________________
नयामृततरङ्गिणी-तरहिणीतरणिभ्यां समलतो नयोपदेशः ।
चार्थक्रियाकारि-तदकारिप्रस्थकव्यक्तिभेदार्थ क्रियाजनकप्रस्थकव्यक्तौ प्रस्थकस्वसामान्यमपि नास्तीत्यभ्युपगमेऽपि न कश्चिद् दोषः।
वस्तुतो व्यावृत्तिविशेषाद्यतिरिक्तेन नैयायिकादिकल्पितसामान्येन ( न ) कचिदपि निर्वाहस्तन्मते घटत्वादिसामान्यस्यापि समर्थयितुमशक्यत्वात् , मृत्-स्वर्ण-रजत-पाषाणादिघटेषु मृत्त्व-स्वर्णत्वा दिना साङ्कर्येण तदसिद्धेः, अस्तु मृत्त्व-स्वर्णत्वा दिव्याप्यं नानैव घटत्वम् , कुलाल-स्वर्णकारजन्यतावच्छेदकतया तन्नानात्वस्यावश्यकत्वात् , नहि स्वर्णघटादौ चक्रादिकं मृद्घटादौ च लोहवर्तुलादिकं हेतुः, अनुगतधीस्तु कथश्चिदसौ सादृश्यात्, घटपदं तु नानार्थकमित्यभ्युपगमे कथश्चिदित्याद्यनिर्वचनेनैवाशक्तिः
योति।
जनिकायो प्रस्थकरवसामान्यस्य नास्तित्वाभ्युपगमे ऽपि न कश्चिद् दोषः, तत्र प्रस्थकत्व प्रतीतिर्दोषादेवेत्यर्थः । यदप्यतया वृत्तिव्यतिरिक्तं सामान्य घटत्वादिकं नैयायिकादिभिरभ्युपगम्यते तदपि विचारं न सहत इति प्रस्थकत्वसामान्य तथाभूतम. विचाररमणीयमेवेति सङ्ग्रहनयाकूतमुपदर्शयति-वस्तुत इति । व्यावृत्तिविशेषेति- अघटव्यावृत्त्यपटव्यावृत्त्यादिरूपव्यावृत्तिविशेषेत्यर्थः, आदिपदात् तत्तदर्थक्रियाजनकत्वाद्यपग्रहः । न कचिदपि निर्वाहः प्रस्थक एवं प्रस्थकत्वसामान्यमत. द्यावृत्तिविशेषातिरिक्तं न सम्भवतीत्येवं न, किन्तु घट-पटादावपि घटत्व-पटत्वादिसामान्यमतरावृत्तिविशेषातिरिक्तं न सम्भवतीत्याशयः। कथं न निर्वाह इत्यपेक्षायामाह- तन्मत इति- नैगमनयप्रभवनैयायिकादिमत इत्यर्थः । साङ्कर्यस्य जातिबाधकले नेयायिकादिभिरु गतम् , घटत्वादावरि साथ समस्तीखतो न घटत्वादिसामान्यसिद्धिरित्याह-मृ 'मृत्त्व-स्वर्णत्वादिना' इत्यत्रादिपदाद् रजतत्व-पाषाणस्वादेरुपग्रहः, मृत्वाभाववति सौवर्णादिघटे घटत्वं वर्तते, घटत्वाभाववति मार्दवशरावादी मृत्त्वं वर्तत इत्येवं परस्परात्यन्ताभावसामानाधिकरण्यम् , मार्दवघटे च मृत्त्वमपि वर्तते घटत्वमपि वर्तत इति तयोः सामानाधिकरण्यमित्येवं मृत्त्वेन सह घटत्वस्य सार्यम् , तथा स्वर्णत्वाभाववति मार्दवादिघटे घटत्वं वर्तते. घटत्वाभाववति काञ्चनकटक-केयरादौ स्वर्णत्वं वर्तत इत्येवं परसरात्यन्ताभावसमानाधिकरण्यम, सौवर्णघटे च स्वर्णत्वं च घटत्वं च वर्तत इति तयोः सामानाधिकरध्यमित्येवं स्वर्णत्वेन सह घटत्वस्य सार्यम् , अनयैव दिशा रजतत्वादिनाऽपि घटरवस्य सार्यमित्येवं साङ्कर्येण घटत्वादिसामान्यस्यासिद्धरित्यर्थः । सार्थभयाद् घटत्वादेर्मृत्वादिव्याप्यस्य नानारूपस्य घटादिपदस्य नानार्थकस्य चाभ्युपगमे जात्युच्छेदापत्तिलौकिकव्यवहारबाधश्चेत्युपदर्शयति- अस्त्विति । नानाघटत्वाभ्युपगमो न निष्प्रमाणक इत्यावेदनायाह-कुलालेति-कुलालं विनाऽपि सौवर्णघटस्य स्वर्णकारं विनाऽपि मार्दवघटस्य भावेन व्यतिरेकव्यभिचाराद् घटत्वावच्छिन्नं प्रति न कुलालत्वेन नवा स्वर्णकारत्वन कारणलं किन्तु मृत्त्वव्याप्यघटत्वावच्छिन्नं प्रति कुलालत्वेन कारणत्वम् , स्वर्णत्वव्याप्यघट वाचच्छिन्नं प्रति स्वर्णकारत्वेन कारणत्वमित्येवं कुलालत्वावच्छिन्न जनक्रतानिरूपितजन्यता. वच्छेदकतया मृत्त्वनाप्यघटत्वस्य स्वर्णकारत्वावच्छिन्न जनकतानिरूपितजन्यतावच्छेदकतया स्वर्णत्वव्याप्यघटत्वस्य सिद्धौ घटत्वजातिनानात्वस्यावश्यकत्वादित्यर्थः । नन्वेवं मार्दवघटं प्रत्येव चक्रादिकं जनकं न सौवर्णघटादिकं प्रति. एवं सौवर्णघट प्रत्येव लोहवर्तुलादिकं जनकं न मार्दवघटादिकं प्रति व्यभिचारादित्यपि स्यादिति चेत् ? अत्र ओमित्येवोत्तरमित्याह-नहीतिस्वर्णघटादौ चक्रादिकं नहि हेतुः, मृद्धटादौ च लोहवर्तुलादिकं नहि हेतुरित्यन्वयः । ननु यदि मृत्त्वादिव्याप्यं नानैत्र घटत्वं तर्हि घटोऽयं घटोऽयमित्यनुगतप्रतीतिर्दिव-सौवर्णघटादौ न स्यात्तन्नियामकस्यैकस्य घटत्वस्याभावादित्यत आहअनुगधीस्त्विति । 'कश्चिदसौ सादृश्यात्' इस्यस्य स्थाने 'कथञ्चित्सौसादृश्यात्' इति पाठो युक्तः, सौसादृश्यम् - अतिशयेन सादृश्यम् । एवं सति घटपदस्य नानाप्रवृत्तिनिमित्तकत्वेन नानार्थकत्वमापतदिष्टापत्त्या न दोषावहमित्याह - घटपदं त्विति । इत्यभ्युपगमे एवं नैयाथिकादिभिरुररीकारे । अत्र सङ्ग्रहनयवादी अरुचिमुपदर्शयति- कथ चिदित्यादीति-यदि मार्दवघटादावेक घटत्वं नास्ति तर्हि नानारूपं तन्न तत्र सादृश्यनिबन्धनम् , तन्निबन्धनं तु घटत्वभिन्नं नोपदर्शयितुं शक्यमित्यशक्तिरेव तन्निर्वचनासामर्थ्यलक्ष गा नैयायिकादिभिः स्वस्थाविष्क्रियते, तत् किमर्थम् , अति. रिक्तजातिस्वीकारेऽपि न तत्र जात्यन्नरमथापि घटत्वं सामान्य पटत्वं सामान्यमित्येवमनुगतप्रतीतिरेकरूपेणाननुगतीकृतेष्वपि सामान्येषु भवतीत्येवं तैरुपगम्यते कथञ्चित्सौसादृश्येनैव जातीनामनुगमनम् . ततश्च तेष्वनुगतमतिरित्य स्यावश्याश्रयणीयत्वे