________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
"
एतन्मूलकमेव निषादस्थपत्यधिकरणं मीमांसायां प्रवृत्तेः ( त्तम् ), तथाहि - " निषादस्थपति याजयेत्" इत्यत्र निषादानां स्थपतिरिति न षष्ठीसमासः, किन्तु निषादश्चासौ स्थपतिरिति कर्मधारयो लाघवात्, न चाध्ययनाभावादनधिकारो निषादस्य, एतद्विधिवलादेवैतदिष्टौ यावदपेक्षितपठनानुज्ञानात्, यथा - ' वर्षासु रथकारोऽमीनादधीत ' इत्यत्र चापशूद्राधिकरणविरोधः, तस्यैतदतिरिक्तविषयत्वात् ; न चैवं " स्त्री-शूद्रौ नाधीयेताम् ” इत्यत्र निषादीयतत्तदध्ययनविध्यर्थनिषेधबाधादध्ययनपदे निषादीयतत्तदध्ययनपरतया सङ्कोचः कल्प्यत इति शूद्रपदे एव निषादेतरशूद्रपरतया सङ्कोचः किमिति न कल्प्यत नैवान्वय इति नियमात् कर्मधारयेऽपि नाभेदप्रकारको बोधः किन्त्वभेदसंसर्गक एव, सप्तमीतत्पुरुषेऽपि अमेदसंसर्गक एव बोधः, किन्तु कर्मधारये न लक्षणा तत्पुरुषे तु पूर्वपदे लक्षणेति लाघवात् कर्मधारयसमासाश्रयणमित्याशयः । एत*मूलकमेव तत्पुरुषे पूर्वपदलक्षणासत्त्वात् तदपेक्षया लक्षणाऽभावतो लाघवात् कर्मधारयाश्रयणमिति समभिरूढनयमूलकमेव । पूर्वमीमांसागतं निषादस्थपत्यधिकरणविचारमुपदर्शयति- तथाहीति । षष्ठीसमासः षष्ठीतत्पुरुषसमासः । लाघवात् षष्ठीतत्पुरुषे पूर्वपदे लक्षणा कर्मधारये न सेत्येवं लाघवात् । ननु न स्त्रीशूद्रौ वेदमधीयाताम् " इति श्रुत्या सङ्करजातिविशेषस्य निषादस्य शूद्रजात्यन्त्यन्तर्गतस्य वेदाध्ययननिषेधाद् यागोपयुक्तमन्त्रपठनानधिकारित्वेन न यागाधिकार इति निषादाभिन्नस्थपतेर्याजनान्वयासम्भवान्न कर्मधारयस्तत्राश्रयणीयः, किन्तु निषादस्वामिनः क्षत्रियस्य याजनान्वयसम्भवेन षष्ठीतत्पुरुष एव समाश्रयणीय इत्याशङ्कच प्रतिक्षिपति न चेति । अध्ययनाभावात् वेदाध्ययना सम्भवात् । अनधिकारः यागकरणेऽयोग्यता । निषादस्य निषादाभिन्नस्थपतेः । निषेधे हेतुमाह- एतद्विधिबलादेवेति - ' निषादस्थपतिं याजयेत्' इति बलादेवेत्यर्थः । एतदिष्टौ यावदपेक्षित पठनानुज्ञानात् निषादस्थपतिकर्तृकयागे यद् यन्मन्त्रपठनं तद् यागकर्तुर्निषादस्यावश्यकं तन्मन्त्रपठनस्य निषादकर्तृकस्यानुमतत्वात् । यश्च शूद्रविशेषकर्तृको यागस्तत्र तदुपयुक्तमन्त्राध्ययनस्य तत्कर्तृशूदकर्तृकस्यानुमतत्वे दृष्टान्तमाह- यथेति तथा च वर्षासमये शूद्रविशेषरथकारकर्तृकाग्न्याधानकमणिमन्त्रपठनं शूद्रस्यापि रथकारस्य यथाऽनुमतं तथा प्रकृते निषादस्यापि तत्कर्तृकयागोपयुक्तमन्त्राध्ययनमनुमतमित्यर्थः । शूदस्य यागानधिकारप्रतिपाद का पशूदाधिकरणविशेघमाशक्य प्रतिक्षिपति-न चेति । निषेधे हेतुमाहतस्येति- अपशूदाधिकरणस्येत्यर्थः । एतदतिरिक्तेति वेदविहितनिषादादिकर्तृकया गव्यतिरिक्तेत्यर्थः । ननु ' स्त्रोद्रौ नाघीयेताम्' इत्यत्र निषादकर्तृकयागोपयुक्तमन्त्रातिरिक वेदाध्ययनपरमध्ययनपदमित्येवमध्ययनपदस्य सङ्कचितार्थकत्वं यदाश्रीयते तदपेक्षया लाघववाच्छूद्रपदस्यैत्र निषादातिरिक्तशूद्रपदत्वं किमिति नोपयत इति शूदपदस्यैव सङ्कुचितार्थत्वमस्त्विति तटस्थाशङ्कां प्रतिक्षिपति - न चैवमिति - अस्य शङ्कनीयम्' इत्यनेनान्वयः । एवं सङ्कोचस्यावश्यकर्तव्यत्वे सति । निषादीयेति'निषादीयतत्तदध्ययनपरतया' इत्यस्य स्थाने "निषादीयतत्तदध्ययनातिरिकाध्ययन परतया" इति पाठो युक्तः, तथा च ' निषादस्थपतिं याजयेद्' इत्यतः प्राप्तो यो निषादकर्तृकयागोपयोगिमन्त्रस्य निषादकर्तृकाध्ययनलक्षणविध्यर्थस्तस्य ' स्त्री-शूद्रौ नाधीयेताम् ' इत्यनेन यो निषेधस्तस्य बाधात् निषादकर्तृकयागोपयोगि मन्त्राध्ययने निषादरूपशूद्रकर्तृकत्वस्याभावेन तत्र तदभावस्यासम्भवात्, अध्ययनपदे " स्त्री शूद्रौ नाधीयेताम्' इत्यत्राध्ययनार्थकं यत् पदं तस्मिन्, निषादीयं - यन्निषादकर्तृकयागोपयोगिमन्त्राध्ययनं तदतिरिक्तवेदाध्ययनपरतयेत्यर्थः । शूद्रपदे एव 'स्त्रीशूद्रौ' इत्येतद्घटक शूद्रपद एव । निषेधे हेतुमाह- निषादस्येति- शूद्रपदेन निषादातिरिक्तशूद्रस्यैव ग्रहणे तस्यैव वेदमात्राध्ययनं निषिद्धं न तु निषादजातीयशूद्रस्येति निषादस्य निषादकर्तृकयागोपयोगिमन्त्राध्ययनस्येव तादृशयागानुपयोगिवेदवचनाध्ययनस्यापि प्रसङ्गः ' स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविषेस्तं प्रत्ययबाधित प्रसरत्वादित्यर्थः । यदि च प्रकारविधयाऽभेदस्य बोधार्थमेव कर्मधारयाश्रयणं न लाघवात् तर्हि समासघटकस्याभेदवाचकपदस्याभावात् कर्मचारयेऽपि पूर्वपदे लक्षणाऽऽवश्यकी, एवं च निषादस्थपतिं याजयेदित्यत्र निषादश्वासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिकर्तृकया गान्यथानुपपत्त्या तस्याप्राप्तविद्याप्रयुक्तिः कल्पनीया स्यात् निषादानां स्थपतिरिति तत्पुरुषाश्रयणे तु ब्राह्मणादित्रैवर्णिकोऽपि निषादस्थपतिपदबोध्य इति नाप्राप्त विद्याप्रयुक्तिकल्पनम्, तदनुरोधेन स्त्रीशूद्रौ नाघोयेतामित्यत्राध्ययनपदस्य निषादीयाध्ययनातिरिकाभ्ययनपरतया सङ्कोचोऽपि न कर्तव्य इति तत्पुरुषसमास एवाश्रयणीयः स्यादिति निषादस्थपत्यधिकरणाप्रवृत्तिप्रसङ्ग
२२२
-