________________
नयामृततरङ्गिणी-तरङ्गिणीतम्यामलतदेशः ।
श्य
विवेचितः प्रदेशदृष्टान्तः प्रस्थकदृष्टान्तं विवेचयति प्रस्थकार्थमित्यादिना
प्रस्थकार्थं ब्रजामीति, वने गच्छन् ब्रवीति यत् ।
आदिमो घपचारोऽसौ, नैगम-व्यवहारयोः॥ ६२॥ नयामृत०-प्रस्थकार्थमित्यादि । प्रस्थकः- मराधदेशप्रसिद्धो धान्यमानहेतुईव्यविशेषः, तदर्थ व्रजामीति वने गच्छन् यद् ब्रवीति कश्चित् , असौ नैगम-व्यवहारयोः, हि-निश्चितम् , आदिम उपचार:
.
नम्वत्र प्रस्थकार्य वने गच्छतः प्रस्थकेच्छाया मुख्यार्थस्या बाधितत्वात् कथं प्रस्थकपदस्योपचार इत्यत आह--
अत्र प्रस्थकशब्देन, क्रियाविष्टवनैकधीः।
प्रस्थकेऽहं ब्रजामीति, ह्युपचारोऽपि च स्फुटः ॥६३॥ नयामृत०--अत्रेति । अत्र-अधिकृतप्रयोगे, केत्यधिकारणाकाङ्क्षायाः प्रस्थकार्थमिति चतुर्थीप्रकृत्यर्थेनैव निवृत्तेः, प्रस्थ[क]दलयोग्यवृक्षप्राप्तिरूपक्रियाविष्टवनस्य, एका-अद्वितीया धीरिति तत्रोपचार आवश्यक इत्यर्थः । भनु तथापि सप्तम्यन्तप्रश्ने सप्तम्यन्तमेवोत्तरमुचितमित्यत आह ‘क भवान् गच्छति' इति प्रश्ने प्रस्थकेऽहं व्रजामीति, सप्तम्यन्तप्रस्थकपदस्योपचारोऽपि बने स्फुट एक दृश्यत इत्यर्थः, तथा च वनगमने प्रस्थकशब्देन वनाभिधानं नैगम-व्यवहारयोः प्रथम उपचार इति सिद्धम् ।। ६३ ।
छिनद्मि प्रस्थकं तक्ष्णोम्युत्किराम्युल्लिखामि च।
करोमि चेति तदनूपचाराः शुद्धताभृतः ॥ ६४ ॥ द्वाषष्टितमपद्यमवतारयति-विवेचित इति । प्रस्थकदृष्टान्ते नैगमव्यवहाराभ्युपगमविशेषप्रतिपादकं द्वाषष्टितमपद्य विवृणोति-प्रस्थकार्थमित्यादीति। तदर्थे धान्यमानहेतुद्रव्यविशेषार्थम् । असी प्रस्थ कार्थ बजामीति वचनम् । अन्यत् स्पष्टम् ।। ६२ ॥
त्रिषष्टितमपद्यमवतारयति- नन्विति । अत्र प्रस्थकार्थं व्रजामीत्युक्तौ । मुख्यार्थस्य प्रस्थकार्थमित्यनेन शक्त्या प्रतिपाद्यस्यार्थस्य । विवृणोति- अत्रेतीति । अत्रेति मूलस्य विवरणम्- अधिकृतप्रयोग इति-प्रस्थकार्थ बजामीति प्रयोगे इति तदर्थः, अत्र घटकत्वं सप्तम्यर्थः, तस्य 'प्रस्थकार्थम्' इत्यत्रान्वयः। केत्यधिकरणाकालायाः क व्रजति भवानिति पृच्छता परेण स्वगताधिकरणाकाङ्काऽऽविष्कृता तस्याः, अस्य 'निवृत्तेः' इत्यनेनान्वय नित्येवं व्रजनविषयकाकासाया अभाबेन तनिवर्तनस्यानुद्देश्यत्वाद् व्रजामीत्यनेन नाधिकरणाका साया निवृत्तिरिति प्रस्थकार्थमिति चतुर्थीप्रकृत्यर्थेनैवोक्ताकाङ्काया निवृत्तः, आकाङ्क्षाया निवृत्तिश्च स्वविष निर्णयात्मकस्वविषयसिस्यैव सम्भवति नान्यथेति गमनाधिकरणविशेषप्रतिपत्तिरेव प्रस्थकार्थमित्यनेन जन्याऽभिमता, सा च प्रतिपत्तिर्धान्यमानहेतुद्रव्यविशेषात्मक प्रस्थकदल योग्य वृक्षप्राप्तिरूपक्रियाविष्टवन गोचरेति तादृशवनरूपार्थाधिकरणे प्रस्थकपदस्योपचार आवश्यक इत्याह-प्रस्थका दलेति । उत्तरार्द्ध व्याख्यातुमवतारयति-नन्विति । तथाऽपि उपचारस्यावश्यकत्वेऽपि । सप्तम्यन्तप्रश्ने क्व भवाम् बजतीति प्रश्ने । सप्तम्यन्तमेवोत्तरं प्रस्थकार्थमित्यस्य स्थाने 'प्रस्थके' इति सप्तम्यन्त प्रस्थकपदघटितमेवोसरवाक्यम् । आह- प्रस्थ केऽहमित्याधुत्तराईमाह । उत्तरार्थि स्पष्टयति-क भवानित्यादि। फलितमाह-तथा चेति ॥६३n