________________
न्यामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
शब्दानां - शब्द समभिरूदैवम्भूताख्यानां त्रयाणां नयानाम्, मते सः - प्रस्थकः, ज्ञ-कर्तृगतात् भावाद् नातिरिच्यते- न भिद्यते, शश्च कर्त्ता च ज्ञ कर्तारौ, ज्ञ-कत्रर्गतो ज्ञ कर्तृगतस्तस्मादिति समासः, प्रस्थकाकारज्ञगतात् प्रस्थककर्तृगताद् वा प्रस्थकोपयोगादतिरिक्तं प्रस्थकं ते न सहन्ते, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वायोगाद् बाह्यप्रस्थकस्याप्यनुपलम्भकाले असस्वेनोपयोगान तिरेकाश्रयणादन्ततो ज्ञानाऽद्वैतनयपर्यवसानादू वा । न च ज्ञाना-ऽज्ञानात्मकत्वो भयनय विषयसमावेशविरोधात् प्रत्येकमनयत्वमाशङ्कनीयम्, तादात्म्ये नो भयरूपास मावेशेऽपि विषयत्व तादात्म्याभ्यां तदुभयसमावेशात्; ' विषयत्वमपि कथचित्तादात्म्यम्' इति तु नयान्तराकूतम्, यदाश्रयेण " अर्थाऽभिधान प्रत्ययास्तुल्यनामवेयाः " इति प्राचीनैर्गीयत दिक् || ६६ ॥
२३२
शब्दनयत्रयमन्तव्योपदर्शकमुत्तरार्धं विवृणोति शब्दानामिति - अस्य विवरणम् - शब्द- समभिरूढैवम्भूताख्यानां त्रयाणां नयानामिति, 'मते' इति पूरणम् स इत्यस्य विवरणम् - प्रस्थक इति । नातिरिच्यते इत्यस्य विवरणम् - न भिद्यत इति । कर्तृगतादित्यत्र समासः कीदृश इत्याकाङ्क्षायामाह - ज्ञश्च कर्ता च श-कर्तारावितिअयमितरेतरयोग द्वन्द्वः ज्ञ-कत्रोर्गतो ज्ञकर्तृगत इति तत्पुरुषः तथा च द्वन्द्वगर्भस्तत्पुरुषसमासो ऽत्रेत्याशयः । एवं सति उत्तरार्द्धस्य यः पर्यवसितोऽर्थस्तमुपदर्शयति- प्रस्थकाकारक्षगतादिति । भावादित्यस्यार्थकथनम्- प्रस्थकोपयोगादिति । ते शब्द-समभिरूदैवम्भूताख्वास्त्रयः शब्दनयाः । न सहन्ते नाभ्युपमच्छन्ति । कथं न सहन्ते ? इत्याकाङ्क्षायामाह - निश्चयमानात्मक प्रस्थ कस्वेति- इदं प्रस्थकमितं धान्यमित्या कारकनिश्चयस्वरूपं यन्मानं तदात्मकस्य प्रस्थकस्येत्यर्थः । जडवृत्तित्वायोगात् पौद्गुलिकत्वेन जडात्मको यो वामप्रस्थ कावयवीभूतः काष्ठखण्डस्तद्वृत्तित्वासम्भवात् । ननु निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वासम्भवेऽपि बाह्यप्रस्थकस्य जडवृत्तित्त्वमस्त्येवेति स एवं ज्ञकर्तृगताद् भावादतिरिक्त: प्रस्थ कोऽस्त्वित्यत आह- बाह्यप्रस्थकस्यापीति यो यदैवोपलभ्यते स तदैवास्ति यदा च नोपलभ्यते तदा नास्त्येवेति नियमेन प्रमाणाभावादनुपलम्भकाले बाह्यप्रस्थकस्यासत्त्वेन यो येन सहैवोपलभ्यते स तदात्मक इति व्याया स्वोपयोगेन सहैवोपलभ्यमानस्य बाह्यप्रस्थकस्योपयोगाभेदाभ्युपगमात् प्रस्थकोपयोगादतिरिक्तः प्रस्थको न भवतीत्येवं शब्दनया अभ्युपगच्छन्तीत्यर्थः । ननु यो येन सहेोपलभ्यते तदात्मक एवेति व्याप्रकारे घटादयोऽपि पदार्था ज्ञानेन सहैवोपलभ्यमाना ज्ञानात्मका एवं प्रसज्येरन्निति सर्वं ज्ञानात्मकमित्यभ्युपगन्तुर्योगाचारस्य मते प्रवेशः शब्दनयानां स्यादित्यनेष्टापादनमेव समाधानमित्याशयेनाह - अन्तत इति प्रकारान्तरेण प्रस्थकस्योपयोगात्मकत्वसाधना सम्भवत इत्यर्थः । ननु सङ्ग्रहादयो नयाः प्रस्थकस्य ज्ञानानात्मकत्वं पूत्कुर्वन्ति, शब्दनयाश्च तस्य ज्ञानात्मकत्वं स्वीकुर्वन्ति, न चैकस्य वस्तुनो ज्ञानाज्ञानात्मकत्वोभयसम्भव इति वस्तुगत्या प्रस्थकस्य ज्ञानात्मकत्वे अज्ञानात्मकत्वग्राहिनयस्यानयत्वमज्ञानात्मकत्वे ज्ञानात्मकत्व ग्राहिन यस्यानयत्वं प्रसज्यत इत्याशा प्रतिक्षिपति न चेति अस्य ' आशङ्कनीयम्' इत्यनेनान्वयः । यद्यज्ञानरूपत्वं प्रस्थकस्य तदा विषयत्वलक्षणसम्बन्धेन ज्ञानरूपस्य तादात्म्यलक्षण सम्बन्धेनाज्ञानरूपस्य तत्र समावेशः, यदि च ज्ञानरूपत्वमेव तस्य तदाऽपि स्वस्यैव स्वविषयत्वमिति तद्वादे स्वीकारेण विषयत्वलक्षणसम्बन्धेन तादात्म्यलक्षणसम्बन्धेन च ज्ञानरूपस्य तद्वादे अज्ञानरूपं सर्व ज्ञाने समारोपितमिति आरोप्यस्याधिष्ठाने आध्यासिकतादात्म्यमेव सम्बन्ध इति तादात्म्यलक्षणसम्बन्धेनाज्ञानरूपस्य समावेश इति न प्रत्येकमनयत्वप्रसङ्ग इति निषेधहेतुमुपदर्शयति- तादात्म्येनेतिअनाध्यासिकतादात्म्यमात्रेणेत्यर्थः । उभयरूपेति - ज्ञानाज्ञानोभयरूपेत्यर्थ । विषयत्व तादात्म्याभ्यामिति - प्रस्थकस्य जडात्मकत्वे ज्ञानस्य विपयत्वसम्बन्धेनाज्ञानस्य तादात्म्येनेत्येवमुभयरूपसमावेशस्य प्रस्थकस्य ज्ञानात्मकत्वे स्वसंवेदनं ज्ञानमिति ज्ञानस्य विषयत्व - तादात्म्याभ्यामज्ञानस्य विषयत्वसम्बन्धाभावेऽप्याध्यासिकतादात्म्यं ज्ञाने समस्तीति तद्रूपतादारम्यसम्बन्धेनेत्येवमुभयरूपसमावेशस्य च सम्भवादित्यर्थः । ननु सर्वस्य वस्तुनो ज्ञानात्मकत्वमिति योगाचारमतात्रयणेन प्रस्थकस्य ज्ञानात्मकत्वोपपादने तादात्म्यसम्बन्ध एव केवलोऽवतिष्ठत इति कथं तत्र विषयत्वस्य सम्बन्धता, येन विषयत्व तादात्म्याभ्यामुभयरूपसमा वैशव वनमित्यत आह विषयत्वमपीति । यदाश्रयेण नयान्तराभिप्रायाश्रयेण । तुल्यनामधेया एकसंज्ञाभिधेयाः, प्रतिपाद्यानामर्थाभिधान - प्रत्ययानां भेदे तत्प्रतिपादकस्य शब्दस्यापि भेदः स्यात् यदा