________________
२२४
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । वेदानां प्रामाण्यम् , न तु प्रामाणान्तराविषयेऽपि, लक्षणार्थविधयैवानादिमीमांसासंप्रतिपत्तरित्युच्यते तीसति विशेषतो बाधके कर्मधारयविधयैव वेदानां प्रामाण्यम् , न तु प्रमाणान्तराविषयेऽपि तत्पुरुषादिविधया, तथैवानादिमीमांसासंप्रतिपत्तरित्येव कल्पयित्वा किमिति न स्वचेतः सन्तोषयसि ? बहुव्रीहितस्तत्पुरुषस्य बलत्वे त्वयाप्यस्या एव रीतेरनुसतव्यत्वात् , न च बहुव्रीहेः सर्वपदार्थानां लाक्षणिकत्वादेव दौर्बल्यम् , एकपदलक्षणयापि बहुत्रीहेस्तत्र तत्रापादितत्वादिति पक्षपातमात्रमेवेति दिक् ।
एवम्भूतस्य नयस्य मते देश-प्रदेशनिर्मुक्तं- देश-प्रदेशकल्पनारहितमखण्डमेव वस्तु सत्, देश. प्रदेशकल्पना तु भ्रममात्रमिति तन्मते नास्त्येव प्रदेश इत्यर्थः। न च विन्ध्यहिमवदा दिभावाभावावच्छेदकतया आकाशादिदेशसिद्धिः, परेण समं सम्बन्धस्यैव तेनानभ्युपगमात् । व्यवहारस्तु कल्पितेनापि वस्तुना निर्वहतीति न ततः परमार्थसिद्धिरिति भावः ॥ ६१ ॥
अत्र समभिरूढनयाकूतमुत्प्रेक्ष्य शब्दनयानुसारिणो दूषयन्ति- अथेति । न तु प्रमाणान्तराविषयेऽपीति- प्रमाणान्तरविषये शब्दानामनुवादकत्वादेव न प्रामाण्यमित्यतः प्रमाणान्तराविषयेऽपीत्युक्तम्, एवमग्रेऽपि । 'लक्षणार्थविधयेवा' इत्यस्य स्थाने 'लक्ष्यार्थविध या, तथैवा' इति पाठो युक्तः, तथा च प्रमाणान्तराविषयेऽथें स्वशक्यार्थप्रतिपादकत्वेनैव वेदानां प्रामाण्यम् , प्रमाणान्तराविषयेऽप्यर्थे लक्ष्यार्थप्रतिपादकत्वेन वेदानां न तु प्रामाण्यमित्यर्थः। कथं न तथा प्रामाण्यमित्यपेक्षायामाह-तथैवेति- उक्तप्रकारेणवत्यर्थः । अनादिमीमालासंप्रतिपत्तेः अनादिवृद्धाप्तपरम्परोपनीतप्रमाणपरिशोधितयुक्तिसिद्धाभ्युपगमात् । कर्मधारयविधयैव कर्मधारयसमासरूपत्वेनैव । वेदानां समासस्वरूपवेदवाक्यानाम् , तेन समासानात्मकवेदवाक्यानां कर्मधारयानात्मकत्वेनान्यथैव प्रामाण्येऽपि न क्षतिः । न तु प्रमाणान्तराविषयेऽपि तत्पुरुषादिविधया' इत्येकं वाक्यम् , तथा च समासात्मकवेदवाक्यानां प्रमाणान्तराविषयेऽप्यर्थे कर्मधारयातिरिकतत्पुरुषादिसमासात्मकत्वेन न तु प्रामाण्यमित्यर्थः । इयं रीतिस्त्वयाऽप्याश्रयणीयैव, कथमन्यथा तत्पुरुष-बहुव्रीहिसमासयो क्षणिकपदघटितत्वाविशेषेऽप्यसति बाधके तयोरुभयोरपि सम्भवे तत्पुरुषसमासात्मकत्वेन वाक्यस्य प्रामाण्यं न तु बहुव्रीहि. समासात्मकत्वेनेत्यभ्युपगमस्तवापि स्यादित्याह-बहुव्रीहित इति । 'बलत्वे' इति स्थाने 'बलवत्वे' इति पाठो युक्तः । ननु बहुव्रीहौ सर्वपदाना लक्षणा, तत्पुरुषे त्वेकस्यैव पूर्वपदस्य लक्षणेति तत्पुरुषापेक्षया बहुव्रीहेदौर्बल्यमित्याशङ्क प्रतिक्षिपति-न चेति । निषेधे हेतुमाह- एकपदलक्षणयाऽपीति ।
प्रस्तुतविषये एवम्भूतनयाभिमतप्रतिपादकमुत्तरार्द्ध विवृणोति- एवम्भूतस्येति । 'नयस्य मते' इति पूरणम् । देश-प्रदेशनिर्मुक्तमिति मूलस्य विवरणम्-देश-प्रदेशकल्पनारहितमिति, अस्य फलितकथनम् - अखण्डमेवेति । ययखण्डमेव वस्तु सत् तर्हि तत्र देश-प्रदेशप्रतीतेस्नुभूयमानाया अपलाप: स्यादित्यत आह-देश-प्रदेशकल्पना त्विति-तथा च तत्र देश-प्रदेशप्रतीतिरनुभूयमाना न नाम नास्ति, किन्तु सा भ्रमरूपत्वान्न देश-प्रदेशसाधिकेति । तन्मते एवम्भूतनयमते । ननु यद्या-काशादेवस्तुनो देश-प्रदेशौ न सतस्तहिं कथमेकस्मिन्नेवाकाशे विरुद्धयोहिमवत्-तदभावयोर्विन्ध्य तदभावयोः सत्त्वम् , देशसद्भाव त्वेरुदेशावच्छेदेन विन्ध्यसद्भावो हिमाचलाभावश्च तदन्यदेशावच्छेदन हिमाचलसद्भावो विन्ध्याचलाभावश्चेत्येकत्राप्याकाशे देशरूपावच्छेदकभेदेन विन्ध्य-तदभावयोहिम-तदभावयोः सत्त्वोपपत्ति रित्यवच्छेदकनयाऽऽकाशादिदेशकल्पनमावश्यकमित्याशङ्का प्रतिक्षिपति- न चेति । निषेधे हेतुमाह- परणेति- सर्व वस्तु स्वस्मिन्नेव प्रतिष्ठितं न स्वस्मिन्नन्यस्य सत्त्वम् , आधाराधेयभावश्च सम्बन्धे सति भवति, अन्यस्य त्वन्येन समं सम्बन्ध एवं नास्ति, तथा च गगनेन समं विन्ध्यादेः सम्बन्धाभावाद् गगनादौ विन्ध्य-तदभावौ वर्तेते इत्येव नेष्यते, कुतस्तदवच्छेदकतया देशसिद्धिरिति भावः । तेन एवम्भूतनयेन । ननु यद्याकाशादावन्यस्मिन्न विन्ध्यादिः समस्ति तर्हि 'दक्षिणस्यां दिश्याकाशे विन्ध्याद्रिवतते. उत्तरस्यां दिशि गगने हिमाचलो वर्तते' इत्येवं विभिन्न देशावच्छेदेन विन्ध्यादिमत्त्वव्यवहारो न निर्वहेदित्यत आह-व्यवहारस्त्विति । वस्तुना देश-प्रदेशादिमदाकाशादिवस्तुना । ततः ब्यवहारतः ॥ ६१॥