________________
२२८
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
कत्वप्रसनः, तदर्थक्रियां विना तत्त्वायोगात् ; घटादिशब्दार्थक्रिया यथाकथञ्चित् तत्रास्त्येवेति चेत् ? नअसाधारणतदर्थक्रियाकारित्वस्यैव तदात्मकत्वप्रयोजकत्वात् ; तथापि प्रस्थकक्रियाविरहे नायं प्रस्थको घटाचनात्मकत्वाच्च नाप्रस्थक इत्यनुभयरूप: स्यात् ? न स्यात्- प्रतियोगिकोटौ स्वस्यापि प्रवेशेन यावद् घटाद्यनात्मकत्वासिद्धेः; अर्थक्रियाभावा.ऽभावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतानुप्रवेश इति चेत् ? ननैगमनयोपगतार्थसङ्कोचनाय काचित्कतथोपगमेऽपि सर्वत्र तथाभ्युपगमाभावेन तदननुप्रवेशात् ; इत्थं
भावाद् घटाद्यात्मकत्वमपि न सम्भवतीति निषेधहेतुमुपदर्शयति-तदर्थक्रियां विनेति-घटादिकार्य जलाहरणादिलक्षणार्थक्रियां विनेत्यर्थः । तस्वायोगात् घटाद्यात्मकत्वायोगात् । ननु घटादेरर्थस्य जलायाहरणादिलक्षणार्थक्रिया यथा कार्य तथा पटाद्यर्थज्ञानतो घटादिशब्दप्रयोगस्तत्र भवतीति स्वज्ञानद्वारा घटादिशब्दोऽपि तस्य कार्यम् , लक्षणया घटादिशब्दप्रयोगः प्रस्थ केऽपि भवतीति घटादिकार्यघटादिशब्दलक्षणार्थक्रियाकारित्वान्मापन कार्याकरणकाले प्रस्थके घराद्यात्म करवप्रसङ्गः स्यादेवेत्याशहुते-घटादिशब्दार्थक्रियेति- घटादिशब्दप्रयोगलक्षणघटाद्यर्थकार्यार्थक्रियेत्यर्थः । यथाकथश्चित तात्पर्यादितः। तत्र प्रस्थके। या चार्थक्रिया यस्मादेव भवति न तु तदन्यतस्तादृशासाधारणार्थक्रियाकारित्वमेव तदात्मकत्व. प्रयोजकमिति जलाद्याहरणादिलक्षणासाधारणार्थक्रियाकारित्वमेव घटाद्यात्मकत्यप्रयोजकम् , जलाहरणाद्यर्थक्रियाकारित्वं च न प्रस्थके इति न तस्य घटाद्यात्मकत्वप्रसङ्ग इति समाधत्ते-नेति । असाधारणेति-घटाद्यन्याप्रभवत्वे सति घटादिप्रभवेत्यर्थः। तदर्थक्रियेति- जलाहरणादिलक्षणार्थक्रियेत्यर्थः । तदात्मकत्वेति- घटाद्यात्मकत्वेत्यर्थः। ननु मापनलक्षणार्थक्रियाविरहकाले आसादितप्रस्थकपर्यायोऽपि प्रस्थकः प्रस्थको न भवति, जलाहरणादिलक्षणाप्रस्थकघटादिकार्यकारित्वाभावादप्रस्थकोऽपि न भवतीति प्रस्थकाऽप्रस्थकान्यतरानात्मकोऽयं स्यात् , न चैवमभ्युपगन्तुं युक्तम् , विधिनिषेधयोरेकतरनिषेधेs. परविधिध्रौव्यात्, प्रस्थकतया निषिद्धस्याप्रस्थकरूपत्वस्याप्रस्थकतया निषिद्धस्य प्रस्थकरूपत्वस्य चावश्यम्भावात् 'परस्परविरोधे हि न प्रकारान्तरस्थितिः' इति वचनादित्याशयेन शङ्कते-तथाऽपीति-घटाद्यात्मकत्वप्रसङ्गाभावेऽपीत्यर्थः । अनुभयरूपः स्यात् प्रस्थका-प्रस्थकान्यतरानात्मक: स्यात् । प्रस्थऋभिन्नं यद् तत् सर्वमप्रस्थकमिति प्रस्थकोऽपि प्रस्थककार्याकरणकाले. ऽप्रस्थक एवेति घटादि' इत्यादिपदेन सोऽपि गृह्यत एवेति घटाद्यात्नकत्वमेव तस्येति घटायनात्मकत्वहेतोरसिद्धचा न ततोऽ. प्रस्थकनिषेधः कर्तुं शक्य इत्यप्रस्थकरूपत्वान्नानुभयरूपोऽयमिति समापत्ते-न स्यादिति-अनुभयरूपः प्रस्थककार्याकरणकाले प्रस्थको नापद्यत इत्यर्थः । तत्र हेतुमाह-प्रतियोगिकोटाविति-घटावात्मा न भवतीत्येवंरूपो यो घटाद्यनात्मको निषेधस्तस्य प्रतियोगी घटाद्यात्मेति तत्रादिपदग्राह्यः प्रस्थककार्यकारिप्रस्थकपर्यायभिन्नः सर्वोऽपि तन्मध्ये प्रस्थककार्याकरणकाले प्रस्थकोऽपीति घटाद्यात्मकस्य तस्य घटायनात्मकत्वासिद्धरित्यर्थः । ननु ऋजुसूत्रनये यथाऽर्थक्रियाकारित्व तदकारित्वाभ्यां विरुद्धधर्माभ्यां द्रध्यस्य भेदस्तथा सङ्कहनयेऽपि ताभ्यां तस्य भेद इत्यभ्युपगमे सङ्ग्रहन याभ्युपगम ऋजुसूत्रनयाभ्युपगम एव स्यादित्याशङ्कते- अर्थक्रियाभावाऽभावाम्यामिति -- अर्थक्रियाकारित्वन्तदकारिवाभ्यामित्यर्थः । ऋजुसूत्रस्य सर्वत्रार्थक्रिया. भाषाऽभावाभ्यां द्रव्यभेदाभ्युपगमः, सङ्ग्रहस्थ तु न तथा सर्वत्राभ्युपगमः, किन्तु प्रस्थकस्थले नैगमनयेनाभ्युपगतस्योत्कीर्णनामकप्रस्थकपर्यायापन्नद्रव्यरूपस्य प्रस्थकपदव्यपदेश्यस्य प्रस्थककार्यकारि-तदकारिप्रस्थकसाधारणस्यास्य यत् सङ्कोचनं 'तथाभूतः प्रस्थककार्यकाव प्रस्थकः' इत्येवंरूप तदर्थमर्थक्रियाकारित्व-तदकारित्वाभ्यां द्रव्यभेदाभ्युपगम इति न तथाऽभ्युपगन्तु: समहस्य ऋजुसूत्रमतानुप्रवेश इति समाधत्ते-नेति। काचित्त थोपगमेऽपि प्रस्थकस्थले द्रव्यभेदाभ्यपगमेऽपि । तथाऽभ्युपगमाभावेन द्रव्यभेदाभ्युपगमाभावेन । तदननुप्रवेशात सद्भहस्प्रर्जुसूत्रनयेऽनुप्रवेशाभावात् । यदा च मापन कार्यकारि-तदकारिध्यक्त्योरर्थक्रियाकारित्व-तदकारित्वाभ्यां भेदः सङ्ग्रहनये सुव्यवस्थितस्तदा तन्नये मापनाकारियां व्यक्तौ प्रस्थकोऽयमिति प्रतीतेः प्रमितित्वाभावात् तत्र प्रस्थऋत्वसामान्यमपि नास्ति किनस्वस्थ कात्मिकैव सा व्यक्तिरिति नानुभयरूपत्वस्य तत्र प्रसङ्ग इत्याह-इत्थं चति- सङ्ग्रहनये अर्थक्रियाभावाऽभावाभ्यां चित्कद्रव्यभेदाभ्युपगमव्यवस्थितौ चेत्यर्थः । 'भेदार्थ कियाजनकप्रस्थकव्यक्तौ' इयत्य स्थाने "भेदेऽर्थक्रिया जनप्रत्यकव्य कौ" इति पाठो युक्तः, यदि यैव व्यक्तिओपनरूपार्थक्रियाकारिणी सैव मापनरूपार्थक्रियाऽजनिकाऽपि तदा मापनरूपार्थक्रियाकारिण्यां प्रस्थकत्वसामान्यस्य सत्वे तदभिन्नायां मापनरूपार्थक्रियाऽजनिकायामपि तस्य सत्त्वमवश्याभ्युपगन्तव्यं स्यात् , तो दे तु मापनरूपार्थक्रियाऽ