________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२३१
-
-
विशेषेण तत्र तत्र व्यावृत्तिविशेषरूपसामान्याभ्युपगमं विना न निर्वाह इति । प्रकृते कार्यकरणकाले. व्यावृत्तिविशेषरूपप्रस्थकत्वसामान्याभावाभ्युपगमे न क्षतिरिति किमतिप्रपश्चितेन ॥ ६५ ॥
प्रस्थकश्चर्जुसूत्रस्य, मानं मेयमिति द्वयं ।
न ज्ञ-कर्तृगताद् भावाच्छब्दानां सोऽतिरिच्यते ॥ ६६ ॥ नयामृत०-प्रस्थकश्चेति-ऋजुसूत्रस्य मानं मेयं चेति द्वयमेव प्रस्थकस्वरूपम् , तन्मेयधान्ये च समवहित एव प्रस्थकव्यवहाराद् एकतरविनाभावे तत्परिच्छेदासम्भवात् , किन, मेयारूढः प्रस्थकत्वेन व्यपदेश्य इति सहनयमते मेयारूढः प्रस्थकारूढं मेयं वा तथेत्यत्र विनिगमकाभावादुभयत्रैव प्रस्थकपदशासज्यवृत्तित्वं युक्तम् , कथं तर्हि प्रस्थकेन धान्यं मीयत इति प्रयोगः, एकत्रोभयवाचकपदेनैकस्यानुपस्थानादिति चेत् ? न- एतन्नयेन कथञ्चित् प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन विवक्षाभेदात् करणरूपानुप्रवेशस्यापि सम्भवान्न तदनुपपत्तिरिति द्रष्टव्यम् । तस्मान्नैयायिकादिपरिकसितमतिरिक्तसामान्यं न सम्भवत्येव, कित्वनुगतप्रीतिकार्यकारणभावं घटादिशब्दैकार्थत्वाद्यनुरोधेनातयावृत्तिविशेषरूपमेव घटत्वादिसामान्यमभ्युपगन्तव्यम् , मापनकार्याकरणकाले च प्रस्थकव्यक्तौ तादृशस्यापि प्रस्थकत्वसामान्यस्याभ्युपगमे न किञ्चित्प्रयोजनमिति प्रस्थकत्वसामान्याभावाभ्युपगमोऽपि न दोषावह इत्युपसहरति-इति नविशेषणति । प्रकृते प्रस्थके । अन्यत् स्पष्टम् ।। ६५ ॥
प्रस्थके नजुसूत्रनयाभ्युगमविशेषस्य साम्प्रतसमभिरूद्वैवम्भूततन्त्रयात्मकशब्दनयाभ्युपगमविशेषस्य चोपदर्शक षट्षष्टितमपद्यं विवृणोति-प्रस्थकश्चेतीति। केवलं मान मेयं वा कथं न प्रस्थकस्वरूपमित्याकालायामाह- तन्मेयधान्ये इति- प्रस्थकमानमेयधान्य इत्यर्थः। 'समवहित एव' इत्येवकारेण मेयधान्यासमवहिते प्रस्थके प्रस्थकन्यवहारो न भवतीत्यर्थो ज्ञापितः । कथं मेयधान्यसमवहित एवं प्रस्थ के प्रस्थकव्यवहारो भवन्नपि प्रामाणिकैरुपादेय इत्यपेक्षायामाहएकतरविनाभाव इति- मानमेययोरेकतरस्याभावे इत्यर्थः । तत्परिच्छेदासम्भवादिति- इदं प्रस्थ कमितं धान्यं, प्रस्थकमितधान्यमापकश्चायं प्रस्थक इत्येवं निश्चयस्यासम्भवादित्यर्थः। मानं मेयं द्वयं प्रस्थकपदवाच्यमिति युक्त्यन्तरेण व्यवस्थापयति-किञ्चति । 'मेयारूढः' इत्यत्र मेयमारूढं यं स मेयारूढ इति बहुव्रीहिः, प्रस्थक इति दृश्यम् , एवमप्रेऽपि । प्रस्थकारूढमित्यत्र प्रस्थ के आरूढं प्रस्थकारूढमिति सप्तमीतत्पुरुषः । तथा प्रस्थकत्वेन व्यपदेश्यः । उभयत्रैव मान-मेयोभयस्मिन्नेव, एवकारेण मानमाने मेयमात्रे च प्रस्थकपदशक्यवच्छेदः। ननु प्रस्थकपदशक्तेर्मानमेयोभयस्मिन्नेव व्यासज्यवृत्तिवे प्रस्थकपादात् तदुभयस्यै गोपस्थितिर्न केवलस्य मानविशेषरूपस्य प्रस्थकस्योपस्थितिः, प्रस्थकपदजन्योपस्थिती च मापनक्रियाकरणत्वेनैव प्रस्थकस्य भानमिति तस्य करणत्ववोधिका तृतीयाऽपि पृथक्कया करणत्वोपस्थापिका न युक्तति केवलमापके प्रस्थके 'प्रस्थकेन धान्यं मीयते ' इति वाक्ये प्रस्यकपदप्रयोगोऽनुपपन्न इत्याशङ्कतेकथं तहीति । 'प्रयोगः, एकत्रोभय" इत्यस्य स्थाने 'प्रयोग एकत्र, उभय' इति पाठो युक्तः, एकत्र प्रयोगः कथमित्यन्वयः, एकत्रेत्यस्य मानमाने प्रस्थके इत्यर्थः । कथं न प्रयोग इत्यपेक्षायामाह-उभयेति-मानमेयोभयवाचक. प्रस्थकपदनैकस्य मानमात्रस्यानुपस्थापनादित्यर्थः । समाधत्ते-नेति । एतन्नयन ऋजुसूत्रन येन, 'कथञ्चिद' इत्यस्य • अव्यासज्यवृत्तित्वेन' इत्यनेनान्वयः, “प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन" इत्यस्य स्थाने "प्रस्थकपदशक्यतावच्छेदकस्याव्यासज्यवृत्तित्वेन” इति पाठो युक्तः, "करणरूपानुप्रवेशस्थापि" इत्यस्य स्थाने " करणरूपाननुप्रवेशस्यापि” इति पाठः सम्यक, तथा च ऋजुसूत्रनयेन प्रस्थकपदशक्यतावच्छेदकस्य प्रस्थकात्मकमापनकरण-धान्याद्यात्मकमेयगतद्वित्वस्य कथञ्चिदन्यासज्यवृत्तित्वेन प्रत्येकावच्छेदेन माने मेये च वृत्तित्वेन प्रस्थकपदेन मापनकरणत्वेनोपलक्षितस्य प्रस्थ कस्वरूपस्य विवक्षातः करणवमनुपादाय प्रस्थकपदजन्योपस्थितौ प्रस्थकस्वरूपमात्रमानलक्षणस्य करणरूपाननुप्रवेशस्यापि सम्मवात् प्रस्थकपदोत्तरतृतीयाविभक्त्यैव करणत्यस्योपस्थितिसम्भवेन 'प्रस्थकेन धान्यं मीयते' इति वाक्यात् प्रस्थ कनिष्ठ करणतानिरूपकमापनक्रियाकर्म धान्यमिति बोधस्य सम्भवेन न 'प्रस्थ केन धान्य मीयते' इति वाक्य तृतीयान्तप्रस्थकपदप्रयोगानुपपत्तिरित्येवं ज्ञातव्यमित्यर्थः ।