________________
२३०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
किमाविष्क्रियते अननुगतानां जातीनामिव व्यक्तीनामप्यसौ सादृश्येनैवानुगमसंभवेन जात्युच्छेदापत्तिः, घटपदस्य नानार्थत्वे स्पष्ट एव लौकिकव्यवहारबाधश्च ।
घटत्वादिकमेकत्ववृत्त्येव मृत्त्वादिकमेव वा तथा, कुम्भकार-स्वर्णकारादेर्विजातीयकृतिमत्त्वेन चक्रादि(लोह)वर्तुलादेश्च कथञ्चिद्विजातीयव्यापारकत्वेन हेतुत्वमित्यादिनवीनकल्पना तु दोषादेकत्वाग्रहेऽपि घटस्वादिग्रहात् ,एकत्वस्यैकत्वात् ,प्रसिद्धरूपेण कार्यकारणभावोच्छेदे व्यवहारविलोपाच्चानुपपन्ना, इति नय
वरमतिरिक्त जातिमस्वीकृत्यैव सौसादृश्येन व्यक्तो नामनुगमनम्, तत एव चानुगतप्रतीतिरिति सर्वत्र जातेरभ्युपगमने न किश्चित् प्रयोजनमिति मार्दद-सौवर्णघटादिषु सौसादृश्येनानुगतप्रतीतिमभ्युपगच्छद्धिनैयायिका दिभिर्जातिमात्राय जलाअलिरेव वितीर्णा स्यात् , यथा च सौवर्ण-मार्दवादिघटेष्वेकस्य घटत्वसामान्यस्याभावे नानाथत्वं तथा गोत्वादिजात्यभावेऽपि गवादिपदानां नानार्थत्वमेवास्त्वित्यतोऽपि जात्युच्छेदापत्तिः स्वहस्तितैव स्यादित्यर्थः । 'व्यक्तीनामयसी' इत्यस्य स्थाने " व्यकोनामपि सौ" इति पाठो युक्तः । घटपदस्यैकप्रवृत्तिनिमित्तकरवलक्षणमेकार्थत्वमेव लौकिकैर्व्यवह्रियते, तस्य नानाप्रवृत्तिनिमित्तकत्व लक्षणनानार्थत्वाभ्युपगमे तदाधोऽपीत्याह-लौकिकव्यवहारबाधश्चेति । घटत्वे मृत्त्वादिजातिसाङ्कर्यपरिहाराय स्वर्णघटादौ चकादीनां कुम्भकारादीनो चैककारणत्वोपपत्तये या नवीनानां कल्पना तामुपन्यस्य दूषयति-घटत्वादिकमेकत्ववृत्त्येवेतिमार्दव-सौवर्णादिघटगतैकत्ववृत्त्यैत्र घटत्वादिकम् , तस्य च मृत्त्वसुवर्णत्वादिना सामानाधिकरण्याभावान्न साङ्कर्यम् , तस्य स्वाश्रयैकत्ववश्व सम्बन्धेनेव वृत्तित्वम् , तस्य तेनैव सम्बन्धेन घटोऽयं घटोऽयमित्यनुगतप्रतीतिनिबन्यनत्वमित्यनुगतप्रतीत्युपपत्तिः, उक्तपरम्परासम्बन्धेनैवैकत्ववृत्तेरपि घटत्वजातेर्घटपदप्रवृत्तिनिमित्तत्वमित्येकार्थत्वव्यवहारोपपत्तिश्चेत्यर्थः । वा अथवा । मृत्त्वादिकमेवेति-आदिपदात्, स्वर्णत्वादेः परिग्रहः, एवकारेण घटत्वादेरेकत्ववृत्तित्वस्य व्यवच्छेदः । तथा घटादिगतैकत्ववृत्तिः, एवमपि घटत्वस्य न मृत्वादिना साङ्कर्यम् , घटत्वं हि घटात्मकद्रव्ये वर्तते, मृत्त्वादिकं च न घटात्मकद्रव्ये केन्तु तद्गतैकरवे, एवं च तयोः सामानाधिकरण्याभावात् कुतः सार्थम् , एवमभ्युपगमे घटादिद्रव्ये मृत्वादिप्रतीतिः स्वाश्रयैकत्वसम्बन्धेन, घटोऽयं घटोऽयमित्यनुगतप्रतीतिनियामकत्वं च घटस्वस्य समवायसम्बन्धेनैव, तेनैव सम्बधेन घटत्वस्य घटपद प्रवृत्तिनिमित्तत्वमपीति न घटपदत्य नानार्थत्वप्रसङ्गोऽपीति भावः । या मार्दवघटानुकूला कुम्भकारे कृतिः, या च सौवर्णादिघटानुकूला स्वर्णकारादिगता कृतिस्तत्र सर्वत्र वैजात्यविशेष उपेयते, तादृशवैजात्यविशेषाकलितकृतिमत्त्वेन कुम्भकार-स्वर्णकारादेरेकघटत्वावच्छिनं प्रत्येकमेव कारणत्वमुपेयत इति न व्यतिरेक्रव्यभिचारोऽपि, एवं चक्रादेशव्यापारेण । मार्दवघटो जायते, लोहवर्तुलादेश्च यादृशव्यापारेण सौवर्णादिघटो जायते, तत्र सर्वत्र व्यापारे वैजात्यविशेष उपेयते, तादृशजात्यविशेषाकलितव्यापारवत्त्वेन चक्रादेलोहवर्तुलादेश्चैकघटत्वावच्छिन्नं प्रत्येकमेव कारणत्वमुपेयत इति नात्रापि व्यतिरेकव्यभिचार इति न नानाकारणत्वप्रसङ्ग इत्याह- कुम्भकार-स्वर्णकारादेरिति - कुम्भकार-स्वर्णकारादेर्विजातीयकृतिमत्त्वेन हेतुत्वमित्यन्वयः, हेतुत्वमित्यस्य घटत्वावच्छिन्नं प्रति हेतुत्वमित्यर्थः । इत्यादिनवीनकल्पना तु' इत्यस्य 'अनुपपन्ना' इत्यनेनान्वयः। अनुपपन्नत्वे हेतुमाह-दोषादेकत्वाग्रहेऽपीनि-घटत्वादेर्मृत्वादेर्वा सार्यपरिहाराय घटादिगतकत्ववृत्तित्वं यत् परिकल्प्यते तन्न युक्तं धर्मिज्ञाने सत्येव तद्वतधर्मस्य ज्ञानमिति नियमेन घटादिगतकत्वज्ञाने सत्येव घटत्वादिज्ञानं यदि भवेत् तदा घटस्वोदेरकत्ववृत्तित्वं सम्भाव्येतापि, न चैवम् , समूहगतत्वादिदोषाद् घटादावे फत्वस्याग्रहेऽपि घटत्वादेग्रहादित्यर्थः । किञ्च व्यक्तोनामने कत्वे सत्येत्रानुगतप्रतीत्यनुरोधेन तत्र जातिः परिकल्प्यते, अत एव नित्यत्वे सत्यनेकसमवेतत्वमिति जातिलक्षणं तत्र समनुगतं भवतीति, प्रकृते तु घटोऽयं घटोऽयमित्यनुगतप्रतीतिबलाद् यथा घटत्वादिकमे तथाऽयमेकोऽयमेक इत्यनुगतप्रतीतिब लादेकत्वमपि घटपटादिगतमेकमेव भवितुमतीति न तत्रैकव्यक्तिकत्वाजातिकल्पना भद्रेत्याह-एकत्वस्यकत्वादिति । यदपि कुम्भकार-स्वर्णकारादिगतघटानुकूल कृतिगतं वैजात्यमुररीकृत्य विजातीयकृतिमत्त्वेन कुम्भकारस्वर्णकारादेरेकघटत्वावच्छिन्नं प्रति कारणत्वमेकं परिकल्पितम् . तथा चक्रादिव्यापार-लोहवतुलादिव्यापारगतचेजात्यविशेषपरिकल्पनापुरस्सरं विजातीयव्यापारवत्वेनैकधर्मेण चक्रादेर्लोह वर्तुलादेश्चकघटत्वावच्छिन्नं प्रत्येककारणत्यपरिकल्पनम, तदुभयमपि न युक्तम् , कुम्भकारकत्वादिना घटत्वादिना प्रसिद्धरूपेण चक्रत्वादिना घटत्वादिना प्रसिद्धेन रूपेण कार्यकारणभावस्य व्यवाहिय माणस्यैवं सत्युच्छेदे व्यवहारविलोपप्रसङ्गादित्याह-प्रसिद्धरूपेणेति ।