________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
२२३
इति शनीयम् , निषादस्य वेदान्तराध्ययनप्रसङ्गात् । यदि च तत्पुरुषवत् कर्मधारयेऽपि स्यात् तदा षष्ठीसमास एव युज्येत, त्रैवर्णिकस्यैव निषादस्थपतितया बोधनेनाप्राप्तविद्याप्रयुक्तरकल्पनानिषेधविधौ सङ्कोचाभावादिति ।
अत्र शब्दनयानुसारिणो नव्या:-तत्पुरुषे लक्षणापक्षेऽपि किमिति कर्मधारय एवाद्रियते, न तत्पुरुषः, शक्ति-लक्षणयोरुभयोरपि शाब्दबोधप्रयोजकतायाः क्लुप्तत्वेन गौरवानवकाशात् , अथ शक्यसम्बन्धरूपलक्षणाझाने विशेषणज्ञानविधया हेतोः शक्तिज्ञानादेव शाब्दबोधोपपत्तेन लक्षणाज्ञानहेतुः कल्प्यते, गौरवादिति चेत् ? भवेदेवं यदि षष्ठीसमासेनापि कस्यचिद् बोधो न स्यात् , न चैवम् , तादृशबोधसहस्रस्याप्यनुभवसिद्धत्वादिति, यदि च साक्षात्परम्परासाधारणसम्बन्धेन शक्तिज्ञानमेव शाब्दबोधसामान्ये हेतुरिति सूक्ष्ममीक्ष्यते, तदा न शक्तिविषयकत्वापेक्षया लक्षणाविषयकत्वे गौरव मुद्भावयितुमपि शक्यम् , सम्बन्धगौरवस्यादोषत्वात् । अथासति विशेषतो बाधके स्वशक्यार्थविधयैव इत्याशयेनाह- यदि चेति । 'कर्मधारयेऽपि स्यात् ' इत्यस्य स्थाने 'कर्मधारयेऽपि लक्षणा स्यात् ' इति पाठो युक्तः। षष्ठीसमास एवं निषादानां स्थपतिनिषादस्थपतिरिति षष्टीतत्पुरुषसमास एव । तस्य युक्तत्वे हेतुमाहत्रैवर्णिकस्यैवेति- ब्राह्मण-क्षत्रिय-वैश्यजातीयान्यतमस्यवेत्यर्थः। अप्राप्तविद्याप्रयत: सङ्करजातीयत्वेन शूद्रे निषादे तत्कर्तृकयागोपयोगिमन्त्राध्ययनलक्षणविद्याया वेदवचनादिप्रमाणान्तराप्राप्तस्य सम्बन्धस्य । अकल्पनात् निषादकर्तृकयागान्यथानुपपत्या यत् कल्पनं तस्याभावात् । तथा च निषेधविधौ स्त्रीशूद्रौ नाधीयतामित्यत्र । सङ्कोचाभावात् अध्ययनपदस्य निषादकर्तृकयागो ग्युक्तमन्त्राध्ययनातिरिक्ताध्ययनपरत्वाभावात् ।
अस्मिन् विचारे महोपाध्यायो ग्रन्थकारः समभिरूढनयवादिनं प्रति प्रतिमलतयोपस्थिताना नव्यानां साम्प्रतमयानुसारिणामाकूतमुद्धाटयति- अत्रेति । 'तत्पुरुषे लक्षणापक्षेऽपि' इत्यारभ्य 'पक्षपातमात्रमेवेति दिक्' इत्यन्तं तदाशयप्रकटनम् । विशेषणशानविधयेति- विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणस्वमिति शक्य सम्बन्धरूपलक्षणाज्ञानं शक्तिविषयसम्बन्ध. ज्ञानम्, तत्र विषये शक्तविशेषणत्वेन शक्तिविशिष्ट बुद्धिरूपं तत् अतस्तत्र विशेषणोभूतायाः शक्तानस्य हेतुत्वमिति लक्षणाज्ञानस्य शाब्दयोधहेतुत्वेऽपि तद्वारा शक्तिज्ञानस्य हेतुत्व मावश्यकमेव, तथा च निषादश्चासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिविषयकशाब्दबोधस्य लक्षणाज्ञानमन्तरेणैवोपपत्तिरिति लाघवम् , निषादानां स्थपतिरिति षष्ठीतत्पुरुषाश्रयणे तु निषादपदस्य निषादसम्बन्धिस्थपतिबोधार्थ निषादसम्बन्धिनि लक्ष गाऽऽवश्यक्रोति तम्ज्ञानं शक्तिज्ञान चोक्तशाब्दबोधहेतुतया कल्पनीयमिति कर्मधारयपक्षो लाघवादाश्रयणीय इति शङ्कार्थः, 'लक्षणासानहेतुः' इत्यस्य स्थाने 'लक्षणाज्ञानं शाब्दबोधे हेतुः' इति पाठो युक्तः । यस्य प्रमातुर्निषादानां स्थपतिरिति षष्ठीतत्पुरुषसमासरूपतयैव तच्छब्दा. वधारणं तस्य प्रमातृसहस्रस्य निषादसम्बन्धि थपतिबोधस्याप्यनुभवसिद्धस्यापलपितुमशक्यतया तदर्थ लक्षणाज्ञानस्यापि तत्र शाब्दबोधहेतुत्वकल्पनमावश्यकमेवेति समाधत्ते-भवदेवमिति- लक्षणाज्ञाने विशेषणज्ञानविषया कारणतया क्लप्तस्य शक्तिज्ञानस्येव शाब्दबोधहेतुत्वं न तु लक्षण ज्ञानस्येति तदा स्यादित्यर्थः । न चैवमिति- षष्ठीसमासेन कस्यचित् प्रमातुबोधी न भवत्येवेति न चेत्यर्थः । तादृशबोघसहस्रस्यापि षष्ठीतत्पुरुषसमासतयाऽवधारितवाक्यप्रभवशाब्दबोधसहस्रस्यापि लाक्षणिकार्थविषयकस्य । तत्पुरुषे पूर्वपदस्य शक्य सम्बन्धरूपलक्षणाज्ञानस्य लक्ष्यार्थोपस्थितिद्वारा शाब्दबोधं प्रति कारणत्वकल्पने यद् गौरवं तदपि नास्तीत्याह - यदि चेति- शक्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र साक्षाद्विषयतासम्बन्धेन शक्तिप्रकारकज्ञानस्य कारणत्वम् , यत्र च लक्ष्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र खविषयसम्बन्धित्व. लक्षणपरम्परासम्बन्धेन शक्तिप्रकारकज्ञानस्य कारणत्वमित्येवं पृथक् कार्यकारणभावो नाङ्गीक्रियते, किन्तु साक्षात्परम्परासाधारणसम्बन्धसामान्येन शक्तिप्रकारकज्ञानस्वेन शक्तिज्ञानस्थोपस्थितिसामान्यद्वारकविधमेव शाब्दबोधं प्रति कारणत्वं स्वीक्रियते, एवं च प्रकारविधया शक्तिविषयकत्वमेव कारणतावच्छेदकं न तु लक्षणाविषयत्वमपि, शकिलक्षणोभयसाधारणान्यतरस्वादिना सम्बन्धविषयकत्वस्य तत्र कारणतावच्छेदकत्वेऽपि तस्कृतगौरवस्य न दोषावहत्वमिति तत्पुरुषसमासोऽप्याश्रयितुं शक्य इत्यर्थः ।