________________
नयामृततरकिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
२२१
ध्येयम्, इति-एवं समासद्वयशुद्धिमान् शब्दनयः प्राह, न चैवं धर्मे धर्मो वा प्रदेशो नोद्रव्यमित्यपि स्यादनिर्धारितसामान्यैकव्यक्तिविधेयतायामेव नोशब्दप्रयोगात्, धर्मास्तिकायाद्यकव्यक्तनिर्धारिताया एव विधेयत्वादिति ध्येयम् ।। ६० ॥
ब्रूते समभिरूढस्तु, भेदाप्तेर्नात्र सप्तमी।
देश-प्रदेशनिर्मुक्तमेवम्भूतस्य वस्तु सत् ॥ ६१ ॥ नयामृत०-बूत इति । समभिरूढनयस्तु 'धौ प्रदेशः' इत्यादिसप्तमीसमासं [ न ] ते, तथाप्रयोगे । कुण्डे बदरम्' इत्यादेरिव भेदाप्तेः- भेदबुद्धिप्रसङ्गात् , ' घटे घटस्वरूपम् ' इत्यादी कचिदभेदे सप्तमीप्रयोगेऽप्यभेदप्रकारकबोधार्थ कर्मधारयस्यैवावश्याश्रयणीयत्वात् ; तत्पुरुषे पदलक्षणा. सत्वात् कर्मधारये चाभेदस्य संसर्गविधयैव लाभात् तदभावेन लाघवादेव कर्मधारयपक्षः समभिरूढनयेनाश्रीयत इत्यपरे । मुक्तिरिति निर्गलितोऽर्थः। इतीति मूलस्थ विवरणम्-एवमिति- अमुना प्रकारेणेत्यर्थः । समासद्वयशुद्धिमान् सप्तमीतत्पुरुष-कर्मधारयलक्षण समासद्वयमाश्रित्य धर्मास्तिकायप्रदेशादिशब्दार्थाभ्युपगन्तृत्वलक्षणा या शुद्धिस्तद्वान् । नन्वेवं सकलद्रव्यैकदेशविवक्षितधर्मास्तिका यात्मकद्रव्यात्मकत्वस्य धर्मास्तिकायप्रदेशे प्रतिपादनाय धर्मास्तिकाये प्रदेशे नोद्रव्यमिति सप्तमीतत्पुरुषेण धर्मास्तिकायश्चासौ प्रदेशो नोद्रव्यमिति कर्मधारयेण वाऽभिलापोऽपि कर्तव्यकुक्षिमास्कन्देदित्याशास प्रतिक्षिपति-न वैवामिति । धर्म धर्मास्तिकाय। धर्मो वा धर्मास्तिकायो वा। निषेधहेतमपदर्शयतिमनिर्धारितति- 'जीचे प्रदेशो जीवो वा प्रदेशः' इत्यत्र 'स्कन्धे प्रदेशः स्कन्धो वा प्रदेशः' इत्यत्र च जीवसामान्यस्य स्कन्धसामान्यस्य वा यैकव्यक्तिः, अनिर्धारिताया एव तस्या विधेयताया, न त्वस्मिन् जोवे प्रदेशोऽयं जीव: प्रदेश इत्येवं निर्धारिताया जीवव्यक्तविघयता, नवास्मिन् स्कन्धे प्रदेशोऽयं स्कन्धः प्रदेश इत्येवं निर्धारिताया स्कन्धव्यविधेयतेति तस्यामेवानिर्धारितसामान्यैकव्यक्तिविधेयतायां सत्यां नोजीवो नोस्कन्ध इत्येवं नोशब्दप्रयोगादित्यर्थः । धर्मास्तिकायेति-धर्मास्तिकाये प्रदेशो धर्मास्तिकायो वा प्रदेश इत्यादौ तु द्रव्यसामान्यस्य या धर्मास्तिकायादि. लक्षणेकव्यक्तिस्तस्या निर्धारिताया एवं विधेयता, न तु द्रव्यसामान्यवाचिद्रव्यशब्देन तस्या उपादानं येनानिर्धारितायास्तस्य विधेयता स्यादिति निर्धारितसामान्य व्यक्तिविधेयत्वादेव नोद्रव्यमित्येवं न तत्र नोशब्दप्रयोग इत्यर्थः ॥ ६॥
प्रदेशविषये समभिरूडैनम्भूतयोर्मन्तव्योपदर्शकमेकषष्टितमपद्यं विवृणोति- व्रत इतीति । 'धर्म प्रदेश इत्यादि। इत्यत्रादिपदाद् ‘अधमें प्रदेशः, आकाशे प्रदेशः, जीवे प्रदेशः, स्कन्धे प्रदेशः' इत्यस्य सङ्ग्रहः । कथं सप्तमीतत्पुरुषसमासं प्रकृते समभिरूदनयो नाभ्युपगच्छतीयपेक्षायामाह- तथा प्रयोग इति-धर्म प्रदेश इत्यादिप्रयोग इत्यर्थः । कुण्डे बदरमित्यादेरिवेति-कुण्डे बदरमिति सप्तम्यन्तकुण्डपदसमभिव्याहृतबदरपदाद् यथा बदरे कुण्डभेदबुद्धिस्तथेत्यर्थः। मेदारिति मूलस्य विवरणम्- भेदबुद्धिप्रसङ्गादिति- प्रदेशे धर्मास्तिका यादेभेंदबुद्धिप्रसङ्गादित्यर्थः । सप्तमीतत्पुरुषे कर्मधारये वाऽभ्युपगच्छति भवान् प्रदेशे धर्मास्तिकायादेरमेदमेवेति तद्भङ्गः स्यादिति साम्प्रतनयं प्रति समभिरूढनयस्याक्षेपः, यद्यप्यभेदेऽपि सप्तमीप्रयोगो भवति यथा घटे घटखरूपमित्यादौ नहि घटख रूपं घटा भिन्नमिति तथापि तत्र संसर्गतयैवाभेदो भासते न प्रकारतयेति प्रकारतयाऽभेदभानार्थ कर्मधारयसमास एवाश्रयणीय इत्याह-- 'घटे घटस्वरूपम्' इत्यादाविति। धर्मास्तिकाये प्रदेशो धर्मास्तिकायप्रदेश इति सप्तमीतत्पुरुषस्य धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयस्य च विग्रहवाक्यत्वखरूपे भेदेऽपि समस्त स्वरूपे भेदाभावात् तयोरर्थभेदप्रतिपत्तये तत्पुरुषे पूर्वपदस्य स्वशक्यार्थसम्बन्धिनि लक्षणा, कर्मधारये तु पूर्वपदशक्यार्थस्याभेदसम्बन्धेनैवोत्तरपदार्थेऽन्वय इति तत्र लक्षणाऽभावेन लाघवात् कर्मधारय एवं समभिरूढनयेनाभ्युपेयत इति केषाश्चिन्मतमुपदर्शयति-तत्पुरुष इति । 'पद लक्षणासत्त्वात्' इत्यस्य स्थाने 'पूर्वपदलक्षणासत्त्वात् ' इति पाठो युक्तः । तदभावेन लक्षणाया अभावेन । 'लाधवादेव' इत्येवकारेणाभेदप्रकारकबोधार्थ कर्मधारयसमासाश्रयणस्य पूर्वमुक्तस्य व्यवच्छेदः, नामार्थयोरमेदसम्बन्धे.