यस्य स्थाने "तदितरे " इति पाठः। परिणामकभिन्ना अपरिणामका अतिपरिणामकाश्च ॥ ७ ॥
ऐदम्पर्यायार्थविषयकश्रद्धाशून्ये शिष्ये निश्चयनयविषयगोचर उपदेशोऽनर्थहेतुरित्येतत्प्रतिपादकमष्टसप्ततितमपद्यं स्पष्टार्थत्वान विवरणाहमित्याह- आमे घट इति-स्पष्टमिति ।। ७८॥
कालिकश्रत व्याख्यायां निश्चयनयस्य नाधिकारी व्यवहारनयस्य त्वधिकार इत्यावेदकमेकोनाशीतितमपयं विवृणोतिपृथकूत्व इतीति । तदिति मुलस्य विवरणं-तस्मात् कारणादिति । तस्मात् कारणादित्यनेन किमुक्तं भवतीत्यपेक्षायां तस्यैव विशिष्य स्वरूपमुपवर्णयति- बहूपकारोद्देशेनैवेति- बहूपकारोद्देशेनैव देशनायाः प्रवृत्तः, सूक्ष्मनयानां च बहनुपकारकत्वादित्येतस्मात् कारणादित्यर्थः । कालिकधते इति प्रसिद्धत्वान्न व्याख्यातम् । प्रथक्त्वे इति मूलस्य विवरणम्-अनुपयोगवतुष्टयपृथक्करणे सतीति। नयानामित्यस्य विवरणं- सर्वेषां नयनामिति। कुत्राधिकारो नास्तीत्यपेक्षायां योजनायामिति शेषः, योजनालक्षणव्याख्याने सर्वेषां नयानामधिकारो नास्तीत्यर्थः । उत्तरार्द्ध व्याख्यातुमवतारयति-किमिति । उक्तार्थे परमर्षिवचनं प्रमाणयति-तथा चेति । एहि इति-"एईि दृष्टिवादे प्ररूपणासूत्रार्थकथनाय । इह पुनरनभ्युपगमोऽधिकारस्त्रिभिस्तु भण्यते ॥” इति संस्कृतम् । भावार्थमावेदयति-पृथक्त्वे हीत्यादि । मृढनयिक अविज्ञातनयकम्, अनेन नयेनेदं श्रुतं प्रवृत्तमित्येवं न ज्ञायत इति । तत्र अविज्ञातनयके